अंशुमत्काश्यपागमः/ग्रामादिलक्षणपटलः ९४


← पटलः ९३ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ९५ →



अथ वक्ष्ये विशेषेण भूमानं शृणु सुव्रत ! ।
समाश्रमायताश्रं च विषमाग्रं तथैव च ॥ १ ॥

प्. ३८६) योन्याकारार्धचन्द्रं च त्रिकोणं वृत्तमेव च ।
पंचाश्रं च षडश्रं च सप्ताश्रं चाष्टकोणकम् ॥ २ ॥


अथ वक्ष्ये विशेषेण ग्रामादीनां च लक्षणम् ।
त्रिपंचदण्डमारभ्य द्विद्विदण्डविवर्धनात् ॥ १ ॥

एकोनविंशदण्डानां चत्वारिंशत् त्रयाधिकम् ।
भेदं ग्रामादि विस्तारमत्याभा समुदाहृतम् ॥ २ ॥

सैकं तु शतदण्डादि दशदण्डविवर्धनात् ।
यावदष्टसहस्रान्तं जात्येकं त्रिंशतिर्भवेत् ॥ ३ ॥

माषा वि * * समान्य मायामं पंचधा भवेत् ।
आयादि संपदार्थं तु दण्डच्छेदं विनायतम् ॥ ४ ॥

हीनं वात्वधिकं वापि ओजसं स्यात्परिग्रहेत् ।
भानुद्विगुणमाधिक्यं त्रिशतं भूसुरद्विज ! ॥ ५ ॥

षोडशद्विशतं चैव पंचाशतमतः परम् ।
विप्रैरधिष्ठितं वास्तु त्रिधाभा समुदाहृतम् ॥ ६ ॥

चतुर्विंशत्सहस्रं च विकल्पं त्रिविधं भवेत् ।
सप्तषट्पंचसाहस्रं छन्दोभेदं त्रिधा भवेत् ॥ ७ ॥

भानुसंख्या सहस्रं च दशसाहस्रमेव वा ।
तथैवाष्टसहस्रं च जातिभेदं त्रिधा भवेत् ॥ ८ ॥

अन्याभात्याशक्तान्तामेकादि नवसीमकम् ।
अत्यन्ताभास भेदं च नवधा द्विजसत्तम ! ॥ ९ ॥

ह्यासायामं भुजाभ्यं च वदौघं च विदुर्बुधाः ।
अष्टाभिर्वर्धयेद्धीमान् गुणव्रासं वसुभिर्हरेत् ॥ १० ॥

शेषं ध्वजादि योनिं स्यात् परितापवटं तथा ।
त्रिंशार्धववशेषं तु नन्दादि निधयोद्भवेत् ॥ ११ ॥

विदेव वर्गभिर्ग्रासे शेषं भानु दिवाकरम् ।
आयाधिक्यं व्ययं क्षीणं संपदामास्पदं पदम् ॥ १२ ॥

योनि धूमं च धानं च खरकाकं तथैव च ।
व्याधिरोगभयक्लेशं वर्धयेयुः परस्परम् ॥ १३ ॥

ध्वजसिंह वृषं चैव गजं चैव सुखावहम् ।
वारेषु सितशशी वृद्धिः गुरुवारे च ऋद्धिदम् ॥ १४ ॥

वर्जिताश्चान्य वारादि गृहितेव विदास्पदम् ।
भद्रा चैव जया पूर्णा तिथयस्तु शुभावहाः ॥ १५ ॥

नन्दायां यत्तु रिक्तायां श्रिश्रिकाममशोभनम् ।
कर्तृजन्मादिनाध्वास्तु * * स्तुदिनसीमकम् ॥ १६ ॥

गणयेज्जन्मनक्षत्रं वेदं चैव ऋतुस्तथा ।
वसुनन्ददिनं श्रेष्ठं जन्मादि च पुनः पुनः ॥ १७ ॥

पूजितास्त्वितरा वर्ज्यावैनाशिकं विवर्जयेत् ।
विषाय द्वादशं लग्नं मत्यावसुर वर्जयेत् ॥ १८ ॥

तिथिवारादीनि योज्य अयोग्यं परिवर्जितम् ।
भुक्तजन्मदिनद्वास्तु नाम ऋक्षविरोधिकम् ॥ १९ ॥

एवं परीक्ष्य बहुधा विन्यासं च ततः शृणु ।
मेषे च मिथुने कर्किसिंहतौलिकवृश्चिके ॥ २० ॥

कुंभे च मकरे भानुगते पक्षार्क्ष शोभने ।
ग्रामाद्यारम्भणं श्रेष्ठं गृहारम्भं च शोभनम् ॥ २१ ॥

धनुर्मीनेऽथवा चैव कन्यायां भानुसंगते ।
ग्रामारम्भं न कर्तव्यं विपरीतं न कारयेत् ॥ २२ ॥

कथमे तत्र वासीनां व्याधि शोकमुदाहृतम् ।
विप्रैरधिष्ठितं यत्तन् मलक्ष्म्या विद्यते द्विज ! ॥ २३ ॥

नृपवासं पुरा ख्यातं वैश्यानां नागरं भवेत् ।
ग्रामाः स्यदन्यवासं तु कुटिका चेति कीर्तितम् ॥ २४ ॥

खेटकं चेति विख्यातं विटपं चेति कीर्तितम् ।
समस्तजाति संयुक्तं क्रयविक्रयकैर्युतम् ॥ २५ ॥

द्वीपान्तरागत द्रव्य क्षौमरत्नधनादिभिः ।
सागराणां तु पार्श्वे तु सागरानुगतायतम् ॥ २६ ॥

तत्तद्वर्तनमाख्यातं शेषं युक्त्याभिधानतः ।
जले पर्ववधंकस्तिवने वा गिरिसंगरे ॥ २७ ॥

देवैर्भूतपिशाचैर्वा मर्त्यानां दुष्प्रयोजनम् ।
समस्तजाति संयुक्तं सर्वद्रव्यसमन्वितम् ॥ २८ ॥

राजवेश्मसमायुक्तं वर्तदुर्गमिति स्मृतम् ।
प्रागुक्त विधिना विप्र दिक्परिच्छेदनं कुरु ॥ २९ ॥

भूमिं समतलं कृत्वा पदविन्यासमाचरेत् ।
सकलं पादमेवं स्यात् पेचकं तु चतुष्पदम् ॥ ३० ॥

नवांशं पीठमाख्यातं महापिठं कलांशकम् ।
पंचविंशत्युपपीठं स्यात् षड्विंशत्युपपीठकम् ॥ ३१ ॥

स्थण्डिलं सप्तसप्तांशं अष्टांशं मण्डुकं भवेत् ।
षण्णवत्याधिकं चैव शतभद्र महासनम् ॥ ३२ ॥

पंचविंशद्द्विशतं पद्मगर्भमुदाहृतम् ।
रसाधिकं च पंचांशं * शत त्रियुतं भवेत् ॥ ३३ ॥

द्विशतासनवासीतिवृतभोगमुदाहृतम् ।
त्रितं च षट्चतुर्युक्तं कर्णौषकमुदाहृतम् ॥ ३४ ॥

सुसंहितपदं चैव चत्वारिंशच्चतुष्पदम् ॥ ३५ ॥

सवेदाशीतिकं चातुशतीकप्रतिकान्तकम् ।
सनन्दपंचवेदांशं पंचादशविशालकम् ॥ ३६ ॥

षट्सप्तति पंच शतं विप्रगर्भमिति स्मृतम् ।
विन्यषड्द्विशतं पंच * * कोष्ठसमन्वितम् ॥ ३७ ॥

षट्सप्तति षट्पीतं च यत्तत् स्याद् विप्रभोगकम् ।
नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥ ३८ ॥

विशालाक्षपदं वेदाशीति सप्तशतांशकम् ।
सैकाष्टपंचयुतं चाष्टशतं तु विप्राणाम् ॥ ३९ ॥

विश्वेशसारमित्युक्तं एतन्नवशतांशकम् ।
सैकाष्टकाधिकं दशशतमीश्वरस्य कारकम् ॥ ४० ॥

चतुर्विंशति संयुक्तं सहस्रचित्तकान्तकम् ।
विन्यासार्धं तु ग्रामाणां पदं च त्रिंशतं भवेत् ॥ ४१ ॥

तेष्वादौ पंचभेदं तु अत्याभासमभं भवेत् ।
तदन्ते तत्समाभासं सविकल्पात्तदान्तकम् ॥ ४२ ॥

पंचसंख्या विकल्पान्ते छन्दानां भागमिष्यते ।
शेषजाति विभागं स्यात् विन्यासार्धक्रमं भवेत् ॥ ४३ ।

कर्तुरिच्छानुसारान्तं सर्ववास्तुषु वास्तु च ।
युगांशे सूत्रमध्ये तु ओजांशे पदमध्यमे ॥ ४४ ॥

समस्तविविधं कुर्यात् इतरच्च न कारयेत् ।
एकद्वित्रिचतुष्पंचदण्डं वा वीथिविस्तृतम् ॥ ४५ ॥

वास्तुमध्यगता वीथीप्राङ्मुखो वाप्युदङ्मुखः ।
ब्रह्मवीथिरिति ख्याता नाभिवीथीति चोच्यते ॥ ४६ ॥

बाह्ये परिवृतं यत्तद्वीथि मंगलमुच्यते ।
तदेव जघनं वीथि रथवीथिरिहोच्यते ॥ ४७ ॥

द्वारायतन संयुक्ता राजवीथिरुदाहृता ।
तिर्यग्द्वारसमायुक्ता या सा नारा च संज्ञिता ॥ ४८ ॥

उत्तराभिमुखी मार्गा क्षुद्रार्गलेति संज्ञिता ।
वीथीनाराचकादीनां पथनाम्ना प्रशंसिता ॥ ४९ ॥

ग्रामादिषु विशेषेण पदनाम्नान्तरेषु च ।
जने वीथेर्वष्ठा च गृहकर्मसुखावहम् ॥ ५० ॥

सूत्रसंधि चतुष्काद्यैः भयास्तेष्टं न भाव्यते ।
तस्माद्यथेष्टशैलेषु दिष्टमाने गृहं कुरु ॥ ५१ ॥

मानसूत्रस्य बाह्ये तु सूत्रादीनां तु बाधक ।
प्रथमध्यपथाग्रे च कर्मबाह्ये गृहोन्नतम् ॥ ५२ ॥

दण्डकं स्वस्तिकं चैव प्रस्तारं च प्रकीर्तितम् ।
नन्द्यावर्तपरागं च पद्मकं श्री प्रतिष्ठितम् ॥ ५२ ॥

वास्तु भेदोष्टधा ज्ञेयः प्रत्येकं स्थाप्य नैकधा ।
दण्डाकारैकवीथी स्यात् प्राङ्मुखं वाप्युदङ्मुखम् ॥ ५४ ॥

पक्षद्वयसमायुक्ता पक्षवंशं च दण्डवत् ।
मुखे मुखे विनिष्ठान्तं यत्तद्दण्डकमुच्यते ॥ ५५ ॥

प्राङ्मुखात्वेक वीथी स्यान् मध्ये त्वेक मुदङ्मुखम् ।
कर्करी दण्डकं ह्येवं चतुर्दिग्वेश्मनिर्गमम् ॥ ५६ ॥

तदेव परितो वीथी बाह्ये पक्षयमन्वितम् ।
पर्जन्यांशे च पूषांशे दौवारिके तथैव च ॥ ५७ ॥

नागांशे चैव निस्त्रान्तं वेश्मनार्धपथं भवेत् ।
जनवीध्यावसानं तु तर्हिवीथी द्विजोत्तम ! ॥ ५८ ॥

वीथ्यन्तरेषु जालं स्याद्वग्रहं वायुगोचरः ।
श्रीकरं दण्डकं ह्येतत् सर्वेषां दण्डसंपदम् ॥ ५९ ॥

तदेव नाभिवीथी द्वौ विना स्वस्तिकमुच्यते ।
प्रागग्रं गुणवीथी स्यादुदगग्रं तथैव च ॥ ६० ॥

चतुष्पंचरसं चाथ सप्ताष्ट नवकं तु वा ।
कल्पितं प्रस्तरं ख्यातं सर्वभेदा द्विजोत्तम ! ॥ ६१ ॥

वीथिनांशेन नीव्रं च श्रीकरं दण्डकं भवेत् ।
प्रागग्रं वेदवीथी स्यात् उदगग्रं तथैव च ॥ ६२ ॥

पंचषट्सप्तचाष्टौ च नवधर्मशिवैरपि ।
त्रयोदशपदं वाथ प्रकीर्णं नवधा भवेत् ॥ ६३ ॥

महेन्द्रो ग्रहक्षतश्चैव पुष्पदन्तेन देव वा ।
भल्लाटस्यांगके चैव प्रवेशं परिकल्पयेत् ॥ ६४ ॥

प्राङ्मुखं वह्निवीथी स्यादुदगग्रं त्रयोदश ।
मनु वा षट्कला वा यत् सप्तादश पदं तु वा ॥ ६५ ॥

नन्द्यावर्तमिदं पंच भेदमत्र विधीयते ।
महेन्द्रादिष्वंशकेषु प्रवेशं तु प्रकीर्णवत् ॥ ६६ ॥

प्राङ्मुखं रथवीथीस्यादुदग्वक्त्रं तु षोडश ।
एक वीथ्या त्रयोविंशत् दन्तं परागमष्टधा ॥ ६७ ॥

परा प्रागिव कर्तव्यं उपद्वाराण्यथोच्यते ।
पर्जन्यांशेन्तरिक्षांशे पुष्य * * * * शके ॥ ६८ ॥

दौवारिके च पापांशे * * * चोदिकांशके ।
उपद्वाराष्टको पेतं परागं चेदि विद्यते ॥ ६९ ॥

प्राङ्मुखं सप्तवीथी स्यादुदगग्रैक विंशतिः ।
अष्टाविंशतिकं यावत् तावदेकविवर्धनात् ॥ ७० ॥

एवमष्टविधं ज्ञातं श्रीप्रतिष्ठितलक्षणम् ।
एतद्वाराष्टकोपेता उपद्वाराष्टकान्विता ॥ ७१ ॥

अथवा वेद वेशं वा उपवेशं तु पूर्ववत् ।
दण्डकाद्यष्टवस्त्राणां भेदं वै हिनका तथा ॥ ७२ ॥

ग्रामादीनां च विस्तारं भानुधर्माष्टसप्तधा ।
भूतवेदांशकं कृत्वा नगसप्तदशांशकम् ॥ ७३ ॥

भूतवेदाग्निभागं तु क्रमाद्भागविधिं शृणु ।
मानसूत्राद्बहिर्विप्र ! स्यान्तरं षड्विधं भवेत् ॥ ७४ ॥

एक द्वित्रिचतुष्पंचहस्तं वापि प्रविस्तरात् ।
त्रिपंच सप्तहस्तं वा नवरुद्रकरं तु वा ॥ ७५ ॥

त्रयोदशकरं वाथ व प्रतुंगमुदाहृतम् ।
त्रिचतुःपंचषट्सप्त वस्वग्रं वा विशेषतः ॥ ७६ ॥

व प्रमूलं ततः कृत्वा एकांशेनाग्रविस्तृतम् ।
शिलाभिरिष्टकाभिर्वा मुद्रा वा परिकल्पयेत् ॥ ७७ ॥

चित्रभं बुद्बुदाभं वा कृकलासवदाकृतिः ।
उपचस्यापरद्वार वप्रशीर्षकमाचरेत् ॥ ७८ ॥

करालमुद्गगुल्माषा कल्कचिक्कण कर्मवान् ।
लक्षं समालिपेदूर्ध्वे इष्टकामस्तयोरपि ॥ ७९ ॥

मृण्मयैर्दारुभिः पात्रैः छादयेत्तु तृणादिभिः ।
तद्बाह्याभ्यन्तरे चैव खल्लुरीवेष्टमानतः ॥ ८० ॥

वासार्थं सत्पदादीनां रक्षणं तु विशेषतः ।
तद्बाह्ये इष्टकानेन प्रचारभूम्या वृतं भवेत् ॥ ८१ ॥

बाह्ये भीष्टमानेन परिखां परिकल्पयेत् ।
वप्रस्याभ्यन्तरे विप्र ! देवतास्थापनं भवेत् ॥ ८२ ॥

शिवहर्म्यं च मातॄणां सदं बाह्ये तु वा भवेत् ।
परिखायास्तु साह्ये च त्वसंकल्प्य द्विजोत्तम ॥ ८३ ॥

आदित्यांशे तु भानुः स्यात् आग्नेय्यां कालिकोष्ठकम् ।
भूतांगे विष्णुगेहं स्यात् सुग्रीवे सुगतालयम् ॥ ८४ ॥

जिनालयं पद्ॐकाराजांशे वा पयक्षे विनायकम् ।
मन्दुरालयं तु वायव्ये सुख्ये कन्यायनिग्रहम् ॥ ८५ ॥

मन्त्राणामालयं सौम्ये वायव्यां शांकरेऽपि वा ।
एवमेषु शिवहर्म्यं स्यात् सौनाशान्तरेऽपि वा ॥ ८६ ॥

पर्जन्यांशे जयन्ते वा महेन्द्रा देवतां हिके ।
वारुणांशे तु वा विप्र ! कर्तव्यं शिवमन्दिरम् ॥ ८७ ॥

शिवालयान्मातृकोष्ठं च कर्तव्यं तु बहिर्मुखम् ।
अभ्यन्तरमुखो विष्णुः विवस्वान्पश्चिमाननम् ॥ ८८ ॥

शेषाः पूर्वमुखाः सर्वे कारयेद्विधिपूर्वकम् ।
सूत्रे संधौ चतुष्के च शूलशैवाष्टकेऽपि वा ॥ ८९ ॥

षट्के चैव तु वीथ्यग्रे देवालयं न कारयेत् ।
वापीकूपतटाकादि सर्वत्र परिकल्पयेत् ॥ ९० ॥

ब्रह्मण्ॐशे सभास्थानं वारुणे हरिमन्दिरम् ।
बाह्ये शक्रे कुलालानां नापितानां तु शांकरे ॥ ९१ ॥

दक्षिणे रोमदण्डीनां करुणं चैव तत्र वै ।
मत्स्योपजीवनानां तु पश्चिमे वास उच्यते ॥ ९२ ॥

शांकरे च क्रयाणां त्वाभरणं तत्समीपके ।
वप्र बाह्ये त्वबाह्ये वा कर्मकारादयोनिले ॥ ९३ ॥

तद्बाह्ये त्वल्प्रदूरे तु रजकानां गृहं भवेत् ।
महेन्द्रादग्निभागं स्यात् भक्ष्यं भोज्यं च विक्रयम् ॥ ९४ ॥

वस्त्राणां विक्रयं चैव तण्डुलं धान्यकादिकम् ।
उत्तरे लवणं चैव तैलं चन्दनपुष्पकम् ॥ ९५ ॥

तद्बाह्ये क्रोशमात्रेण चण्डालावासमुच्यते ।
शांकरे परिबाह्ये तु शतदण्डे श्मशानकम् ॥ ९६ ॥

वायव्यां वा श्मशानं च प्रण्यमाने विशेषतः ।
अपणं मानसूत्रं तु बाह्ये सालान्तरं भवेत् ॥ ९७ ॥

हेमरत्नादयश्चैव सर्वत्रैवाह्यकं भवेत् ।
ग्रामादि लक्षणं प्रोक्तं गृहविन्यासकं शृणु ॥ ९८ ॥

इत्यंशुमान्काश्यपे ग्रामादिलक्षणपटलः (चतुर्नवतितमः) ॥ ९४ ॥