प्रमुखा विकल्पसूचिः उद्घाट्यताम्


← पटलः ५२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५४ →



अथ वक्ष्ये विशेषेण पादशैलादिलक्षणम् ।
लिंगतारत्रयं व्यासं तत्त्रिपादसमुन्नतम् ॥ १ ॥

श्रेष्ठमध्यकनिष्ठोच्चं तयोर्मध्येऽष्टभाजिते ।
व्यासं तु नवभागं तु तत्त्रिपादोक्तमुन्नतम् ॥ २ ॥

तदर्धमधमोत्तुंगं तयोर्मध्येऽष्टभाजिते ।
तुंगं तु नवधा प्रोक्तं पादाश्म नागरे विदुः ॥ ३ ॥

गर्भगेहविशालाक्षं श्रेष्ठं व्यासमुदाहृतम् ।
तदर्धं कन्यसं प्रोक्तं तयोर्मध्येष्टभाजिते ॥ ४ ॥

नवधा च शिलाव्यासं तत्त्रिपादोत्तमोदयम् ।
तदर्धमधमं ख्यातं तयोर्मध्येऽष्टभाजिते ॥ ५ ॥

नवधा तस्य तुंगं तु द्राविडं ह्येवमुच्यते ।
नालीगृहत्रिभागैक भागमुत्तमविस्तृतम् ॥ ६ ॥

तदर्धमधमं ख्यातं तयोर्मध्येऽष्टभाजिते ।
व्यासं तु नवधा तुंगं तत्त्रिभागोत्तमोन्नतम् ॥ ७ ॥

तदर्धमधमं तुंगं तयोर्मध्येऽष्टभाजिते ।
तुंगं तु नवधा प्रोक्तं पादाश्म वेशरान्वितम् ॥ ८ ॥

लिंगव्यासार्धमाधिक्यं व्यासं तद्वसुभाजिते ।
एकांशमवटे निम्नं लिंगमूलवदाकृतिः ॥ ९ ॥

रत्निमानामप्राण नवकोष्ठं बिले कुरु ।
अन्यत्र समतां कुर्यात् आधाराख्य शिला स्मृता ॥ १० ॥

तदश्मपीठसीमान्तं नन्द्यावर्तशिलादयः ।
लिंगात्पीठावसानं वा एकद्वित्र्यंगुलाधिकम् ॥ ११ ॥

नन्द्यावर्तशिलाव्यासं नागरे तु विधीयते ।
पीठव्यसाद्यवैकं वा द्राविडाक्षान्तिकादिकम् ॥ १२ ॥

लिंगव्यासनवांशे तु पीठादेकैकवर्धनात् ।
नन्द्यावर्तशिलाव्यासं नवधा वेसरं हि तत् ॥ १३ ॥

लिंगस्य परितः कल्प्यं चत्वारं चतुरश्रकम् ।
चतुरश्रोचितायामे तेषां दीर्घमुदाहृतम् ॥ १४ ॥

उत्तराग्रं तु प्राग्भागे प्रागग्रं दक्षिणे न्यसेत् ।
पश्चिमे चोत्तराग्रं तु प्रागग्रं चोत्तरे न्यसेत् ॥ १५ ॥

शांकरे प्रथमस्याग्रं अनलाग्रं द्वितीयके ।
तृतीयमूलं निर्-ऋतौ वायुमूलं चतुर्थकम् ॥ १६ ॥

नन्द्यावर्तशिलास्त्वेवं योज्यकल्कगुलोदकैः ।
ऊर्ध्वेष्टबन्धनं लिप्य स्थापयेत्पिण्डिकां बुधैः ॥ १७ ॥

सुधा वा वज्रबन्धं वा लिप्य पीठं प्रयोजयेत् ।
एकाश्मं चोत्तमं पीठं द्वाभ्यां वै मध्यविष्ठरम् ॥ १८ ॥

त्रिचतुष्पंचभिर्वाथ कन्यसं पीठमुच्यते ।
पीठानां तु गलादूर्ध्वं अश्वत्वेकेन कारयेत् ॥ १९ ॥

बहुवस्तु गलाधस्तात् पीठंधरं गले कुरु ।
गलाधस्ताद् दृषद्वौ चेद् पूर्व वै चापरे न्यसेत् ॥ २० ॥

त्रयश्चोत्तरतस्त्वेकं वामे वामे परद्वयम् ।
चत्वारं चेच्चतुष्कोणे चतुरश्रं प्रकल्पयेत् ॥ २१ ॥

द्विपराश्रं तु कर्तव्या पिण्डिका लक्षणान्विता ।
अथवा चाष्टबन्धैर्वा निश्छिद्रं सुदृढं कुरु ॥ २२ ॥

इष्टका चेत्तु बहुभिः कर्तव्या सुधयान्विता ।
लोहजं रत्नजं चैव दारुजं चैवमेव तु ॥ २३ ॥

सर्वेषां बंधनं चाष्ट बन्धमिव्यभिधीयते ।
विष्णुभागार्धसीम्ना च पिण्डिकोर्ध्वं समुन्नयेत् ॥ २४ ॥

नतोन्नतं न कर्तव्यं कर्तव्ये कर्तृनाशनम् ।
नपुंसकशिलाभिस्तु पीठाधस्ताच्छिलां नयेत् ॥ २५ ॥

एवं ब्रह्मशिलादीनि प्रोक्तं तदविशेषतः ।

इत्यंशुमान्काश्यपे पादशिलादिलक्षणपटलः (त्रिपंचाशः) ॥ ५३ ॥