प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ५३ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५५ →


अथ वक्ष्ये विशेषेण लक्षणोद्धारलक्षणम् ।
लिंगस्य मुखनिर्माणं लक्षणोद्धारमिष्यते ॥ १ ॥

प्रासादस्याग्रतो वापि शांकरे दक्षिणेऽपि वा ।
नवाष्टसप्तहस्तं वा मण्टपं चतुरश्रकम् ॥ २ ॥

षोडशस्तंभसंयुक्तं सर्वालंकारसंयुतम् ।
मण्टपस्य त्रिभागैकं तन्मध्ये वेदिकां कुरु ॥ ३ ॥

हस्तमात्रसमुत्सेधां दर्पणोदरसंनिभाम् ।
गोमयालेपनं कृत्वा पिष्टचूर्णैरलं कृताम् ॥ ४ ॥

नानातोरणसंयुक्तां नानापुष्पैरलंकृताम् ।
शालिभिस्थण्डिलं कृत्वा वेदिकायां विशेषतः ॥ ५ ॥

तण्डुलैश्च तिलैर्दर्भैः लाजपुष्पैरलं कृताम् ।
अधमत्रयलिंगानां एवं मण्टपमाचरेत् ॥ ६ ॥

शेषाणां लिंगदीर्घस्य वेदिकाविस्तृतं भवेत् ।
तेनैव त्रिगुणैर्व्यासं मण्टपस्य विशालकम् ॥ ७ ॥

प्. २५७) अन्यत्सर्वमलंकारं प्रागिवैव समाचरेत् ।
वेद्यूर्ध्वे शाययेल्लिंगं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ८ ॥

परितोऽष्ट घटान्न्यस्त्वा सकूर्चान्सापिधानकान् ।
ससूत्रान्नववस्त्राढ्यान् गन्धतोयेन पूरितान् ॥ ९ ॥

वासोपिधानान्हेमाढ्यान् लोकपालांश्च देशिकः ।
गन्धैः पुष्पैश्च धूपैश्च अर्चयेत्तु स्वनामतः ॥ १० ॥

लिंगमूलस्य वामे तु पिण्डिकां च निधापयेत् ।
रक्तेन शालिना वेष्ट्य लिंगपीठौ समर्चयेत् ॥ ११ ॥

वेदिकायास्ततस्त्वैन्द्रे कुण्डं वा स्थण्डिलं गुरुः ।
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥ १२ ॥

ब्रह्मवृक्षसमिद्भिस्तु होमं कृत्वा तु सद्यतः ।
आ वो राजेति मंत्रेण इदं विष्ण्विति मंत्रतः ॥ १३ ॥

ब्रह्मजज्ञानमंत्रेण पूजाहोमं समाचरेत् ।
चरुं हुत्वात्वघोरेण प्रत्येकाष्टशताहुतिः ॥ १४ ॥

रात्रौ प्रतिसरं बध्वा लिंगपीठौ द्विजोत्तम ! ।
स्वर्णरजतकार्पास सूत्रैर्वा हृदयेन तु ॥ १५ ॥

प्राग्वदग्निं समभ्यर्च्य स्विष्टं पूर्णाहुतिं चरेत् ।
एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके ॥ १६ ॥

देशिकश्च शुचिर्भूत्वा सकलीकृत विग्रहः ।
सितवस्त्रोत्तरीयाढ्यः सितमाल्यानुलेपनः ॥ १७ ॥

प्. २५८) सितयज्ञोपवीताढ्यः शिवद्विजकुलोद्भवः ।
स्थपतिश्च शुचिर्भूत्वा यज्ञसूत्रपवित्रधृत् ॥ १८ ॥

प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत् ।
पायसं घृतसंयुक्तं शिरः स्थाने बलिं हरेत् ॥ १९ ॥

रक्तशालिं परित्यज्य गन्धाद्यैरर्चयेद्धृदा ।
रत्नेन तं लिखेल्लिंगं मध्ये सूत्रं तु पातयेत् ॥ २० ॥

मुखभागे तु मध्ये तु नालं कुर्यात्सलक्षणम् ।
लिंगमानेन मतिमान् सूत्रविस्तारमुच्यते ॥ २१ ॥

रुद्रभागोदयं ग्राह्य शिरसो वर्तनान्वितम् ।
वेदविंशच्छतांशं च कृत्वैकांशांगुलं स्तृतम् ॥ २२ ॥

तदंशं वसुधा भज्यं तदेकयव मुच्यते ।
उत्तमोत्तमलिंगानां सूत्रं पंचयवंतती ॥ २३ ॥

शेषाणामपि लिंगानां वर्धयेन्न तु ह्रासयेत् ।
अधमत्रयलिंगानां सूत्रतारं यवं भवेत् ॥ २४ ॥

सूत्रविस्तारमेवं स्याद् खातं चैव तु तत्समम् ।
लक्षणं शिरसि व्याधिः ललाटे मरणं भवेत् ॥ २५ ॥

नेत्रसूत्रे त्वपस्मारं आस्ये चान्नविनाशनम् ।
चिबुके बन्धुनाशं स्यात् कर्णे स्कन्धविनाशनम् ॥ २६ ॥

स्तनदेशे सुतं हन्ति तस्मादेशाद्विवर्जयेत् ।
शिरसा सहरुद्रांशं गुणभागविभाजिते ॥ २७ ॥

प्. २५९) एकांशमूर्ध्वके * * स्थानादूर्ध्वतदंशके ।
तदधस्थांशके विप्र लक्षणोद्धारमाचरेत् ॥ २८ ॥

पद्मस्य मुकुलाकारं यथायुक्ति यथाकृतिः ।
द्विजानामभिवृद्ध्यर्थं नृपाणां च जयावहम् ॥ २९ ॥

खड्गौ प्रत्यान्विताकारं कुञ्जराक्षमिवाकृतिः ।
शंखं चांकुशयोर्भेदान्नृपाणामभिवृद्धये ॥ ३० ॥

कराञ्जलि समाकारं गोकर्णाकृति वर्तुलम् ।
वैश्यानां तत्त्रिकोणं च शूलवृत्तायतं तथा ॥ ३१ ॥

शूद्रस्य वृद्धिकरं त्रीणि वैश्यानां तस्य लक्षणम् ।
लक्षणोद्धारणोक्तांशं रुद्रभागविभाजिते ॥ ३२ ॥

मुकुलोदयमेकांशं तद्व्यासं चापि तत्समम् ।
तन्मूलनालदीर्घं तु नवभागमुदाहृतम् ॥ ३३ ॥

तन्नालमेकसूत्रं वा सूत्रद्वित्रियुतं तु वा ।
सूत्रद्वित्रियुतं चेत्तु सूत्रान्तरं यवत्रयम् ॥ ३४ ॥

यवद्वयान्तरं वाथ नालतारं द्विजोत्तम ! ।
नालमूले च तस्याग्रे सीमासूत्रं समालिखेत् ॥ ३५ ॥

तन्नालं चैकसूत्रं चेत् लिंगमध्ये विशेषतः ।
सूत्रोक्त व्यासखातं च नालयामे तु कल्पयेत् ॥ ३६ ॥

नालाधस्तात्तु व्योमांशं त्यज्य विष्णुशिरोपरि ।
मणिरेखां ततः कुर्यान्मुकुलादास्फिगन्तकम् ॥ ३७ ॥

मणिरेखयोन्तरं पद्ममूले पद्मसमं तु वा ।
पद्मतार त्रिधैकं वा वेदांशेऽग्न्यंशमेव वा ॥ ३८ ॥

पंचांशे तु युगांशे वा पद्मतारार्धमेव वा ।
मुकुलमूलेन्तरं ह्येवं नालमूलेन्तरं शृणु ॥ ३९ ॥

नालायामसमं वार्धं त्रिपादं वा युगांशके ।
त्रिभागं पंचभागे तु वेदभागमथोपरि ॥ ४० ॥

नालमूले समे वेशमणिरेखाद्वयोन्तरम् ।
मूलादग्रं क्रमात्क्षीणं मणिरेखां ततः कुरु ॥ ४१ ॥

नालमूले समे तिर्यक् द्वा पृष्ठे तु सबन्धयेत् ।
मणिरेखाव्यासखातं लिंगस्योचितसूत्रवत् ॥ ४२ ॥

मणिरेखालम्बनालदीर्घ तुंगसमेव वा ।
तस्मात्तन्मूलपर्यन्तं वसुभागविभाजिते ॥ ४३ ॥

मणिरेखालम्बनं विप्र नवधा परिकीर्तितम् ।
सर्वेषु लक्षणोद्धारेष्वेवं वै मणिरेखके ॥ ४४ ॥

प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु ।
लक्षणोद्धारणांशं तु दशभागविभाजिते ॥ ४५ ॥

मुकुलोदयमेकांशं वस्वंशं नालदीर्घकम् ।
नालाधस्तात्तु व्योमांशं नीत्वा शेषं तु पूर्ववत् ॥ ४६ ॥

द्वितीयं लक्षणं ख्यातं तृतीयं लक्षणं शृणु ।
लक्षणोद्धारभागं तु धर्मभागविभाजिते ॥ ४७ ॥

प्. २६१) एकांशं मुकुलोत्तुंगं नवांशं नालदीर्घकम् ।
शेषं पूर्ववदुद्दिष्टं चतुर्थं लक्षणं शृणु ॥ ४८ ॥

लक्षणांशं तु नवधा भज्यैकांशं तु कुड्मलम् ।
सप्तांशं नालदीर्घं तु शेषं पूर्ववदेव हि ॥ ४९ ॥

चतुर्थं लक्षणं प्रोक्तं पंचमं लक्षणं शृणु ।
लक्षणांशं वसुधा भज्य व्योमांशं मुकुलोदयम् ॥ ५० ॥

षडंशं नालदीर्घं तु नालाधस्ताच्छिवांशकम् ।
तदेव सप्तभागं तु नालदीर्घमुदाहृतम् ॥ ५१ ॥

शेषं प्रागिव कर्तव्यं * * * * * * * * ।

लक्षणांशे तु सप्तांशे शश्यंशं मुकुलोदयम् ।
भूतांशं नालदीर्घं तु शेषं पूर्ववदेव हि ॥ ५३ ॥

षडंशं नालदीर्घं तु शेषं प्रागिव संख्यया ।
एवमष्टविधं ख्यातं नालायामं द्विजोत्तम ! ॥ ५४ ॥

अग्राकारेब्जमुकुलात् भानुसंख्यात्सुसुव्रतम् ।
यथेष्टनालकर्तव्यं वसुसंख्यासु मे द्विज ॥ ५५ ॥

अग्राकारे दृढसूत्रं प्रकर्तव्यं लिंगेषूक्त प्रमाणतः ।
स्थापयेत्तु ततो लिंगं प्रागुदग्रंदुरष्टके ॥ ५६ ॥

लक्षयेत्पिण्डिकावक्त्रं लिंगसौम्ये निधापयेत् ।
स्थापितैः कलशैः स्नाप्य लिंगपीठौ हृदा गुरुः ॥ ५७ ॥

प्. २६२) गव्यैर्गन्धोदकैः स्नाप्य गन्धपुष्पादिभिर्यजेत् ।
लम्बकूर्चसमायुक्तं सर्वालंकारशोभितम् ॥ ५८ ॥

रथे वा शिबिकायां वा ग्रामं कृत्वा प्रदक्षिणम् ।
आचार्यं शिल्पिनं पूज्य वस्त्र हेमांगुलीयकैः ॥ ५९ ॥

ततो जलाशयं प्राप्य जलाधीवासनं कुरु ।
लक्षणोद्धारमाख्यातं प्रतिमालक्षणं शृणु ॥ ६० ॥


इत्यंशुमान्काश्यपे लक्षणोद्धारविधिपटलः (चतुः पंचाशः) ॥ ५४ ॥