अंशुमत्काश्यपागमः/प्रथमेष्टकापटलः ४

← पटलः ३ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५ →


अथ वक्ष्ये विशेषेण शृणुष्व प्रथमेष्टकाम् ।

प्रासादे मण्टपे साले गोपुरे च तथैव च ॥ १ ॥


सदने परिवाराणां विन्यसेत् प्रथमेष्टकाम् ।

स्निग्धं चैवा तथाऽस्निग्धं द्विविधं भूमिलक्षणम् ॥ २ ॥


चिक्कणा शर्कराढ्या च त्वशक्यं खननक्रियाः ।

या सा स्निग्धा मही ख्याता तनुवालुकसंयुता ॥ ३ ॥


पुरुषांजलि मात्रे तु दृष्टतोयसमन्विता ।

अक्लेशात्खननीयं तत् सुस्निग्धा स मही स्मृता ॥ ४ ॥


प्रासादस्य तु विस्तारात् द्विहस्ताधिक विस्तृतम् ।

हस्तमात्रं खनेद्विप्रा सुस्निग्धं तु महीतलम् ॥ ५ ॥


यावताजलदृष्टं तु तावता स्निग्धकं खनेत् ।

अवटं वालुकैः स्थूलैः पूरयित्वा जलान्वितम् ॥ ६ ॥


पूरयित्वा स्थलं पश्चात् जलेन समतां कुरु ।

मुसलैर्हस्तपादैश्च स्निग्धं कृत्वा बृहच्छिलैः ॥ ७ ॥


एवमाधारमानं तु त्वधिकामवटं कुरु ।

मानसूत्राणि सूत्राणि पातयेत्तत्र देशिकः ॥ ८ ॥


प्रथमं मानसूत्रं तु विन्यासं तु द्वितीयकम् ।

तृतीयाधिष्ठसीमा च चतुर्थोपपीठसीमका ॥ ९ ॥


पंचमं होमसूत्रं तु षष्ठं प्रकृति सूत्रकम् ।

एवं क्रमेण विन्यस्य सूत्रषट्कं द्विजोत्तम ॥ १० ॥


तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः ।

षोडशस्तम्भ संयुक्तं वितानध्वजभूषितम् ॥ ११ ॥


तोरणैर्दर्भमाल्यैश्च मुक्तादामैरलं कृतम् ।

मण्टपस्य त्रिभागैकं वेदिकायास्तु विस्तरम् ॥ १२ ॥


हस्तमात्रसमुत्सेधं दर्पणोदरसंनिभम् ।

परितस्त्वग्निकुण्डानि महाशासु प्रकल्पयेत् ॥ १३ ॥


वेदाश्रं च धनुर्वृत्तं अब्जमिन्द्रादिषु क्रमात् ।

हस्तमात्रप्रविस्तारं घातं चैव त्रिमेखलाम् ॥ १४ ॥


गोमयालेपनं कृत्वा प्रोक्षयेत्पंचगव्यकैः ।

पिष्टचूर्णैरलंकृत्य ततो वै विप्रभोजनम् ॥ १५ ॥


कृत्वोच्छिष्टं समुद्वास्य वास्तुहोमं ततः परम् ।

पर्यग्निकरणं कृत्वा प्रोक्षयेत्तु कुशांभसा ॥ १६ ॥


स्थण्डिलं वेदिकायां तु चाष्टद्रोणैश्च शालिभिः ।

तदर्धैस्तंडुलैश्चैव तदर्धैश्च तिलैरपि ॥ १७ ॥


स्थंडिलं कल्पयेद्विद्वान् दर्भैः पुष्पैः परिस्तरेत् ।

शिलाहर्म्ये शिलाभिस्तु दारुभिर्दारुहर्म्यके ॥ १८ ॥


आद्येष्टका तु कर्तव्या विपरीतं तु नाचरेत् ।

पुंलिंगाभिश्शिलाभिस्तु कारयेत्प्रथमेष्टकाम् ॥ १९ ॥


द्वारबन्धस्तु कर्तव्यः स्त्रीशिलाभिर्विशेषतः ।

नपुंसकोपलेनैव मूर्धेष्टकां द्विजोत्तम ! ॥ २० ॥


नुपंसकोपलेनैव भित्तिं कुर्याद्दृढीकृताम् ।

यथालाभशिलाभिर्वा भित्तिस्तम्भादयो(दिकं) भवेत् ॥ २१ ॥


वस्वंगुलं समारभ्ये द्विद्व्यंगुलविवर्धनात् ।

अष्टत्रिंशांगुला यावत् आयामं तु कला भवेत् ॥ २२ ॥


आयामार्धं विशालं स्यात् विशालार्धं घनं भवेत् ।

मानांगुलेन कर्तव्यं अन्यमानं न कारयेत् ॥ २३ ॥


नवांगुलं समारभ्य द्विद्व्यंगुल विवर्धनात् ।

एकोन चत्वारिंशान्तं भेदभोजांगुलेन तु ॥ २४ ॥


विस्तारं च घनं पश्चात् तत्संख्या चैव षोडश ।

एकादि षोडशान्तानां भूमीनां क्रमशोच्यते ॥ २५ ॥


मूर्धेष्टकासुपुंसादिरेखाभिस्तु परीक्षयेत् ।

अयुग्मं ऋजुरेखा च पुंलिंगाय प्रकीर्तिता ॥ २६ ॥


युग्मरेखा स चक्रा च स्त्रीलिंगाय प्रकीर्तिता ।

युग्मरेखा सयुग्मं वा कर्णिका सा नपुंसका ॥ २७ ॥


रेखाबिन्दुकलंकादि लूतपातसमन्वितम् ।

वर्जितानि प्रयत्नेन दोषहीनं तु संग्रहेत् ॥ २८ ॥


ईषदुन्नतमूलस्य नतमग्रमुदाहृतम् ।

ऊर्ध्वभागमुखं ख्यातं अपरं भूपतांशकम् ॥ २९ ॥


अश्मानं भूगतं चाग्रं ऊर्ध्वं चापरमुच्यते ।

प्रागुदक्स्थकमैशान्यं शीर्षं वै परिकीर्तितम् ॥ ३० ॥


मूलं तदितरज्ज्ञातं प्रमाणं त्विष्टकासमम् ।

गव्यैर्गन्धोदकैः स्नाप्य पूर्वरात्राधिवासयेत् ॥ ३१ ॥


शिवद्विजकुलोत्पन्नः शिवदीक्षासमन्वितः ।

सर्वलक्षणसंपन्नो वेदाचाररतः शुचिः ॥ ३२ ॥


आपोवहनकं स्नानं भस्मस्नानं च कारयेत् ।

नवाम्बरधरोष्णीषाः सोत्तरीयानुलेपनः ॥ ३३ ॥


गन्धमाल्यैरलंकृत्य सकलीकृतविग्रहः ।

पंचांगभूषणैर्भूष्य क्षालयेत्प्रथमेष्टकाः ॥ ३४ ॥


हैमैः कार्पाससूत्रैर्वा बध्वा प्रतिसरं हृदा ।

स्थंडिले कर्णिकाबाह्ये महाशासु निधापयेत् ॥ ३५ ॥


लकारं प्राग्दिशो भागे वकारं याम्य गोचरे ।

रकारं वारुणे देशे यकारं सौम्यगोचरे ॥ ३६ ॥


शालिपिष्टेन संलिख्य प्रत्येकं वस्त्रवेष्टितम् ।

पूर्वाग्रं सौम्य याम्ये तु शेषौ द्वौ चोत्तराग्रकौ ॥ ३७ ॥


स्थापयेत्तु समभ्यर्च्य पृथिव्याद्यात्मकं क्रमात् ।

नवसंख्यानवान्कुंभान् ससूत्रान्वस्त्रवेष्टितान् ॥ ३८ ॥


ससूत्रान्सापिधानांश्च नानागन्धाम्बुपूरितान् ।

हेमपंकजसंयुक्तान् मध्यादिक्रमशो न्यसेत् ॥ ३९ ॥


कुंभमध्ये तु सादाख्यं परितो लोकपालकान् ।

तत्तन्मन्त्रं न्यसेत्कुम्भे ध्यात्वा गन्धादिभिर्यजेत् ॥ ४० ॥


नैवेद्यं दापयेद्धीमान् ततो होमं समाचरेत् ।

अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥ ४१ ॥


पलाशौ दुम्बराश्वत्थ वटमिन्द्रादिषु क्रमात् ।

समिधस्सद्यमंत्रेण मूलेनाज्यं तु होमयेत् ॥ ४२ ॥


चरुहोममघोरेण नेत्रेणैव तिलं तथा ।

सर्षपं कवचेनैव प्रत्येकाष्टशताहुतिः ॥ ४३ ॥


द्रव्यं प्रति विशेषेण व्याहृत्याहुतिमाचरेत् ।

एवं जागरणं रात्रौ प्रभाते देशिकोत्तमः ॥ ४४ ॥


आपोवगाहनादीनि प्रागिवैव समाचरेत् ।

इष्टकाः कलशाग्निं च पूजयेत्तु विशेषतः ॥ ४५ ॥


जयादिरभ्यातानं च राष्ट्रभृच्चैव होमयेत् ।

स्विष्टमग्नेति मंत्रेण पूर्णाहुतिमथाचरेत् ॥ ४६ ॥


स्थापकः स्थपतिं पूज्य वस्त्रहेमांगुलीयकैः ।

मुहूर्ते समनुप्राप्ते द्वारं नीत्वाऽथ देशिकः ॥ ४७ ॥


द्वारस्य दक्षिणे चांघ्रिमूले भित्त्यन्तरालके ।

इष्टकां वा शिलां वा तु स्थापयेद्देशिकोत्तमः ॥ ४८ ॥


प्रासादमण्टपानां च निर्गमस्य प्रदक्षिणे ।

सालानां गोपुराणां च प्रवेशस्य प्रदक्षिणे ॥ ४९ ॥


अभ्यन्तरे तु भित्तेस्तु गोपुराणां निधापयेत् ।

अग्रमग्रं तथैशान्यां मूलमूलं च नैर्-ऋते ॥ ५० ॥


अग्रमूलसमायुक्तं अग्नौ वा वायुगोचरे ।

पंचब्रह्म समुच्चार्य पूर्वादिक्रमशो न्यसेत् ॥ ५१ ॥


तन्मध्ये विन्यसेद्रत्नान् हेमपंकजसंयुतम् ।

पंचमृद्भिः समालिप्य कुंभस्थाद्भिः प्रपूरयेत् ॥ ५२ ॥


शोभनं दक्षिणावर्तं वामावर्तमशोभनम् ।

वामावर्ते भवेत्सम्यक् शान्तिहोमं समाचरेत् ॥ ५३ ॥


यागोपकरणं सर्वं आचार्याय प्रदापयेत् ॥ ५३-१/२॥


इत्यंशुमान्काश्यपे प्रथमेष्टकापटलः (चतुर्थः) ॥ ४ ॥