अंशुमत्काश्यपागमः/वर्णसंभवपटलः ८८

← पटलः ८७ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८९ →



अथ वक्ष्ये विशेषेण वर्णसंस्कारलक्षणम् ।
शिवात्परं च सद्भावं अव्यक्ताच्छान्तिसंभवम् ॥ १ ॥

शान्तेः शक्तिसमुत्पन्नं तस्मान्नादं स बिन्दुकम् ।
तस्माद् व्योम समुत्पन्नं तस्मादनिलसंभवम् ॥ २ ॥

अनिलादग्नि संभूतं तस्माद्वैजलसंभवम् ।
तस्माद्वै भुवनं जातं भुवने वर्णसंभवम् ॥ ३ ॥

श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुर्विधम् ।
जले तु श्वेतसंभावं अग्नौ रक्तनिभोद्भवम् ॥ ४ ॥

भुवने पीतसंभूतं त्वनिले कृष्णसंभवम् ।
विष्णुर्महेश्वरो धाता रुद्रो वर्णाधिपाः क्रमात् ॥ ५ ॥

विप्रक्षत्रियविट्च्छूद्रा सितवर्णादयो भवेत् ।
श्वेतं रक्तं च पीतं च कृष्णं विप्र चतुर्विधम् ॥ ६ ॥

श्वेतं चैव तु शुक्लं च धवलं चावदातकम् ।
मुक्ताभं चेन्दुवर्णाभं श्वेतवर्णमिति स्मृतम् ॥ ७ ॥

शंखवर्णसमं शुक्लवर्णमित्युदितो मया ।
राजताभं च गोक्षीरसदृशं धवलं भवेत् ॥ ८ ॥

तारका सदृशं विप्र अवदातमुदाहृतम् ।
अरुणं रक्त शोणं च पाटलं च चतुर्विधम् ॥ ९ ॥

अरुणं शशरक्ताभं जपापुष्पाभरक्तकम् ।
शोणं किंशुकपुष्पाभं लाक्षासारं तु पाटलम् ॥ १० ॥

स्वर्णपिंगलपीतं च हरितालं चतुर्विधम् ।
स्वर्णवर्णसमं स्वर्णं पिंगं रजनिसारवत् ॥ ११ ॥

हरितालं तु पीतं स्यात् हरितं मार्जालनेत्रवत् ।
नीलं श्यामं च कालं च कृष्णं चैव चतुर्विधम् ॥ १२ ॥

मेघवर्णसमं नीलं श्यामं वै वनवायसम् ।
शिखिकण्ठसमं कालं कृष्णं स्याद्गृहपक्षवत् ॥ १३ ॥

एवं षोडशभेदं तु वर्णमेवं स्वतन्त्रकम् ।
घरणीजन्द्रच्छेदं रक्तं हंसांघ्री संभवम् ॥ १४ ॥

अथवा जातिलिंगं तु रक्ताभं द्विविधं स्मृतम् ।
गोदावर्यास्तु संभूतं हरितालमुदाहृतम् ॥ १५ ॥

अतसी पुष्पसंकाशं राजावर्ताश्ममुच्यते ।
श्यामपाषाण सारं तु श्याममित्यभिधीयते ॥ १६ ॥

दीपोद्भूतं च चूर्णं तु कृष्णवर्णमुदाहृतम् ।
एवमादि कलावर्णं तस्मात्तस्मिन्ननेकधा ॥ १७ ॥

मृच्छेदं लाक्षासारं च दीपोद्भवरजस्तथा ।
पद्मं चाविरि नीलान्यद् धातुरित्यभिधीयते ॥ १८ ॥

एवं स्वतन्त्र प्रधानास्तु वर्णबिम्बार्हकं क्रमात् ।


इत्यंशुमान्काश्यपे वर्णसंभवपटलः (अष्टाशीतितमः) ॥ ८८ ॥