अंशुमत्काश्यपागमः/विनायकलक्षणपटलः ४८
← पटलः ४७ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ४९ → |
अथ वक्ष्ये विशेषेण विघ्नराजस्य लक्षणम् ।
पादादुष्णीषपर्यन्तं चतुष्षष्ट्यंशभाजितम् ॥ १ ॥
मूर्ध्ना मस्तकनिम्नान्तं अंगुलद्वयमुच्यते ।
तस्माद्वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् ॥ २ ॥
नेत्रसूत्राच्च हन्वन्तं भागमष्टांगुलं भवेत् ।
तस्माच्च कर्णमानं स्यात् द्वयंगुलमुदाहृतम् ॥ ३ ॥
मेढ्रादुदरनिष्क्रान्तं वसुमात्रमिति स्मृतम् ।
ऊरुः षडंशमानः स्यात् जानुदीर्घं गुणांगुलम् ॥ ४ ॥
जंघा चोरुसमं दीर्घं गुणं पादतलोन्नतम् ।
सप्तांगुलसमायामं अंगुष्ठादि वसानकम् ॥ ५ ॥
स पादांगुष्ठायतं द्व्यंशं सार्धांशं तु कनिष्ठिका ।
तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु यवोनकम् ॥ ६ ॥
त्रयोदशांगुलं बाहु प्रकोष्ठायां नवांगुलम् ।
चतुर्मात्रं तलायामं अग्न्यंशं मध्यमांगुलम् ॥ ७ ॥
तर्जन्या नामिका द्वौ च एकविंशद्यवं पदम् ।
कनिष्ठांगुष्ठयोश्चैव दीर्घं सप्तदशा यवम् ॥ ८ ॥
द्वादशाष्टौ नवाष्टौ च सप्तसंख्या यवं क्रमात् ।
अंगुष्ठादि कनिष्ठान्तं व्यासमित्यभिधीयते ॥ ९ ॥
तद्व्यासं स त्रिपादं स्याद् नखव्यासमुदाहृतम् ।
नखव्यासं त्रिपादं स्याद् नखदीर्घाय वृत्तवत् ॥ १० ॥
वेदं करतलव्यासं मणिबन्धं त्रयर्धकम् ।
प्रकोष्ठान्तं युगांगुल्यं बाहुव्यासं षडर्धकम् ॥ ११ ॥
बाहुमूलं तु वस्वंशं मस्तकोष्टांशकं ततम् ।
सप्तांगुलं नतं निम्नो मुखमध्ये दशांगुलम् ॥ १२ ॥
हस्तमूले षडंगुल्यं नाभ्यन्तं तस्य दीर्घकम् ।
तदंगुलाग्रविस्तारं सार्धमात्रं द्विजोत्तम ! ॥ १३ ॥
क्रमेण कृशतां हस्तमध्ये तु सुषिरद्वयम् ।
वामदन्तायतद्भवेत् वेदमात्रमित्यभिधीयते ॥ १४ ॥
दक्षिणे दन्तमूलस्य द्व्ययोच्चं समतलं भवेत् ।
अधरस्य तु निष्क्रान्ताल्लम्बनं द्व्यंगुलं भवेत् ॥ १५ ॥
नेत्रायामविशालं च षड्यवं परिकीर्तितम् ।
कर्णभूतांगुल व्यासं उत्सेधं चैव तत्समम् ॥ १६ ॥
अर्धांगुलं घनं चैव कर्णमूलं द्वियं गुलम् ।
यद्वद्गजाननं तद्वत् कर्तव्यं तु मुखं द्विज ॥ १७ ॥
बाहुपर्यन्तविस्तारं द्वात्रिंशदंगुलं भवेत् ।
एकोनविंशदंगुल्यं कक्षान्तरमुदाहृतम् ॥ ११८ ॥
स्तनान्तरं दशांगुल्यं हिक्कायस्तनद्वदेव हि ।
स्तनाक्षं स यवव्यासं द्व्यंगुलं स्तनमण्डलम् ॥ १९ ॥
स्तनतारविशालं तु त्रिःपंचांगुलमुच्यते ।
द्वाविंशदंगुलं ख्यातं मध्योदरविशालकम् ॥ २० ॥
नाभिनिम्नविशालं तु अध्यर्धांगुलमुच्यते ।
लिंगायामं गुणांगुल्यं तस्यार्धं तस्य विस्तृतम् ॥ २१ ॥
मुष्लायामं विशालं तु गुणांगुलमुदाहृतम् ।
ऊरुमूलं द्वादशांगुल्यं ऊरुमध्यं षडर्धकम् ॥ २२ ॥
जानुभागं ततांगुल्यं जंघातारं समांगुलम् ।
नलकातारयुगांशं स्या पंचांशं पादविस्तृतम् ॥ २३ ॥
द्वादशाष्टौ षडर्धं च षट्पंचकयवं क्रमात् ।
अंगुष्ठादिकनिष्ठान्तं पादांगुलि विशालकम् ॥ २४ ॥
तत्त्रिपादनखव्यासं तदर्धायतमण्डनम् ।
स्थानकं त्वासनं वापि पद्मपीठे विशेषतः ॥ २५ ॥
स्वदन्तं दक्षिणे हस्ते वामहस्ते कपित्थकम् ।
मोदकं गजहस्ते तु अंकुशं दक्षिणे करे ॥ २६ ॥
वामहस्ते तु पाशं वा नागं वा अक्षमालिकाम् ।
त्रिणेत्रं हेमसंकाशं दुकूलवसनच्छदम् ॥ २७ ॥
आभंगं समभंगं वा स्थानके तु प्रकल्पयेत् ।
आसने त्वासनं चेतु वामपादं तु शाययेत् ॥ २८ ॥
वामेतरोरुमूर्ध्वस्थ पादेनोकुटिकासनम् ।
ईषद्वक्रतनुर्वामे कर्तव्यं तु विशेषतः ॥ २९ ॥
व्यालयज्ञोपवीतं तु किरीटमकुटान्वितम् ।
सर्वाभरणसंयुक्तं महाकायं महोदरम् ॥ ३० ॥
एवं विनायक ख्यातं शृणु षण्मुखलक्षणम् ।
इत्यंशुमान्काश्यपे विनायकलक्षणपटलः (अष्टचत्वारिंशः) ॥ ४८ ॥