अंशुमत्काश्यपागमः/रुद्रभूमिविधिपटलः ३७

← पटलः ३६ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३८ →


अथ वक्ष्ये विशेषेण रुद्रभूमिविमानकम् ।
प्रासादमानविधिना संगृहेत्तु ततोदयम् ॥ १ ॥

तिथ्यंशं विभजेत्तत्तु गुणांशं गर्भगेहकम् ।
पक्षांशं गृहपिण्डी स्यात् अलिन्दं चैकभागया ॥ २ ॥

एकांशं कुड्य विस्तारं अलिन्दं तु शिवांशकम् ।
हारान्तरमथांशेन कल्पयेत्तु यथाक्रमम् ॥ ३ ॥

अलिन्दांशमलिन्दं वा घनभित्तिरथापि वा ।
प्रस्तरान्तं घनं वापि तदूर्ध्वेऽलिन्दमेव वा ॥ ४ ॥

विन्याससूत्रयोरन्तर्व्यासं पक्षांशभाजिते ।
शिवांशं कर्णकूटं स्यात् पक्षां शालद्विभागया ॥ ५ ॥

मध्यशालाग्निभागं स्यात् अर्धांशं पंजरं भवेत् ।
हारान्तरं च तत्तुल्यं कल्प्येवं स्यादि भूतले ॥ ६ ॥

तदूर्ध्वेऽपि विशालं तु मन्वंशं तु विभाजिते ।
शिवांशं कूटविस्तारं कोष्ठदीर्घं तु तद्द्वयम् ॥ ७ ॥

द्व्यन्तरं पंजरव्यासं हारान्तरं तथैव च ।
भानुकोष्ठं चतुष्कूटं कलापंजर संयुतम् ॥ ८ ॥

हारान्तरं च वेदाष्टौ द्वितीयं चादिभूतलम् ।
तस्योर्ध्वे भूविशालं तु त्रयोदशविभाजिते ॥ ९ ॥

व्योमांशं कूटविस्तारं कोष्ठदीर्घं द्विभागया ।
अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ॥ १० ॥

कूटादीनां तु संख्या स्युः आदिभूमौ यथा तथा ।
तदूर्ध्वे भूमि विस्तारं द्वादशांशविभाजिते ॥ ११ ॥

एकांशं कूटविस्तारं कोष्ठं तु द्विगुणायतम् ।
शेषं हारान्तरं ख्यातं त्रिभागैकांशपंजरम् ॥ १२ ॥

पंजरं कूटकोष्ठं च संख्या वै प्रागिवैव तु ।
तदूर्ध्वे भूमिविस्तारं रुद्रांशं तु पूर्ववत् ॥ १३ ॥

तदूर्ध्वभूनवांशे तु कूटव्यासं प्रकल्पयेत् ।
तस्योर्ध्वभूमिविस्तारं दशभागं विभाजिते ॥ १४ ॥

कूटं चैव तु कोष्ठं च संख्यामानं तु पूर्ववत् ।
तदूर्ध्वभू नवांशे तु कूटव्यासं शिवांशकम् ॥ १५ ॥

अध्यर्धांशं तु कोष्ठायां शेषं हारान्तरं भवेत् ।
हारान्तरत्रिभागैकं पंजरव्यासमिष्यते ॥ १६ ॥

प्राग्वत्कूटादिसंख्याः स्युः कल्पयेत्कल्पवित्तमः ।
अष्टांशं विभजेदष्टभूमेश्चैव प्रविस्तृतम् ॥ १७ ॥

कूटविस्तारमेकांशं मध्येशाला द्विभागया ।
पंजरव्यासमेकांशं हारान्तरं तदर्धकम् ॥ १८ ॥

चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् ।
हारान्तरं कलासंख्या प्रोच्यतेऽष्टसमन्वितम् ॥ १९ ॥

नवभूमिविशालं तु सप्तधा विभजेत्समम् ।
कूटव्यासमथांशेन कोष्ठदीर्घं द्विभागया ॥ २० ॥

शेषं हारान्तरं ख्यातं तत्त्रिभागैकपंजरम् ।
दशभूमिविशालं तु रसभागविभाजिते ॥ २१ ॥

प्राग्वत्कूटं च कोष्ठं च पूर्ववच्च प्रकल्पयेत् ।
प्रथमादिपंचभूम्यन्तं भद्रपंजरसंयुतम् ॥ २२ ॥

पंचभूम्युपरिष्टात्तु भद्रं वा भद्रपंजरम् ।
ऊर्ध्वभूमिविशालं तु गुणभागविभाजिते ॥ २३ ॥

मध्ये भद्रं तदेकांशं दण्डमानेन निर्गतिः ।
प्रासादस्य तु चोत्सेधं शतांशं स त्रयोदश ॥ २४ ॥

कृत्वा सार्ध युगांशं तु धरातलमुदाहृतम् ।
पादोच्चं सार्धवस्वंशं पंचमानं युगांशकम् ॥ २५ ॥

वस्वंशं चरणायामं पंचं पादोनकं युगम् ।
चरणं सार्धसप्तांशं प्रस्तरं सार्धवह्निकम् ॥ २६ ॥

सप्तांशं पाददीर्घं तु पादाधिकाग्निमंचकम् ।
अर्धाधिकषडंशं तु पादोच्चास्तु मंचकम् ॥ २७ ॥

षडंशं पादतुंगं तु पादोनाग्न्यंशमंचकम् ।
अर्धाधिकं तु भूतांशं पाददीर्घमुदाहृतम् ॥ २८ ॥

अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ।
सपादं पंचभागं तु पाददीर्घं प्रशस्यते ॥ २९ ॥

सार्धपक्षांशमंचोच्चं भूतांशं चरणोदयम् ।
स पादं पक्षभागं तु मंचमानमुदीरितम् ॥ ३० ॥

पादोन पंचभागं तु चरणोदयमीरितम् ।
मंचमानद्विभागं तु सार्धवेदांशमंघ्रिकम् ॥ ३१ ॥

स त्रिपादशिवांशं तु प्रस्तरस्य समुच्छ्रयः ।
शश्यंशं वेदिकामानं कण्ठोच्चं सार्धभागया ॥ ३२ ॥

अर्धाधिकं तु वेदांशं शिखरोदयमिष्यते ।
पादोनं तु द्विभागं स्यात्स्थूप्युदयमिष्यते ॥ ३३ ॥

होमादिस्थूपपर्यन्तं युगाश्रं परिकल्पयेत् ।
शिखरे तु चतुर्दिक्षु महानासी समन्वितम् ॥ ३४ ॥

पादं प्रत्यल्प नास्याढ्यं धातारं कान्तमुच्यते ।
सौष्टिकं चान्तमंचं तु विजयं तदुदाहृतम् ॥ ३५ ॥

तदेवोन्नतकूटं च कोष्ठोन्नताः समंचकाः ।
सर्वात्मकमिदं ख्यातं सर्वदेवात्मकं परम् ॥ ३६ ॥

तदेव शिखरं कण्ठं वस्वश्रं वसुनासिकाः ।
विशालभद्रमाख्यातं सर्वदेवार्हकं परम् ॥ ३७ ॥

तदेव मध्यभद्राढ्यं कूटकोष्ठौ समोन्नतौ ।
समंचं वा विमंचं वा कूटशाला च पंजरम् ॥ ८८ ॥

गणिका विशालकं प्रोक्तं ब्रह्मविष्णुशिवार्हकम् ।
तदेव शिखरं कण्ठं वृत्तमष्टाश्रवेदिका ॥ ३९ ॥

इन्द्रकान्तमिति ख्यातं विमानं सार्वदेशिकम् ।
तदेव कर्णकूटस्तु भद्रयुक्कर्णभद्रकम् ॥ ४० ॥

तदेव सौष्टिकानां तु शीर्षकं मण्डलाकृतिः ।
नाम्ना कर्णविशालं तु सर्वदेवप्रियावहम् ॥ ४१ ॥

एवमेकादशं भूमिलक्षणं परिकीर्तितम् ।

इत्यंशुमान्काश्यपे रुद्रभूमिविधिपटलः (सप्तत्रिंशः) ॥ ३७ ॥