अंशुमत्काश्यपागमः/षड्भूमिविधानपटलः ३२

← पटलः ३१ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३३ →


अथ वक्ष्ये विशेषेण षड्भूमेऽस्तु विधिं परम् ।
तस्य विस्तारतुंगं तु प्रासादमानवद्भवेत् ॥ १ ॥

विस्तारं रुद्रधा भज्य गुणांशं गर्भगेहकम् ।
द्विभागं गृहपिंडी स्यात् अलिंदं शशिभागया ॥ २ ॥

हारा शिवांशमानेनवै वर्षस्थलं भवेत् ।
धरातलो द्वित्रिभूमौ देवता स्थापनं भवेत् ॥ ३ ॥

देवतास्थापनं यत्र तावद्वै सुदृढं घनम् ।
बाह्ये त्रिपिशिलाकारं भवनाभ्यन्तरं भवेत् ॥ ४ ॥

चतुष्कूटाष्टकोष्ठं च भानुपंजरसंयुतम् ।
हारान्तरं चतुर्विंशत् कल्पयेदादि भूतले ॥ ५ ॥

पंजरं हर्म्य मध्ये तु कर्णे तु सौष्टिकं भवेत् ।
पार्श्वयोः कर्णकूटस्य पंजरं परिकल्पयेत् ॥ ६ ॥

कोष्ठपंजरयोर्मध्ये कल्पयेत्तु विशेषतः ।
तदूर्ध्वे भूदशांशे तु व्योमांशं कर्णकूटकम् ॥ ७ ॥

मध्ये पंजरमेकांशं कर्णकूटमथा कृतिः ।
द्विभागं कोष्ठदीर्घं स्यात् अर्धांशं पंजरस्य तु ॥ ८ ॥

शेषं हारान्तरं ख्यातं एषां संख्यातिभूषितान् ।
तस्योर्ध्वे भूविशालं तु नवभागविभाजिते ॥ ९ ॥

कर्णकूटमथांशेन मध्ये शालागुणांशकम् ।
पंजरव्यासमेकांशं अर्धांशं हारयोत्तरे ॥ १० ॥

प्. १२६) ऊर्ध्व भूर्वसु भागे तु शिवांशं कूटविस्तृतम् ।
मध्ये कोष्ठं द्विभागेन एकांशं पंजरस्तथा ॥ ११ ॥

हासन्तरमथार्धांशं कल्पयेत्कल्पवित्तमः ।
तस्योर्ध्वे भूमिविस्तारं षड्भागं विभजेत्समम् ॥ १२ ॥

कूटमेकांशमानेन कोष्ठायामं तु तद्द्वयम् ।
अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ॥ १३ ॥

तदूर्ध्वे ऊर्ध्वविस्तारात् अर्धांशं मध्यभद्रकम् ।
दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं भद्रनीव्रकम् ॥ १४ ॥

तुंगं सर्वत्र पंचाशत् अंशं कृत्वा तु देशिकः ।
अधिष्ठानोच्छ्रयं चाग्निषड्भागं चरणोदयम् ॥ १५ ॥

पादहीनाग्निभागं तु मंचमानमुदाहृतम् ।
पादोच्च सार्धपंचांशं मंचं सार्ह्द द्विभागया ॥ १६ ॥

पादाधिकं तु पंचांशं पादायाममिति स्मृतम् ।
सार्धद्विभागमंचोच्चं पंचांशं चरणोदयम् ॥ १७ ॥

पादाधिकद्विभागं तु प्रस्तरोदयमीरितम् ।
पादहीनं तु पंचांशं तलिपस्योदयं भवेत् ॥ १८ ॥

द्विभागं प्रस्तरं ख्यातं अर्धाधिकयुगांशकम् ।
पादायाममिदं ख्यातं पादोन द्व्यंशमंचकम् ॥ १९ ॥

व्योमांशं वेदिकामानं पादोन द्व्यंशकं गलम् ।
सार्धवेदांशमानं तु शीर्षकं परिकल्पयेत् ॥ २० ॥

प्. १२७) शिखरे तु महानासीचत्वारि परिकल्पयेत् ।
अम्बुजासनमाख्यातं सर्वदेव प्रियावहम् ॥ २१ ॥

तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् ।
अशेष सौष्टिकानां तु शीर्षं वै चतुरश्रकम् ॥ २२ ॥

उन्नतावनतो वापि भद्रं वा भद्रकोष्ठकम् ।
सान्तरप्रस्तरोपेतं हीनं वापि समोन्नतम् ॥ २३ ॥

सुशांकरमिदं ख्यातं तद्वै सौष्टिकशीर्षकम् ।
वृत्ताकारं प्रकर्तव्यं नाम्ना भद्रवलीनकम् ॥ २४ ॥

तदेव शिखरे चाष्टौ अल्पनासी युगमुद्भवा ।
शिवभद्रमिदं ख्यातं शिवप्रीति करं परम् ॥ २५ ॥

तदेव द्व्यश्रवृत्ताभं शीर्षकं गलसंयुतम् ।
मुखे ललाटनासाढ्यं नागेन्द्रमिति संज्ञितम् ॥ २६ ॥

षड्भूम्येवं समाख्यातं सप्तभूममथोपरि ।

इत्यंशुमान्काश्यपे षड्भूमिविधानपटलः (द्वात्रिंशः) ॥ ३२ ॥