प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ८४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८६ →



अथ वक्ष्ये विशेषेण रज्जुबन्धं शृणु द्विज ! ।
सर्वासु शूलसंध्यासु ताम्रपत्रैस्तु वेष्टयेत् ॥ १ ॥

शूलेऽष्टबन्धमालिप्य रज्जुबन्धं ततो विदुः ।
श्रीवेष्टकं कुन्दुरुष्कं गुग्गुलं च गुलं तथा ॥ २ ॥

सर्जरसं गैरिकं च घृततैलेऽष्टबन्धनम् ।
श्रीवेष्टनं चतुर्भागं कुन्दुरुष्कं गुणांशकम् ॥ ३ ॥

गुग्गुलं पंचभागं स्याद् एकांशं गुलमुच्यते ।
सर्जरसं तु वस्वंशं गैरिकं तु गुणांशकम् ॥ ४ ॥

षडैते सूक्ष्मचूर्णं तु कृत्वाज्यं तैलमिश्रितम् ।
मृत्पात्रे तं विनिक्षिप्य पाचेत्क्षौद्राकृतिर्यदा ॥ ५ ॥

तदा तु शूलमालिप्य रज्जुबन्धं ततः कुरु ।
रज्जुबन्धं तु नाभेस्तु मध्यस्योदूर्ध्वगं त्रिधा ॥ ६ ॥

सुषुम्ना मध्यमेऽप्याथ पिंगला तस्य दक्षिणा ।
इडा वै तस्य वामस्था प्रधाना नाडयस्त्विमे ॥ ७ ॥

द्व्यंगुलं परिणाहं तु युतास्ते वै त्रि कीर्तिताः ।
तेषां नाडी त्रयाणां तु योगं भ्रूमध्यमे भवेत् ॥ ८ ॥

तदधो विवृता स्विष्टद्व्यंश दण्डे पुराश्रिताः ।
भ्रूमध्यान्मूर्ध्निपर्यन्तं त्रिनाडी चैकवद्भवेत् ॥ ९ ॥

तन्मूर्धोपरिनाडिस्तु सप्तशाखानु भेदिनः ।
गान्धारी हस्ति जिह्वा च पूषा चैव यशस्विनी ॥ १० ॥

अलंबुषा कुहूचैव शंखिनी तेऽभिधानकाः ।
गान्धारी सव्यनेत्रान्तं हस्तिजिह्वेतराक्षिकाः ॥ ११ ॥

पुषाद्दक्षिणकर्णान्तं वामकर्णे यशस्विनी ।
अलम्बुषा मेढ्रमूलान्ता वक्रदन्ता कुहूर्भवेत् ॥ १२ ॥

नाभिमध्यावसानं तु शंखिनीलम्बनं भवेत् ।
तेष्वादौ च चतुर्नाडी यवत्रयघनान्विता ॥ १३ ॥

शेषानाडी त्रयाणां तु चतुर्यवघनं भवेत् ।
दक्षिणावर्तिताः सर्वे द्विवत्यैने प्रकीर्तिताः ॥ १४ ॥

सुषुम्नादीनि संख्यान्तं दशनाडीति विद्यते ।
प्रधाननाडी त्रयाणां तु मूलमेढ्रावसानकम् ॥ १५ ॥

तेषां नाडिभिन्नास्तु नाडयोऽष्टादश स्मृताः ।
विमला शोषिणी पृथ्वी महसी तेजसी तथा ॥ १६ ॥

वायवी गगनी चैव मर्दनी रोदनी तथा ।
रसवादी मृदंगी च संगिनी * * * * * ॥ १७ ॥

ऊरुमूलैवमावृत्य परितो नलकान्तकम् ॥ १८ ॥

लम्बितास्ते समाख्यातास्ता वै पिंगलगा * * ।
शब्दांगादीनि षट्संख्या इडामूले समुद्भवाः ॥ १९ ॥

एषा वै रसनाडी च वामपादौ तु सव्यवत् ।
नलकाग्रैकमावृत्य षण्मा * ग्रेक वर्तिताः ॥ २० ॥

सुषुम्नामूलगाः शेषा वंशपार्श्वे गरोहिताः ।
वक्षोदण्डोपरिष्टात्तु तिर्यग्बाहुगास्त्विमाः ॥ २१ ॥

गगनी मर्दनी चैव रोदनी दक्षिणे करे ।
रसवादी मृदंगी च संगिनी वामबाहुके ॥ २२ ॥

बाहुमूलैकमावृत्य त्रिष्वग्रं चैकवद्भवेत् ।
तदस्याग्रादष्टशाखा स्युः दक्षिणेऽदक्षिणे तथा ॥ २३ ॥

बाहुमूलाग्रचान्तं तु नाडयोऽष्टौ प्रसारिताः ।
तेषामग्रैकवद्विप्र ! मणिबन्धैकमावृतम् ॥ २४ ॥

एकं वाऽनेकहस्तं वा हस्तं प्रत्येकमाचरेत् ।
एवं हि प्रतिमानां तु मुख्यनाड्यष्टविंशतिः ॥ २५ ॥

प्रधाननाडयस्त्वेवं कल्पयेत्कल्पवित्तमः ।
तेषां भिन्नास्तथा विप्र चतुष्षष्टिश्च नाडयः ॥ २६ ॥

तस्मादनेकधा नाडी सर्वांगं तु समावृताः ।
द्विसप्तति सहस्राणि नाडयः परिकीर्तिताः ॥ २७ ॥

स्वावृतं शूलजीर्णकाश्वत्थ पत्रवत् ।
नालिकेरफलत्वग्म्यन्नत्यल्प सलिलान्वितम् ॥ २८ ॥

चर्मसारं गृहीत्वा तु सारमन्यं व्यपोह्य च ।
नाडयस्तेऽपि संकल्प्य पश्चादावृतनाडिकाः ॥ २९ ॥

षड्यवं तु परीणाहं रज्जुमापादयेद्दृढम् ।
पश्चान्निरन्ध्रं रज्जुभ्यां बन्धयेद्दक्षिणा वृतम् ॥ ३० ॥

हृत्पद्ममष्टपत्रं तु रज्जुना कारयेद्बुधः ।
तस्यनालं तु नाभ्यन्तं सुषुम्ना सहबन्धितम् ॥ ३१ ॥

जीवस्थानं तु तत्पद्मं इत्युक्तं हि मया तव ।
मूलमंत्रमनुस्मृत्य रज्जुबन्धमिदं कुरु ॥ ३२ ॥

रज्जुबन्धमिदं ख्यातं मृत्संस्कारमतः परम् ।

इत्यंशुमान्काश्यपे रज्जुबन्धविधानपटलः (पंचाशीतितमः) ॥ ८५ ॥