प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ८९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ९१ →



अथ वक्ष्ये विशेषेण वर्णलेपनमुत्तमम् ।
शैलदा षष्टिकागर्भं त्रिधा वै वर्णलेपनम् ॥ १ ॥

शैलजे वर्णपक्ष्या वै अंगोपांगं शिलामयम् ।
उपरिष्टात् पटाच्छाद्य तस्योर्ध्वे शर्करं लिपेत् ॥ २ ॥

तदूर्ध्वे चिक्कणं लिप्य श्वेतवर्णादयस्ततः ।
बिम्बोचितनिभं लिप्य प्रतिष्ठां सम्यगाचरेत् ॥ ३ ॥

अथवा शैलजे बिम्बे पटाच्छाद्यं विनोर्ध्वतः ।
शर्करां यवमानं तु लिप्य चिक्कणलेपनम् ॥ ४ ॥

श्वेतं च बिम्बवर्णं च क्रमेणैवोचितं लिपेत् ।
शिलागर्भमिति ख्यातं वर्णभिन्नस्तमेव वा ॥ ५ ॥

शूलस्थापनकर्मादिदारुगर्भं तु पूर्ववत् ।
चित्रं वाप्यर्धचित्रं वा पक्वेष्टका सुधान्वितम् ॥ ६ ॥

अंगं संपूर्णकं कृत्वा पटमाच्छादयेत्ततः ।
शर्करादीनि सर्वाणि शैलजे तु यथा तथा ॥ ७ ॥

कर्तव्यमिष्टका गर्भदारुमिश्रितमेव वा ।
एवं त्रिविधरीत्या तु वर्णगर्भमुदाहृतम् ॥ ८ ॥

आदौ श्वेतनिभं लिप्य बहुस्वच्छसैर्जलैः ।
जलैः क्रमेण वर्णं तु त्रिभिः कृत्वा तु लेपयेत् ॥ ९ ॥

तदूर्ध्वं पाण्डुवर्णं तु लेपयेद्द्विजसत्तम ! ।
सितबिम्बनिभं चैवं सुमिश्रं च तु पाण्डुवत् ॥ १० ॥

सितवर्णेन बिम्बानां पाण्डुवर्णान्विता भवेत् ।
रक्ताभीति निभस्यातां पाण्डुवर्णं प्रकल्पयेत् ॥ ११ ॥

बन्धं स्वच्छं च मध्यं च उदरं च त्रिधा भवेत् ।
कपित्थस्यैव निर्यासैः त्रिबन्धं तु प्रकल्पयेत् ॥ १२ ॥

स्वच्छं तैलोपमं ख्यातं मध्यमं मधुसादृशम् ।
तरणादधिसादृश्यं स्निग्धं तं मन्तुरं भवेत् ॥ १३ ॥

मेदुरेण भवेच्छ्लिष्टकल्कसंधानमाचरेत् ।
कल्कमर्दनकार्यं तु कारयेन्मध्य वारिणा ॥ १४ ॥

कल्कस्वच्छजलेनैव पेषणं तु समाचरेत् ।
सुधाकर्म जलोपेतं गोमहीषं च चर्मयोः ॥ १५ ॥

पाच्यसारं तु बन्धं स्याज्जलपातांसुकं भवेत् ।
जलपातं विना यत्र * * कपित्थकं द्विज ! ॥ १६ ॥

स निर्यासजलं बन्धमुक्तमन्यन्नकारयेत् ।
कल्कं षोडशधा भज्य षट्पंच चतुरं तु वा ॥ १७ ॥

कपित्थ निर्यासै * * स्वच्छेनैव जलेन तु ।
स कृच्चिक्कणमालेपं कारयेद्द्विजसत्तम ! ॥ १८ ॥

चिक्कणं कल्कसारं स्यात् तद्विधं चिक्कणं भवेत् ।
जलपाते सुधा धारा पाते शर्करार्द्रवत् ॥ १९ ॥

चिक्कणं द्विविधं ह्येवं कल्पयेत्तु यथोचितम् ।
चिक्कणार्हकबन्धं तु दशभागविभाजिते ॥ २० ॥

एकांशरहितं बन्धं सतलेपनयोग्यकम् ।
चिक्कणे बन्धकूलं वा सितलेपन कर्मणि ॥ २१ ॥

सितबन्धसमं वाथ * * * तद्विहीनकम् ।
पाण्डुवर्णस्य बन्धं स्यात् त्रिःकृत्वा पाण्डुलेपनम् ॥ २२ ॥

षड्वर्णं तु ततो लिप्य क्रमेणैव तु देशिकः ।
बिम्बस्वभाववर्णं तु षट्कृत्वा तु समालिपेत् ॥ २३ ॥

पाण्डुबन्धं तु विंशांशे त्वंशहीनं तु यज्जलम् ।
षड्वर्गेष्वादि वर्णस्य बन्धमित्युमदायताः ॥ २४ ॥

तदादि वर्णबन्धं तु विंशांशेन विहीनकम् ।
द्वितीयवर्णबन्धं स्यात् तद्वद्बन्धनकं तथा ॥ २५ ॥

षण्णामपि बन्धानां बन्धमेवं क्रमशोन्नतम् ।
प्रथमाद्युचितैर्बन्धैः षड्वर्णं च लिपेत्क्रमात् ॥ २६ ॥

पत्रहीनं च बिन्दुं च सूपमुद्वर्तनं तथा ।
प्रवर्तं च षडैतानि वर्णं लेपनकं विदुः ॥ २७ ॥

दीर्घं पत्रमिति ख्यातं रहितं वै तिर्यग्गतम् ।
सर्षपास्तरणं यद्वत् तद्वद्बिन्दुमुदाहृतम् ॥ २८ ॥

सूक्ष्मबिन्दुस्तु धूपं स्याद् तस्माद्वै सूक्ष्मबिन्दु वा ।
तदुर्वक्त्र नमाख्यातं ततोच्चं तद्विभाजितम् ॥ २९ ॥

सूक्ष्मचूर्णसमायुक्तं वर्णलेपं प्रवर्तकम् ।
षड्वर्णक्रममेवं हि लेपयेत्तु परस्परम् ॥ ३० ॥

इत्यंशुमान्काश्यपे वर्णलेपनक्रमपटलः (नवतितमः) ॥ ९० ॥