प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ८३ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८५ →


अथ वक्ष्ये विशेषेण शूलस्थापनमुत्तमम् ।
कर्षणोदितमासे च ऋक्षवारमुहूर्तके ॥ १ ॥

निश्चित्य स्थापनं तस्य पूर्वे कृत्वांकुरार्पणम् ।
प्रासादस्याग्रतो वैशे मण्टपं च चतुरश्रकम् ॥ २ ॥

पंचहस्तकरं वापि नवहस्तमथापि वा ।
पंक्तित्रयसमायुक्तं षोडशांघ्रिसमन्वितम् ॥ ३ ॥

दलमष्टांगुलोत्सेधं पंक्तिव्यासांघ्रितुंगकम् ।
यथा लाभं परीणाहं निर्व्रणं दारुणा दृढम् ॥ ४ ॥

बिले वंशानुवंशाढ्यं नालिकेरदलादिभिः ।
छादयेत्तु वितानेन मुक्तास्रग्दर्भमालिकाम् ॥ ५ ॥

तरंग वेष्टनोपेतं द्वारतोरणसंयुतम् ।
चतुर्द्वारसमायुक्तं स्तम्भवेष्टनसंयुतम् ॥ ६ ॥

चतुर्द्वारं विनान्यत्र निश्छिद्रं जालकं तु वा ।
मण्टपस्य त्रिभागैकं मध्ये वेदी विशालकम् ॥ ७ ॥

तत्त्रिभागैकभागं तु वेदिकोदयमिष्यते ।
गुणांगुलं विशालोच्चात्तस्याधश्चोपवेदिकाम् ॥ ८ ॥

दर्पणोदरसंकाशां कृत्वा रक्तमृदा कृताम् ।
कृत्वान्यत्राग्नि कुण्डानि त्वनेन विधिना कुरु ॥ ९ ॥

चतुरश्रं धनुर्वृत्तं पद्मं पूर्वादि दिक्षु च ।
शक्रशांकरयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत् ॥ १० ॥

कुण्डमेवं समाख्यातं केवलानां विशेषतः ।
गौरी सहितबिम्बं चेत् कोणेष्वश्वत्थ पत्रवत् ॥ ११ ॥

कुण्डानि कल्पयेच्छेषं प्रागिवैव प्रकल्पयेत् ।
कुण्डं लक्षणवत्कृत्वा सर्वकुण्डानि देशिकः ॥ १२ ॥

गोमयालेपनं कृत्वा पिष्टचूर्णैरलंकृतम् ।
ब्राह्मणान्भोजयेत्तस्मिन् पुण्याहं वाचयेत्ततः ॥ १३ ॥

महेन्द्रे तु पदे वास्तु होमं कृत्वा विधानतः ।
वेदिकाभ्यग्निकुण्डानि पर्यग्निकरणं कुरु ॥ १४ ॥

तद्दिनाद्दिवसात्पूर्वे रात्रौ पूर्वायामधिवासयेत् ।
स्थण्डिलं वेदिकायां तु चाष्टद्रोणैश्च शालिभिः ॥ १५ ॥


कर्तव्यं नलिनं तत्र साष्टपत्रं सकर्णिकम् ।
तण्डुलैस्तिलदर्भैश्च लाजैः पुष्पैरलंकृतम् ॥ १६ ॥

शपंच हितेनैव वस्त्रेणैव तु कल्पयेत् ।
धूपदीपसमायुक्तं पुष्पैरर्घैरथार्चयेत् ॥ १७ ॥

मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत् ।
तन्मध्ये दारुपीठं तु न्यस्त्वा तस्योपरि न्यसेत् ॥ १८ ॥

प्राङ्मुखं स्थापयेच्छूलं गव्येनैवाभिचेषयेत् ।
शुचिवोहव्यमन्त्रेण कृत्वा गन्धोदकैर्हृदा ॥ १९ ॥

स्थापयेद्देव देवीं च गन्धपुष्पादिभिर्यजेत् ।
कौतुकं बन्धयेद्देवं तयोर्दक्षिणहस्तके ॥ २० ॥

पुष्पैः कार्पाससूत्रैर्वा कवचेनैव बन्धयेत् ।
लम्बकूर्चसमायुक्तं नववस्त्रेण वेष्टयेत् ॥ २२ ॥

नृत्तगीतसमायुक्तं वेदध्वनिसमायुतम् ।
शयने शाययेच्छूलं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २२ ॥

तस्य वामे ह्युमादेवी शूलं दक्षिणतस्तथा ।
तयोः शिरोन्तिके देशे स्थापयेत्तद्घटद्वयम् ॥ २३ ॥

ससूत्रं सापिधानं च वरकूर्च सुवेष्टितम् ।
द्रोणगन्धाम्बु संपूर्णं शिवकुंभं तदुच्यते ॥ २४ ॥

तस्यार्धतोयसंपूर्णं प्राग्वत्सूत्रादिभिर्युतम् ।
गौरीशूलसमायुक्ते गौरीकुंभमिदं वरम् ॥ २५ ॥

मुलमन्त्रं शिवे कुम्भे न्यस्त्वा गन्धादिभिर्यजेत् ।
गौरीकुंभं तथाऽभ्यर्च्य स्वस्वमन्त्रैर्विशेषतः ॥ २६ ॥

परितोऽष्टघटं न्यस्त्वा सूत्रवस्त्रादिसंयुतान् ।
विद्येशमूलमन्त्रैश्च स्थाप्य गन्धादिभिर्यजेत् ॥ २७ ॥

वास्तुहोमाग्निना कुण्डे त्वग्निं संकल्प्य देशिकः ।
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥ २८ ॥

अश्वत्थं पूर्वकुण्डे तु वह्निमाग्नेय गोचरे ।
याम्ये तु सौन्दरं ख्यातं खादिरं नैर्-ऋतौ द्विजः ॥ २९ ॥

बिल्वं पश्चिमदिग्भागे मायूरं वायुगोचरे ।
वटं वै सौम्यकुण्डे तु त्वर्कं वै त्वीशगोचरे ॥ ३० ॥

प्रधाने ब्रह्म वृक्षस्य समिद्गौरी समन्वितम् ।
विना कोणेषु कुण्डानि विना गौरीं द्विजोत्तम ! ॥ ३१ ॥

समिधो हृदयेनैव पुरुषेण घृताहुतिः ।
अघोरेण चरुं हुत्वा लाजं वामेन होमयेत् ॥ ३२ ॥

सक्तुमीशानमन्त्रेण तिलं वै शिरसा हुनेत् ।
सर्षपं कवचेनैव शिखया मुद्गमेव च ॥ ३३ ॥

गुलमस्त्रेण प्रत्येकं अष्टोत्तरशतं हुनेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा देवी देवेशयोस्समम् ॥ ३४ ॥

जयादिरभ्यातानैश्च राष्ट्रभृद्भिश्च होमयेत् ।
दिशास्वध्ययनं वेदान् स्तोत्रं वै विदिशासु च ॥ ३५ ॥

उच्चार्याध्ययनं तत्र ह्युपांशुर्होममाचरेत् ।
देवीदेवेशयोर्मूल मन्त्रमष्टशताहुतिः ॥ ३६ ॥

घृतेनैव तु हुत्वाऽठ शूलं स्पृष्ट्वा परस्परम् ।
नृत्तगीतैश्च वाद्यैश्च रात्रिशेषं व्यपोह्य च ॥ ३७ ॥

प्रभाते विमले धीमान् आचार्यो मूर्तिपैस्सह ।
जलस्नानं च कर्तव्यं भस्मस्नानमनन्तरम् ॥ ३८ ॥

शुक्लवस्त्रोत्तरीयं च शुक्लयज्ञोपवीतधृत् ।
शुक्लमाल्यानुलेपाद्यैः भूष्यपंचांगभूषणैः ॥ ३९ ॥

पवित्रपाणिनोपेतः सकलीकृतविग्रहः ।
आचार्यः सुप्रसन्नात्मा शिवद्विजकुलोद्भवः ॥ ४० ॥

प्रविश्य मण्टपं पश्चात् शूलकुंभं हुताशनम् ।
गन्धादिभिस्समभ्यर्च्य पूजनं च विशेषतः ॥ ४१ ॥

जयादिरभ्यातानैश्च राष्ट्रभृच्चापि होमयेत् ।
स्विष्टमग्नेति मन्त्रेण पूर्णाहुतिमथाचरेत् ॥ ४२ ॥

प्रविश्यगर्भगेहं तु एकाशीति पदं कुरु ।
मण्डूकाख्यपदे वाथ सप्तसप्तांशमेव वा ॥ ४३ ॥

गर्भगेहं तु कर्तव्यं ज्ञात्वा ब्रह्मादयं पदम् ।
स्थानकं देविकांशे तु आसनं मानुषे पदे ॥ ४४ ॥

गर्भगेहपरे भागे स्थापयेद्देशिकोत्तमः ।
आसनं भद्रपीठे तु स्थानकं वेदिकोपरि ॥ ४५ ॥

प्रागुक्त विधिना पीठव्यासायामोदया कृतिः ।
कर्तव्यं सुन्दरं तस्मिन् आधाराख्य शिलां न्यसेत् ॥ ४६ ॥

पीठव्यास त्रिपादं तु आधाराख्यशिलां न्यसेत् ।
समाश्रं सायतं वापि तदर्धं तद्घनं भवेत् ॥ ४७ ॥

स्थानकं सकलं चेत्तु पादाधस्ताद्द्विजोत्तम ! ।
आधाराख्यशिलायां तु रत्नगर्तं प्रकल्पयेत् ॥ ४८ ॥

निम्नं षडंगुलं ख्यातं गर्तव्यासं गुणांगुलम् ।
मूले तु नवरत्नं वा हेमं वा तत्र निक्षिपेत् ॥ ४९ ॥

शूलपादतलाधस्तात् स षण्मात्रायतान्वितम् ।
प्रागेव कल्पयेद्धीमान् स्थापनार्थं बलान्वितम् ॥ ५० ॥

आसने तु चतुर्मात्रं वंशदण्डे निधाय च ।
मुहूर्ते समनुप्राप्ते गुरवे संनिवेदयेत् ॥ ५१ ॥

आचार्यस्तु समुद्धृत्य बाह्यधाम प्रदक्षिणम् ।
सर्वातोद्यसमायुक्तं सर्ववाद्यसमन्वितम् ॥ ५२ ॥

प्रविशेद्गर्भगेहं तु मूलमन्त्रमुदाहरन् ।
प्. ३६४) स्थापयेदवटे शूलतलाधस्ताद्दृढं यथा ॥ ५३ ॥

अष्टबन्धदृढं कृत्वा सुधया वा विशेषतः ।
तस्य वामे तु संस्थाप्य गौरीशूलं विशेषतः ॥ ५४ ॥

आधाराख्य शिलायां तु गर्भभाजनमावटम् ।
पंचषट्सप्तमात्रं वा गर्तव्यासं तथा नवम् ॥ ५५ ॥

गर्भन्यासं तु तत्रैव गर्भभाजनसंयुतम् ।
प्रागुक्त विधिना स्थाप्य गन्धपुष्पादिभिर्यजेत् ॥ ५६ ॥

स्थापयेत्पूर्ववच्छूलं मूलं वै गर्भभाजनम् ।
यत्र शेषं तु यत्कर्मशिल्पिभिस्तु विशेषतः ॥ ५७ ॥

कर्तव्यं लक्षणोपेतं स्थपतिः शिल्पिरुच्यते ।
स्थपतिश्चित्रकर्मज्ञो योज्यश्चान्यैर्न कारयेत् ॥ ५८ ॥

कृतं चेदन्यथा विप्र ! कर्ता चान्यो भविष्यति ।
आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः ॥ ५९ ॥

दक्षिणां दापयेत्तत्र पंचनिष्कहिरण्यकम् ।
शूलस्थापनमाख्यातं रज्जुबन्धमथ शृणु ॥ ६० ॥

इत्यंशुमान्काश्यपे शूलस्थापनविधिपटलः (चतुरशीतितमः) ॥ ८४ ॥