अंशुमत्काश्यपागमः/वृक्षसंग्रहणपटलः ८२
← पटलः ८१ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ८३ → |
अथ वक्ष्ये विशेषेण वृक्षसंग्रहणं परम् ।
देवानां चैव देवीनां शूलार्थं वृक्षमुच्यते ॥ १ ॥
स्त्रीपुंनपुंसकं चेति वृक्षभेदं त्रिधा भवेत् ।
स्निग्धे वास्निग्धा भूमौ वा आर्जवं सुदृढं घनम् ॥ २ ॥
अल्प स्कन्धसमायुक्तं फलं पंचदलं दृढम् ।
शीतलोष्णं च संमिश्रं अल्पस्नेहरसान्वितम् ॥ ३ ॥
यत्तत्पुंलिंगमाख्यातं देवानां तदिहोच्यते ।
स्निग्धे वा स्निग्धभूमो च आर्जवं चातिमार्दवम् ॥ ४ ॥
मूलादग्रं क्रमात्क्षीणं पुष्पं चैव फलं दलम् ।
अतिमार्दवसंयुक्तं अतिशीतलसंयुतम् ॥ ५ ॥
अतिस्नेहसमायुक्तं रसं चैव तथा भवेत् ।
एतत् स्त्री वृक्षमाख्यातं देवीनां शूलयोग्यकम् ॥ ६ ॥
क्षीणमूलसमायुक्तं पत्रं पुष्पं फलं तथा ।
अतिदुर्बलसंयुक्तं यत्तद् षण्डमुदाहृतम् ॥ ७ ॥
चन्दनं चंपकं चैव रक्तचन्दनमेव च ।
सालं च खादिरं चैव सोमशीर्षकतिन्दुकम् ॥ ८ ॥
अर्जुनं शिंशुपं चैव राजादन मधूककम् ।
आम्रकं कुसुमं चैव सप्तपर्णं च धन्वनम् ॥ ९ ॥
शूलयोग्याद्रुमाः ख्यातास्तेषां तत्सुदृढं गृहेत् ।
जीर्णा वक्रान्तराश्रुत्यां शिरः शून्याति शालिकाः ॥ १० ॥
स्वयं पतित वृक्षाश्च स्वयमेव तु शोषिताः ।
वक्रकोटरसंयुक्ता व्यालपक्षिसमाश्रिताः ॥ ११ ॥
वाताशनि पदाभिन्ना वल्लीजातिभिरावृताः ।
गुल्मवल्मीकमाश्रित्य चण्डाला वा समाश्रिताः ॥ १२ ॥
देवालय सभा चैत्यश्वशानपथिजाद्रुमाः ।
नृपमन्दिरं संश्रित्य कर्मकारालयाश्रिताः ॥ १३ ॥
रुद्रमन्दिरसंश्रित्य चर्मकारालयाश्रिताः ।
अन्धा (क्र?)चैव तु वृक्षाश्च अन्यकर्मसु योजिताः ॥ १४ ॥
वर्जयेत्तु प्रयत्नेन गृहीते कर्तृनाशनम् ।
तस्मात्सर्वप्रयत्नेन दोषाढ्यं परिवर्जयेत् ॥ १५ ॥
प्रशस्त ऋक्षवारेषु शस्तवृक्षं तु संगृहेत् ।
आचार्यः शिल्पकश्चात्र वृक्षस्थाने तु संगृहेत् ॥ १६ ॥
निरीक्ष्य बहुवृक्षाश्च उक्तवृक्षं परिग्रहेत् ।
वृक्षाधस्ताद्गुणादीनि व्यपोह्यावपनं गुरुः ॥ १७ ॥
एतन्मंत्रं समुच्चार्य अष्टदिक्षु बलिं क्षिपेत् ।
एतद्वृक्षाश्रिता देवा दानवाश्च पिशाचकाः ॥ १८ ॥
नागागरुडगन्धर्वाः सिद्धविद्याधराश्च ये ।
यूयं बिम्बार्थ वृक्षात्तु गच्छेयुस्ते यथा सुखम् ॥ १९ ॥
इत्युक्त्वा तु बलिं दद्यात् दध्याज्यान्नं सपुष्पकम् ।
रक्तचन्दनसंयुक्तं गन्धतोयसमन्वितम् ॥ २० ॥
वृक्षस्येशानदिग्भागे ततो होमं समाचरेत् ।
स्थण्डिलं सिकतैः कुर्याद्धस्तमात्रप्रमाणतः ॥ २१ ॥
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ।
समिदाज्यैश्चरुभिश्च होमं कृत्वा तु देशिकः ॥ २२ ॥
समिधो हृदयेनैव मूलेनाज्यं तु होमयेत् ।
अघोरेण चरुं हुत्वा प्रत्येकाष्टशताहुतिः ॥ २३ ॥
जयादिरभ्यतानैश्च राष्ट्रभृच्चैव होमयेत् ।
ततश्चाग्निं समुद्वास्य वृक्षं प्रोक्ष्य शिवाम्भसा ॥ २४ ॥
शिवात्मकेति मन्त्रं तु जप्य वृक्षं स्पृशेद्बुधः ।
वृक्षस्य पूर्वभागे तु मुखं पृष्ठं तु पश्चिमम् ॥ २५ ॥
दक्षिणं सव्यपार्श्वं स्याद्वामपार्श्वं तथोत्तरम् ।
ध्यात्वैवं लक्षयित्वा तु पश्चाच्छेदनमारभेत् ॥ २६ ॥
अस्त्रमंत्रं जपेद्वृक्षमूलं त्रिश्छेद्यलक्षयेत् ।
क्षीरं तोयं घृतं श्रेष्ठं सृक् स्रु(?)वे वन्यशोभनम् ॥ २७ ॥
असृक्स्रावेऽस्त्रमंत्रेण शान्ति होमं समाचरेत् ।
वृक्षमूलमशेषं तु स्थपतिश्छेदयेत्क्रमात् ॥ २८ ॥
पूर्वे वा चोत्तरे देशे वृक्षस्य पतनं शुभम् ।
अन्यत्र पतितं वृक्षं वर्जयेत्तु प्रयत्नतः ॥ २९ ॥
स्कन्धच्छेदं ततः कुर्यात् आर्जवं तं तरुं कुरु ।
गव्यैर्गन्धोदकैः स्नाप्य गन्धमाल्यैरलंकृतम् ॥ ३० ॥
नववस्त्रेण संछाद्य दर्भैर्वा सूक्ष्मरज्जुना ।
स्यन्दने शिबिकायां वा रोप्य स्कन्धेन वा बुधः ॥ ३१ ॥
धृत्वा शनैश्शनैर्गत्वा कर्ममण्टपमाचरेत् ।
मण्टपं मार्जनं कृत्वा गोमयालेपनं कुरु ॥ ३२ ॥
पिष्टचूर्णैरलं कृत्य तन्मध्ये स्थूल वालुकैः ।
स्थण्डिलं कारयेद्विद्वान् शूलदीर्घसमायुतम् ॥ ३३ ॥
तस्यार्धं विस्तरोपेतं चतुरंगुलमुन्नतम् ।
प्रागग्रं शाययेत्तस्मिन् शूलवृक्षमधोमुखम् ॥ ३४ ॥
आशुष्कं रक्षयेद्विद्वान् मासं पक्षमथापि वा ।
पश्चाच्छूलं तु कर्तव्यं त्वरितं तु न कारयेत् ॥ ३५ ॥
इत्यंशुमान्काश्यपे वृक्षसंग्रहणपटलः (द्व्यशीतितमः) ॥ ८२ ॥