प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ८८ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ९० →




सुवर्णार्हकवर्णं च वक्ष्येऽहं द्विजसत्तम ! ।
पीताश्म तु च पीता स्यात्तदश्म चूर्णवत्कृतम् ॥ १ ॥

नालिकेरोदकैर्मिश्रं दध्यारक्तनिभं भवेत् ।
तत्सुधा कर्म रक्तं स्यात् शंखदण्डं सितं भवेत् ॥ २ ॥

राजावर्तं च श्यामं च पाषाणौ द्वौ च पूजितौ ।
इतराभासशक्ताः स्युः सुधाकर्मसु सुव्रतः ॥ ३ ॥

अथ सुकरवर्णं तु वक्ष्येऽहं द्विजसत्तम ! ।
सितरक्तसमं मिश्रं गौरवं च मुदाहृतम् ॥ ४ ॥

सितपीतं समं मिश्रं यत्तत्कर्बुरकं भवेत् ।
सित कृष्णसमं मिश्रं धूम्रवर्ण मुदाहृतम् ॥ ५ ॥

श्वेतं कृष्णं च पीतं च समभागं तु मिश्रकम् ।
सारशविरिदं ख्यातं वर्णकर्मसुचोदितम् ॥ ६ ॥

श्वेतं रक्तं च संमिश्रं कर्बूरकमुदाहृतम् ।
रक्तं पीतं समं मिश्रं बकुलस्य फलाकृतिः ॥ ७ ॥

ज्वलनच्छविराख्यातं अग्निवर्णमिदं परम् ।
पीतस्य द्विगुणं रक्तं मिश्रितं चातिरक्तकम् ॥ ८ ॥

उदयार्कसमं चैतद् वर्णमित्यभिधीयते ।
रक्तस्य द्विगुणं पीतमिश्रितं गुलवर्णकम् ॥ ९ ॥

पीतस्य तु तदर्धं तु मिश्रितं कपिलं भवेत् ।
पीतं वेदांशरक्ताढ्यं शफरस्य निभं भवेत् ॥ १० ॥

कृष्णस्य द्विगुणं रक्तं मिश्रितं तु कषा?यकम् ।
श्वेतस्य द्विगुणं पीतं मिश्रितं पिंगलं भवेत् ॥ ११ ॥

श्वेतस्य त्रिगुणं पीतं मिश्रं कल्हारसादृशम् ।
कृष्णस्य द्विगुणं पीतं मिश्रितं चबुसंनिभम् ॥ १२ ॥

तदेव तु नृणां वर्णं स्यात् कृष्णं पीतसमं तु वा ।
हरितालं श्यामसमं मिश्रं शुकपक्षसमं भवेत् ॥ १३ ॥

तदेवारितालमाधिक्यं धान्यांकुरमुदाहृतम् ।
श्यामं स्याद्धरितालाढ्यं कुंकुष्ठारीतालार्धकम् ॥ १४ ॥

मिश्रितं सस्यश्यामं स्यात् कृष्णं लाक्षासमन्वितम् ।
जम्बूफलसमन्वे तु वर्णमित्युच्यते मया ॥ १५ ॥

जातिलिंगसमं लाक्षासारलोहितमुच्यते ।
कृष्णनीलसमं मिश्रं केशवर्णमुदाहृतम् ॥ १६ ॥

सस्यश्यामं च रक्तं च संमिश्रमष्टवर्णकम् ।
कृष्णं रक्तसमं मिश्रं मधुवर्णमुदाहृतम् ॥ १७ ॥

तदेवरक्तमाधिक्यं मानुषं वर्णमुच्यते ।
मानुषारक्तमाधिक्यं वर्णरूक्षहरीतकी ॥ १८ ॥

तस्माच्छयामनिभोपेत नात्रवर्णमुदाहृतम् ।
तेषु यद्द्रव्यमल्पेन बाहुमानसमन्वितम् ॥ १९ ॥

बहुसारेति तत्ख्यातं बहुद्रव्याल्पमानितम् ।
अल्पसारमिति ख्यातं सारेल्पकल्पितं विदुः ॥ २० ॥

वर्णानामानुकूल्यं तु सारमेवं समाश्रितम् ।

प्. ३७७) इत्यंशुमान्काश्यपे संकरवर्णपटलः (एकोननवतितमः) ॥ ८९ ॥