प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अंशुमत्काश्यपागमः/प्राकारलक्षणविधिपटलः ४२

← पटलः ४१ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४३ →


अथ वक्ष्ये विशेषेण प्राकाराणां तु लक्षणम् ।
रक्षार्थं शोभनार्थं च शाला यस्योदयस्य तु ॥ १ ॥

प्रासादस्य विशालार्धं गुणभागविभाजिते ।
चतुर्भागैकभागं वा अन्तर्मण्डलविस्तृतम् ॥ २ ॥

अन्तर्हारविशालं तु तद्बाह्ये द्विगुणं हि तत् ।
मध्यहाराविशालं तु बाह्ये तन्मण्डलत्रयम् ॥ ३ ॥

मर्यादेस्तु विशालं तु बाह्ये त्वादि चतुर्गुणम् ।
महामर्यादि विस्तारमादेः पंचगुणं भवेत् ॥ ४ ॥

प्रासादचरणा विप्राहोमाद्वा प्रथमस्य तु ।
नीव्रं द्वितीयं प्रथमात् द्वितीयात्तृतीय नीव्रकम् ॥ ५ ॥

तृतीयं चतुर्निष्क्रान्तं तस्मान्नीव्रं तु पंचकम् ।
प्राकारं प्रति निष्क्रान्तान्युक्तानि कुड्यसीमकम् ॥ ६ ॥

कुड्यमर्धावसानं वा कुड्यबाह्यमथापि वा ।
अथवा शेषविप्राणां नीव्रहोमाद्विधीयते ॥ ७ ॥

प्रथमं प्रकृतेस्तुल्यं तलं तस्माद्गुणांगुलम् ।
नतं द्वितीयकं पश्चात् तद्वदेव नतं क्रमात् ॥ ८ ॥

कल्प्यैवं हर्म्यमानेन हस्तमानमथोच्यते ।
त्रिपंच सप्तहस्तेन प्रथमं त्रिविधं भवेत् ॥ ९ ॥

नवैकादशहस्तं च त्रयोदश द्वितीयकम् ।
त्रिपंचसप्तदशकं हस्तमेकोन विंशतिः ॥ १० ॥

मध्यहारा त्रिधा प्रोक्ता मर्यादीनि ततः शृणु ।
एकविंशत्त्रयोविंशत् पंचविंशत्करं भवेत् ॥ ११ ॥

सप्तविंशन्नवविंशदेकत्रिंशत्करेण तु ।
महामर्यादि विस्तारं एवं त्रिविधमुच्यते ॥ १२ ॥

एवमाभासहर्म्याणां विकल्पानां च कल्पयेत् ।
सप्तहस्तं समारभ्य पंचत्रिंशावसानकम् ॥ १३ ॥

प्रत्यकं प्रथमादीनां सालानां त्रित्रिमानकम् ।
त्रिपंच संख्यया प्रोक्तं हर्म्याणांश्चैव संज्ञकम् ॥ १४ ॥

नवहस्तं समारभ्य सप्तत्रिंशावसानकम् ।
प्राग्वदेव सालसंख्याः स्युः हर्म्याणां जातिसंज्ञिता ॥ १५ ॥

प्रागुक्तहर्म्यमानैश्च सालां जात्यन्तसंमताम् ।
पंचप्राकारमेवं हि त्रिप्राकारमथोच्यते ॥ १६ ॥

द्वितीयं तृतीयसालां च चतुर्थां च प्रगृह्यताम् ।
शेषं वाभ्यन्तरे बाह्ये वर्जितौ तत्त्रिसालकाम् ॥ १७ ॥

अन्यदभ्यन्तरे बाह्ये वर्जितौ तत्त्रिसालकाम् ।
द्वितीयं वा तृतीयं वा ग्राह्यं शेषास्तु वर्जिताः ॥ १८ ॥

एक सालान्वितं हर्म्यं एवमेव द्विजोत्तम ! ।
तस्यानुकूलसंयुक्तं द्विसालं संप्रकीर्तितम् ॥ १९ ॥

यत्र यदुचितं सालं हर्म्यौ वृतं तु लक्षयेत् ।
तस्मान्मुखे मुखे यामं कल्पयेत्कल्पवित्तमः ॥ २० ॥

बीजात्पादं तु वार्धं वा त्रिपादं तत्समं तु वा ।
द्विगुणं त्रिगुणं वाथ चतुः पंच गुणं तु वा ॥ २१ ॥

कल्पयेत्तु मुखायामं बीजामूर्ध्वे द्विजोत्तम ! ।
अन्तर्मण्डलभित्तेस्तु विस्तारं व्योमहस्तकम् ॥ २२ ॥

तस्मात्त्रिमात्रवृद्ध्या वा षण्मात्रं वाथ वर्धयेत् ।
सार्धद्विहस्त हस्तान्तं महामर्यावसानकम् ॥ २३ ॥

भित्तिव्यासं समाख्यातं उत्सेधं शृणु सुव्रत ! ।
तद्व्यासत्रिचतुष्पंच गुणं वा सालतुंगकम् ॥ २४ ॥

अथवोत्तरसीमान्तं निद्रान्तं वाजनान्तकम् ।
प्रस्तरान्तं गलान्तं वा साला तुंग मुदाहृतम् ॥ २५ ॥

ऋजुभित्त्युत्तरोपेतं वाजनं छत्रशीर्षकम् ।
कल्पयित्वा विधानेन वृषान्संस्थाप्य शीर्षकम् ॥ २६ ॥

अथवा कुड्य बाह्ये तु कूटकोष्ठादि संयुतम् ।
अथवांघ्रितलोपेतं बाह्येत्वभ्यन्तराजितम् ॥ २७ ॥

कुड्यमूलस्य विस्तारं दशांशौनाग्रविस्तृतम् ।
मूलादग्रं क्रमात्क्षीणं वस्वंशेंशं द्विजोत्तम ॥ २८ ॥

अथवा हस्तमानेन सालोत्सेधं विधीयते ।
त्रिपंच सप्तहस्तादि नन्दरुद्रकरादि वा ॥ २९ ॥

द्विद्विहस्त विवृद्ध्या वा प्रत्येकं त्रिभेदकम् ।
प्रथमादि पंचशालानां उच्चं ह्येकोन भेदकम् ॥ ३० ॥

अथवान्य प्रकारेण सालोत्सेधं विधीयते ।
द्विद्विहस्त विवृद्ध्या तु प्रत्येकं तु त्रिभेदकम् ॥ ३१ ॥

प्रथमं कलशान्तं तु द्वितीयं फलकान्तकम् ।
बोधिकान्तं तृतीयं तु चतुर्थं चोत्तरान्तकम् ॥ ३२ ॥

पंचमं तु कपोतान्तं पंचसालोदयं क्रमात् ।
एक त्रिपंचसालेषु तासामुक्तोदयं विदुः ॥ ३३ ॥

आवृतं मालिका वा स्यात् सभाकारमथापि वा ।
मण्टपाकृतिकं वाथ ऋजुकुड्यमथापि वा ॥ ३४ ॥

भूतवेदगुणं पक्ष व्योमभूमिमथापि वा ।
कुस्यस्योपरि कुड्यं स्यात् पादस्योपरि पादकम् ॥ ३५ ॥

तलं प्रतिप्रस्तरं कुर्यात् पादं प्रत्यल्पनासिका ।
वक्ष्येऽहं पादमानं च परिमाणं द्विजोत्तम ! ॥ ३६ ॥

मूलहर्म्ये तु होमादि उत्तरान्तं यदुन्नतम् ।
तन्मानं सप्तधा भज्य पक्षांशं तु धरातलम् ॥ ३७ ॥

पंचांशं पाददीर्घं तु पादं सर्वांगसंयुतम् ।
धरातलं तदुक्तं वा आर्जवं वा प्रकल्पयेत् ॥ ३८ ॥

मूलहर्म्ये तु होमादि उत्तरान्तं नवांशके ।
धरातलं द्विभागं स्यात् सप्तांशं चरणोदयम् ॥ ३९ ॥

उत्तरान्तं तु होमादि रुद्रभागं विभाजिते ।
अधिष्ठानं गुणांशं स्यात् शेषं पादोदयं भवेत् ॥ ४० ॥

मूलप्रासादतुल्यं वा चतु * * धरातलम् ।
पादस्योत्सेधमानं तु षट्सप्ताष्टौ तु वा भजेत् ॥ ४१ ॥

एकांशं पादविष्कंभं दारुर्वाश्ममयं तु वा ।
तत्त्रिभागं द्विभागं वा त्रिपादं वार्धमेव वा ॥ ४२ ॥

कुड्य पादस्य विस्तारं सर्वत्र परिकल्पयेत् ।
मूलपादविशालं तु धर्मनन्दाष्टभाजिते ॥ ४३ ॥

एकांशरहिताग्रं स्यात् मूलादग्रं क्रमात्कृशम् ।
अग्रपादविशालं तु दण्डमित्यभिधीयते ॥ ४४ ॥

दण्डं त्रिपादमर्धं वा क्रमाच्छ्रेष्ठान्तराधमम् ।
उत्तरोत्सेधमाख्यातं विस्तारं मूलपादवत् ॥ ४५ ॥

मध्यपादसमं वाथ अग्रपादसमं तु वा ।
उत्तरव्यासमाख्यातं श्रेष्ठं मध्याधमं क्रमात् ॥ ४६ ॥

उत्तरोच्च त्रिभागैकं वाजनोत्सेधनीव्रकम् ।
उत्तरोत्सेध तुल्यं तु तुलानीव्रमुदाहृतम् ॥ ४७ ॥

तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि ।
वाजने वल्लिकोर्ध्वे वा तुलास्थापनमाचरेत् ॥ ४८ ॥

तुलार्धनीव्रविस्तारं जयंती स्यात्तुलोपरि ।
जयन्त्यार्ध विशालोच्चं मनुमार्गमुदाहृतम् ॥ ४९ ॥

तुलान्तरं तुलोच्चं तु जयन्त्युच्चं तदन्तरम् ।
अनुमार्गं तथा कल्प्य दण्डमानेष्टकान्तरम् ॥ ५० ॥

कपोतादीनि सर्वांगं प्रासादोक्तवदाचरेत् ।
अथवा तुलोपरिष्टात्तु इष्टकास्तरुणा कुरु ॥ ५१ ॥

जयन्त्योत्सेध वा विप्र इष्टकास्तारुणं कुरु ।
सुधया गुलतोयैश्च इष्टकास्तरुणं कुरु ॥ ५२ ॥

करालमुद्गी गुल्माष कल्कचिक्कणमाचरेत् ।
इष्टकाकरणं ह्येतत् शिलाश्चेदुत्तरोपरि ॥ ५३ ॥

शैलकैः फलकाभिस्तु छादयेत्तु विशेषतः ।
वाजनोर्ध्वे तु वाच्छाद सुधाकर्म समाचरेत् ॥ ५४ ॥

एवमादितलं प्रोक्तं ऊर्ध्वभूमिं वदाम्यहम् ।
मूलाग्रस्तम्भ तुंगं तु धर्मनन्दाष्टधा भजेत् ॥ ५५ ॥

एकांशं हीनमंघ्र्युच्चं तथैवोर्ध्वो भूमयः ।
प्रस्तरं च तथा कार्यं एकानेकतलेऽपि वा ॥ ५६ ॥

प्रस्तरोपरि कर्तव्यं भित्तिमेककरोदयम् ।
छत्राकारं शिरोपेतं सभाकारमथापि वा ॥ ५७ ॥

गोपांतं वाथ वारं वा संकल्प्याभ्यन्तरे द्विज ।
मृल्लोष्ठैर्लोहलोष्ठैर्वा सारदारुमयैस्तु वा ॥ ५८ ॥

गोपानाच्छादनं कुर्याल्लूपोपरि शिरोन्वितम् ।
सभाकारमिदं ख्यातं लुपा वार विहीनकम् ॥ ५९ ॥

मण्टपाकृतिरित्युक्तं प्रस्तरोर्ध्वे विशेषतः ।
बाह्यकुड्यविहीनं तु मण्टपाकारमण्डितम् ॥ ६० ॥

छत्राकारमिदं ख्यातं यथेष्टं तेषु कल्पयेत् ।
जाति पञ्चतलं ख्यातं छन्दं वेदतलं भवेत् ॥ ६१ ॥

विकल्पं त्रितलं विद्यात् आभासं चैकभूमिकम् ।
जात्यादीनां तु हर्म्याणां योग्यं सालातरं कुरु ॥ ६२ ॥

मर्यादिसालं माश्रित्य पाश्वके पचनालयम् ।
अथवा मध्यहारायां आग्नेय्यां पचनालयम् ॥ ६३ ॥

नैर्-ऋत्यामायुधस्थानं वायव्यां शयनार्हकम् ।
शांकरे यागशालास्यात् भ्रंशभागेऽथ वा बुधः ॥ ६४ ॥

आग्नेय याम्ययोर्मध्ये कर्तव्यं मण्डनालयम् ।
शक्रशंकरयोर्मध्ये मण्डनालयमेव वा ॥ ६५ ॥

वाद्यस्थानं च तत्पार्श्वे भृंगराजपदेऽपि वा ।
निर्-ऋति वरुणयोर्मध्ये धर्मश्रवणमण्टपम् ॥ ६६ ॥

वरुणवाय्वोर्मध्ये तु पुस्तकाराधनालयम् ।
तत्पार्श्वयोः प्रकर्तव्यं मण्डनालयमुत्तमम् ॥ ६७ ॥

पचनालयपार्श्वे वा कर्तव्यं मण्डनालयम् ।
सोमवायव्ययोर्मध्ये शस्त्राणामालयं कुरु ॥ ६८ ॥

सोमशंकरयोर्मध्ये गौर्यावासं प्रकल्पयेत् ।
तत्पार्श्वे शयनस्थानं पर्यंकेन समन्वितम् ॥ ६९ ॥

पुष्पकर्तव्यमेवाथ महेशे पुष्पमण्टपम् ।
ग्रहक्षतपदे कुर्यात् धान्यालयं द्विजोत्तम ॥ ७० ॥

परितो मालिकायां च एवमेवं प्रकल्पयेत् ।
मालिकाभ्यन्तरे चैशे कूपस्थानमुदाहृतम् ॥ ७१ ॥

अथवान्यप्रकारेण वक्ष्येऽहं देशनिर्णयम् ।
शक्रशंकरयोर्मध्ये शालिस्थानमुदाहृतम् ॥ ७२ ॥

शक्रस्यानलयोर्मध्ये धनवा समुदाहृतम् ।
याम्य पावकयोर्मध्ये पुष्पमण्टपमुच्यते ॥ ७३ ॥

याम्य नैर्-ऋतयोर्मध्ये स्नानाम्बुकोष्ठमुच्यते ।
निर्-ऋतिवरुणयोर्मध्ये धर्मश्रवणमण्टपम् ॥ ७४ ॥

वरुणवायव्ययोर्मध्ये त्वायुधस्थानमुच्यते ।
वायव्य सोमयोर्मध्ये शयनस्थानमुच्यते ॥ ७५ ॥

ईशानसोमयोर्मध्ये यागार्थं मण्टपं कुरु ।
जयन्तेञ्जनशाला स्यात् आग्नेय्यां पचनालयम् ॥ ७६ ॥

परितो मालिकायां तु सकलस्थानमुच्यते ।
शांकरे नृत्तमूर्तिं च त्वाग्नेय्यां वृषवाहनम् ॥ ७७ ॥

उमास्कन्दसहितं विप्र नैर्-ऋत्यां परिकल्पयेत् ।
कंकालं वायुदिग्भागे भिक्षाटनं जयन्तके ॥ ७८ ॥

सुखासनं तु सत्यांशे वितथे त्रिपुरान्तकम् ।
सुग्रीवे हरिरर्धं स्याद् गन्धर्वे चन्द्रशेखरम् ॥ ७९ ॥

शेषांशे मदनारिः स्यामुख्ये कालारिमूर्तिनम् ।
दितयेत्वर्ध नारीशं इन्द्रे कल्याणसुन्दरम् ॥ ८० ॥

क्षेत्रपालस्तु पर्जन्ये याम्ये वै दक्षिणेश्वरम् ।
वारुण्ये लिंगमुद्भूतं सौम्ये तु गजहारिणम् ॥ ८१ ॥

इतोर्ध्वमालयं प्रोक्तं अन्तरालेषु कल्पयेत् ।
मूलहर्म्यं तु संवीक्ष्य सकलस्थापनं कुरु ॥ ८२ ॥

प्राकारेषु चतुर्दिक्षु द्वारशोभादि कल्पयेत् ।
प्राकारतति मध्ये च दीर्घमध्ये च वेशनम् ॥ ८३ ॥

अथवा मूलहर्म्यस्य मध्ये तद्वेशनांशंकम् ।
प्रधानद्वारमेकं वा अन्ये वा जालकं द्विज ॥ ८४ ॥

प्राकारमेवमाख्यातं बाह्ये वीधिं विधीयते ।
एकद्वित्रिचतुष्पंच दण्डं वा विधिविस्तृतम् ॥ ८५ ॥

तद्बाह्ये तद्गृह श्रेणी मानेन विधिना कुरु ।
शैवानां परिचाराणा प्राच्यामावासमुच्यते ॥ ८६ ॥
प्राच्यां वा याम्यदेशे वा देशिका वा समुच्यते ।
दैवज्ञाम्बष्ठभिषजां वादकानां च याम्यके ॥ ८७ ॥

निबन्धाभारजीवीनां पश्चिमे वा समुच्यते ।
सर्वेषामपि भक्तानां वासमुत्तरपार्श्वतः ॥ ८८ ॥

आग्नौ महाव्रतस्थानं याम्ये पाशुपतालयम् ।
कालामुखं तु नैर्-ऋत्यां बौद्धालयं तु वारुणे ॥ ८९ ॥

वायव्यां तु महस्थानं सौम्ये भूसुरसद्मकम् ।
ज्ञानाभ्यासालयं कुर्यादैशान्यां तु विशेषतः ॥ ९० ॥

बाह्ये त्विन्द्रस्य दिग्भागे खातयेत्तु जलाशयम् ।
याम्यपावकयोर्मध्ये जलदानप्रपां कुरु ॥ ९१ ॥

याम्य नैर्-ऋतयोर्मध्ये गोशालां संप्रकल्पयेत् ।
वरुणनैर्-ऋतयोर्मध्ये सुतिका वा समुच्यते ॥ ९२ ॥

वरुणानिलयोर्मध्ये रोगार्तानां निवासनम् ।
सौम्यानिलयोर्मध्ये बालशिक्षार्थमण्टपम् ॥ ९३ ॥

सोमशंकरयोर्मध्ये गायकं मण्टपं भवेत् ।
तद्बाह्ये परितो विप्र दासीनां गणिकादिनाम् ॥ ९४ ॥

नृत्यगेयाभ्यवासानां क्रयविक्रय जीविनाम् ।
चक्रिणां पुष्पजीवीनां कुलालानां तथैव च ॥ ९५ ॥

मत्स्य मांसोपजीवीनां तन्तुकारं तु कोष्ठकम् ।
नापितश्मश्रुकाराणां गोपालानां तु कारुणाम् ॥ ९६ ॥

रक्षकानां गृहश्रेणी चापवत्से तु मेव च ।
परितः कल्पयेद्धीमान् पूर्वादीनां वसानकम् ॥ ९७ ॥

तद्बाह्ये त्वीशदिग्भागे वायव्यां वा श्मशानकम् ।
दक्षिणे चोत्तरे बाह्ये चर्मकारादि वासकम् ॥ ९८ ॥

तासां वासात्तु कर्तव्यं रजकानां निवासनम् ।
तद्बाह्ये क्रोशमात्रे तु चण्डालश्रेणि रुच्यते ॥ ९९ ॥

प्राकारलक्षणं ह्येतत् प्रोच्यते द्विजसत्तम ! ।


इत्यंशुमान्काश्यपे प्राकारलक्षणविधिपटलः (द्विचत्वारिंशः) ॥ ४२ ॥