प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ९२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ९४ →


रुद्रधा कथितं रूपं क्रममानं वदाम्यहम् ।
पूर्वात्पश्चादुदीच्यन्तं मानयेत्सकलस्थलम् ॥ ३ ॥

भुजं हस्तं करं चैव पार्श्वं पर्यायवाचकाः ।
भुजेनैव तु जंघोर्ध्वौ घनं वा पादमुच्यते ॥ ४ ॥

समाश्रमेवमाख्यातं आयताश्रं तथैव च ।
विषमाश्रे विशेषोऽस्ति तं विशेषं शृणुष्वथ ॥ ५ ॥

पूर्वपश्चिमहस्तौ द्वौ संयोज्यार्धं भुजा भवेत् ।
तदल्प्य द्विगुणं कृत्य तन्मानं तु महाभुजाः ॥ ६ ॥

अर्धचन्द्रं समाख्यातं त्रिकोणमधुना शृणु ।
त्रिभुजेष्वेव हस्तं तु मानदण्डेन मानयेत् ॥ ७ ॥

तदर्धं चाल्पहस्तं स्यात् तत्पार्श्वमुत्तमोत्तमम् ।
यवादग्रावसानं तु मानयेत्तन्महाभुजाः ॥ ८ ॥

त्रिकोणमेवमाख्यातं वृत्ताकारमथ शृणु ।
कलांशं विभजेन्नाहं पंचांशं तस्य विस्तृतम् ॥ ९ ॥

तत्तारं तु त्रिपंचांशं कृत्वा त्यागद्वयं त्यजेत् ।
शेषं द्वयोदशांशं तु वृत्तस्य तु भुजा भवेत् ॥ १० ॥

तदेवाल्पभुजा ख्यातं महाहस्तं च तद्भवेत् ।
वृत्तमेवं समाख्यातं पंचाश्रमधुनोच्यते ॥ ११ ॥

पंचषट्सप्तकोणानां सममेतदुदाहृतम् ।
क्षेममध्यममारभ्य यावत्पार्श्वस्य मध्यम् ॥ १२ ॥

तन्मानेन हृते वृत्तं वृत्तं च मानयेद्बुधः ।
वृत्तबाह्यगतां चैषां मानयेत्तु त्रिकोणवत् ॥ १३ ॥

पंचाश्रमेवमाख्यातं अष्टाश्रमधुनोच्यते ।
भुजान्तेषु महाशासु प्रागग्रं चोदगग्रकम् ॥ १४ ॥

द्वौ द्वौ सूत्रं न्यसेद्धीमान्वेदाश्रं पंचसंख्यका ।
त्रिकोणं च चतुष्कोणं चत्वारस्तं प्रसंभवा ॥ १५ ॥

तद्वेदाश्रं त्रिकोणं च पूर्ववन्मानयेद्बुधः ।
वस्वश्रमेवमाख्यातं शेषं युक्त्या समाचरेत् ॥ १६ ॥

युगाश्रं पंचदण्डेन काकं नीतिरि विद्यते ।
पंचमाषं तु पादं स्यात् चतुष्पादं तु पाटिका ॥ १७ ॥

क्रोशं पंचदशं दण्डं अर्धकर्णं तु तद्द्वयम् ।
त्रितयं कर्णमित्युक्तं चतुष्कोणं तु योजयेत् ॥ १८ ॥

एवं भूमानमाख्यातं ग्रामादिरथ वक्ष्यते ॥


इत्यंशुमान्काश्यपे भूमानविधिपटलः (त्रिनवतितमः) ॥ ९३ ॥