अंशुमत्काश्यपागमः/भक्तलक्षणपटलः ९१

← पटलः ९० अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ९२ →



अथ वक्ष्ये विशेषेण भक्तानां लक्षणं परम् ।
सर्वेषामथ भक्तानां पदं वै तु चतुर्विधम् ॥ १ ॥

सालोक्यं चैव सामीप्यं सायुज्यं च तथैव च ।
सारूप्यपद विप्राश्च चतुर्भेदमुदाहृतम् ॥ २ ॥

पुरुषो वा स्त्रियो वाथ तेषु यत्पदमाश्रितम् ।
तत्तत्पादानुकूल्यं तु प्रतिमां कारयेद्बुधः ॥ ३ ।

स्वजाति चिह्नसंयुक्तं सालोक्यपदमाश्रितम् ।
तथा सामीप्य देवानां ममचिह्नाकृतिस्तु वा ॥ ४ ॥

मम चिह्नाकृतिर्युक्ताः शेषा वै त्रिपदाश्रिताः ।
बाला च यौवना वृद्धा त्रिधावस्थाः प्रकीर्तिताः ॥ ५ ॥

वत्सरत्रयमारभ्य यावदं तु कलाब्दकम् ।
तेष्वान्तवयसो पेता भक्ता बाला इति स्मृताः ॥ ६ ॥

तस्मात् सप्तति वर्षान्तं वयसा यौवनान्विताः ।
तदूर्ध्व वयसोपेता वृद्धा इति बिदुर्बुधाः ॥ ७ ॥

बालस्तु पंचतालेन शेषावयसुमेन वै ।
स्थानकं चासनं चैव याननृत्तं तथैव च ॥ ८ ॥

चतुर्भेदेन कर्तव्या मद्भक्ता मानुषा बुधः ।
आभंगसमभंगं वा ह्यतिभंगमिति त्रिधा ॥ ९ ॥

सव्यं वा सव्यपादं वा कुंचितं चितरास्थितम् ।
द्वौ द्वौ स्वजातिच्छिह्नं तद् हृदाञ्जलि करोऽथवा ॥ १० ॥

टकं दक्षिणहस्ते भृत् वरदं वामहस्तके ।
हस्तं रूक्षसमायुक्तं स्थानकं ह्येवमाचरेत् ॥ ११ ॥

पद्मेव भद्रपीठे वा वामपादं तु शाययेत् ।
लंबन्तु दक्षिणं पादं हस्तं पूर्ववदेव हि ॥ १२ ॥

आसनं ह्येवमाख्यातं योजयेत्कुटिलासनम् ।
टंकं दक्षिणहस्ते तु पाशं वामकरे धृतम् ॥ १३ ॥

युक्त्यान्यं वा धृतं विप्र यानमूर्तिं प्रकल्पयेत् ।
नृत्तं त्रिविधमुद्दिष्टं सात्विकं राजसं युताम् ॥ १४ ॥

तामसं चेति विख्यातं क्रमाद्बाह्यन्तरान्तगम् ।
वयसोपेतभक्तानां योग्यमित्युदितं मया ॥ १५ ॥

तेषादौ सात्विकं नृत्तं वक्ष्येहं शृणु सुव्रत ! ।
भक्तानामुदयं चापि मानं कल्पोक्तवद्भवेत् ॥ १६ ॥

षट्सप्तांगुलं वाथ नतमानं विधीयते ।
स वक्रं वामपादं तु पद्मपीठोपरिन्यसेत् ॥ १७ ॥

उद्धृतं दक्षिणं पादं पीठाद्वै वेदमात्रकम् ।
पंचषट्सप्तमात्रं वा पीठादुद्धृतमानकम् ॥ १८ ॥

तत्समं ब्रह्मसूत्रं तु तदंघ्र्यंगुष्ठनीव्रकम् ।

तद्धस्तमणिबन्धात्तु त्रयोदशांगुलमन्तरम् ।
तद्धस्ते कोर्परं नीव्रं पृष्ठसूत्राद्यमं विदुः ॥ २० ॥

मणिबन्धाध्वसीमा स्याल्लम्ब * * प्रलम्बयेत् ॥ २१ ॥

ललाटमध्यान्नासाग्रात् हिक्कामध्यान्तमेव हि ।
स्थितांघ्रिनलकामध्ये ब्रह्मसूत्रं प्रलम्बयेत् ॥ २२ ॥

तत्सूत्राद्वामतो नाभिमध्यं सार्धांगुलं भवेत् ।
तत्सूत्राद्दक्षिणे सव्य हस्त * * * मात्रकम् ॥ २३ ॥

सूत्रात्स्थितांघ्रिजान्वन्तं रससप्ताष्टमात्र वा ।
ललाटाद्गुल्फान्तसूत्रान्तं अक्षांगुलं भवेत् ॥ २४ ॥

नासा ओष्ठर मध्यं च ब्रह्मसूत्रं तु संस्पृशेत् ।
अथो कुक्षिस्पृशेत्सूत्रं नासाग्रे चैव संस्पृशेत् ॥ २५ ॥

अथवा दक्षिणं पादं पीठस्थिता * * * * ।
उद्धृतं वामपादं तु शेषं तदनुकूलितम् ॥ २६ ॥

सर्वाभरणसंयुक्तं बालं चेन्नग्नमेव वा ।
सवस्त्रं वाथ कौपीनं कल्पयेत्कल्पवित्तमः ॥ २७ ॥

यौवनाश्च प्रवृद्धाश्च नानावस्त्रेण वेष्टितम् ।
सात्विकं नृत्तमाख्यातं राजसं शृणु सुव्रत ! ॥ २८ ॥

सूचिं वाऽप्यथ दण्डस्ते वक्रदण्डं तु वांजलि ।
दशनन्दाष्टमात्रं वा पीठात्पादोद्धृतं भवेत् ॥ २९ ॥

शेषं प्रागिव कर्तव्यं एवं राजसमेव हि ।
दण्डहस्तं विना वामहस्तं वा मकुटीं स्पृशेत् ॥ ३० ॥

दण्डं दक्षिणहस्ते तु धृत्वा त्वीषन्नताननम् ।
एकं वा द्वित्रिमात्रं वा पीठादुद्धृतपादकम् ॥ ३१ ॥

भस्मोद्धूलितसर्वांगं अक्षमाल्यैरलंकृतम् ।
तामसं ह्येवमाख्यातं एवं स्याद्भक्तलक्षणम् ॥ ३२ ॥

प्रणवादिनमोन्तं च स्वनामपदमध्यकम् ।
भक्तानां मन्त्रमाख्यातं तेनैवार्चनमाचरेत् ॥ ३३ ॥


इत्यंशुमान्काश्यपे भक्तलक्षणपटलः (एकनवतितमः) ॥ ९१ ॥