प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ८२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८४ →



अथ वक्ष्ये विशेषेण शूललक्षणमुत्तमम् ।
ऊर्ध्वकायसमं वं?श दण्डदीर्घमुदाहृतम् ॥ १ ॥

मध्योदरविशालस्य चतुर्भागैकविस्तृतम् ।
मूलेष्टांश विहीनं तु तस्याग्रं अ ततं भवेत् ॥ २ ॥

नाभ्यन्तं चतुरश्रं तु हिक्कान्तं वसुकोणकम् ।
तदूर्धं वृत्तमाख्यातं शेषं वर्तुलमेव वा ॥ ३ ॥

द्वात्रिंशदंगुलायामं वक्षोदण्डायतं भवेत् ।
विस्तारं सार्धषण्मात्रं सार्धसप्तांगुलं तु वा ॥ ४ ॥

विस्तारार्धघनं ख्यातं वक्षो दण्डं तदुच्यते ।
अग्रं युगांगुल व्यासं मध्यादग्रं क्रमात्कृशम् ॥ ५ ॥

वक्षोदण्डस्य मध्ये तु छिद्रं सार्धगुणांगुलम् ।
हिक्कासूत्रादधस्तात्तु यावत्स्याद्द्व्यंगुलावधि ॥ ६ ॥

वक्षोदण्डोर्ध्वसाम्यं स्याद् द्व्यंशं दण्डे तु योजयेत् ।
षोडशांगुलमायामं कटिदण्डस्य देशिक ॥ ७ ॥

वस्वंगुलं तु तत्तारं घनं वेदांगुलं भवेत् ।
मध्ये युगांगुलं छिद्रं नाभेः पंचांगुलादधः ॥ ८ ॥

कटिदण्डोर्ध्व मध्ये स्याद्वंशदण्डे तु योजयेत् ।
वक्षोदण्डाग्रयोर्विप्र ! कटिदण्डाग्रयोरपि ॥ ९ ॥

अथ वक्त्र शिखां कुर्यात् अनेन विधिना बुधः ।
एकद्वित्रिचतुष्पंच षट्सप्ताष्टकरं तु वा ॥ १० ॥

बिम्बोचितकरं यत्तत् संख्या वक्रशिखान्विताः ।
द्व्यंगुलं च शिखायामं हस्तसंख्यापि तन्ततः ॥ ११ ॥

वक्षोदण्डविशालं तु हस्तसंख्यात्तु भाजिते ।
शिखाव्यासं तदेकांशं मूलेग्रे तु कृशं क्रमात् ॥ १२ ॥

कटिदण्डाग्रयोर्वक्रशिखायामं गुणांगुलम् ।
सार्धांगुलं तु तत्तारं सुवृत्तं तद्घनं समम् ॥ १३ ॥

स्थानकं सकलं चेत्तु ऊरुदीघोपरि द्विजः ! ।
अष्टांगुलं समारोप्य ऊरुशूलायतं भवेत् ॥ १४ ॥

आसने सकलं चोरुदीर्घादूर्ध्वं न रोपयेत् ।
ऊरुमूले सुषिं कृत्वा कटिदण्डाग्रयोर्बुधः ॥ १० ॥

शिखायामं समायोज्य यावद्बलधयं यथा ।
जानुमानं द्विधा कृत्वा ऊरुजंघाद्वयोरपि ॥ १६ ॥

आरोपयेच्छिखामानं तस्मादारोपयेद्बुधः ।
गुणांगुलं शिखामानं जंघादीर्घोभयैर्युतम् ॥ १७ ॥

मध्यच्छिद्रसमायुक्तं ऊर्वग्रं द्विशिखान्वितम् ।
जंघामूलं त्रिभागैकं शिखा व्यासमुदाहृतम् ॥ १८ ॥

जानुसंधिं विना वाथ स्थानके सकलं कुरु ।
संधि हीनांघ्रिशूलं तु एवमेवं विधीयते ॥ १९ ॥

जंघादीर्घोपरिष्टात्तु तालमानं तु रोपयेत् ।
ऊरुमध्यत्रिभागैकं ऊरुदण्डस्य विस्तृतम् ॥ २० ॥

तस्याग्रं तु त्रिपादं स्याज्जंघामूलं तु तत्समम् ।
जंघामूलत्रिभागैकं हीनं जंघाग्रविस्तृतम् ॥ २१ ॥

त्रिधापादतलायामं कृत्वा भागद्वयान्वितम् ।
स?लाग्रविस्तृतं तद्द्वित्रिद्व्यंश विस्तृतान्वितम् ॥ २२ ॥

एतत्पादतलं शूलं स्यात्समध्यायता परे ।
कर्तव्यं सुषिरं तस्मिन् जंघाग्रादधिकायतम् ॥ २३ ॥

योज्य स्निग्ध दृढं कृत्वा बाहुमूलमथोच्यते ।
बाहुमूलविशालं तु गुणांगुलमुदाहृतम् ॥ २४ ॥

अग्रं तु द्व्यंगुलं व्यासं प्रकोष्ठाग्र विशालकम् ।
बाहुप्रकोष्ठयोश्चैव कोर्परं जानुवद्भवेत् ॥ २५ ॥

द्व्यंगुलं तु शिखामानं योजयेत् तु दृढं यथा ।
पर्श्वयोर्वंशदण्डस्य पार्श्वदण्डे तु योजयेत् ॥ २६ ॥

कक्षान्तरं तु तद्दीर्घं तद्व्यासं तु गुणांगुलम् ।
वंशदण्डसमं नीव्रं ऊर्ध्वाधस्ताच्छिखान्वितम् ॥ २७ ॥

अग्रौ तु वक्षो दण्डे तु मूलौ तु कटिदण्डके ।
योजयेत्सुदृढं छिद्रे गुणांशं व्यन्तरान्वितम् ॥ २८ ॥

अग्रौ मूलौ निरुद्धं स्यात् पार्श्ववंशद्वयोरपि ।
हस्तपादतलं श्रोत्रं ताम्रपत्रेण योजयेत् ॥ २९ ॥

आर्जवे वक्रबिम्बे च शूलं चैव तथा कुरु ।
देवानां शूलमेवं स्यात् देवीनामथ वक्ष्यते ॥ ३० ॥

मध्योदरं त्रिधा भज्य एकांशं वंशविस्तृतम् ।
अष्टांश हीनमग्रस्य विशालं तत्सुवृत्तकम् ॥ ३१ ॥

बाहुपर्यन्त विस्ताराद्बाहुतत्यर्धवर्जितम् ।
वक्षोदण्डायतं शेषं तस्यान्तं विसृतं भवेत् ॥ ३२ ॥

युगांशं पृष्ठमानं तु शेषं गर्ते तु वेशनम् ।
जंघा दण्डात्तु षण्मात्रं रोपयेत्स्थानके बुधः ॥ ३३ ॥

गर्भगर्त प्रवेशार्धं तलाधस्तात्तु तद्भवेत् ।
शूलमेवं समाख्यातं उपधाशूलमुच्यते ॥ ३४ ॥

भित्तिमध्यं समारभ्य वक्षो दण्डपुरान्तकम् ।
उपशूलायतं प्रोक्तं अष्टांगुलततं भवेत् ॥ ३५ ॥

वेदांगुलं तु तन्नीव्रं शूलयोग्यद्रुमैर्बुधः ।
शूलव्याससमं मध्यं छिद्रं तद्विशिखान्वितम् ॥ ३६ ॥

भित्तिमध्यात्तु शूलस्य मूलं बध्वा दृढं बुधैः ।
वक्षोदण्डकटीदण्डं धृत्वा वंशाख्यशूलकम् ॥ ३७ ॥

छिद्रे दृढतरं चाग्निं तत्पूर्वे कीलबन्धनम् ।
उपथाशूलशिखान्तं च वक्षोदण्डपुरं समम् ॥ ३८ ॥

उपथाशूलशिखायां तु वंशाग्रे सुषिरं कुरु ।
लोहजं दारुजं वाथ कीलं संयोजयेद्दृढम् ॥ ३९ ॥

बिम्बास्तच्छूलमाख्यातं तस्मादुक्तवदाचरेत् ।
शूललक्षणमाख्यातं शूलस्थापनमुच्यते ॥ ४० ॥


इत्यंशुमान्काश्यपे शूललक्षणपटलः (त्र्यशीतितमः) ॥ ८३ ॥