अंशुमत्काश्यपागमः/सप्तभूमिविधानपटलः ३३

← पटलः ३२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३४ →



अथ वक्ष्ये विशेषेण सप्तभूमेस्तु लक्षणम् ।
प्रासादमानविधिना वासोदयं परिकल्पयेत् ॥ १ ॥

प्. १२८) रव्यंशं विभजेत्तारं वेदांशं गर्भगेहकम् ।
पक्षांशं भित्तिविष्कम्भं एकेनालिन्दमिष्यते ॥ २ ॥

हारान्तरमथांशेन परितः परिकल्पयेत् ।
विन्याससूत्रयोरन्तर भान्वंशं विभजेत्समम् ॥ ३ ॥

एकांशं कूटविस्तारं कोष्ठं त गुणायतम् ।
पंजरव्यासमेकांशं शेषं हारान्तरं भवेत् ॥ ४ ॥

चतुष्कूटाष्टशाला च पंजरं भानुसंख्यया ।
तस्योर्ध्वे भूमिविस्तारं धर्मभागविभाजिते ॥ ५ ॥

कर्णकूटं च कोष्ठं च पूर्ववत्परिकल्पयेत् ।
पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् ॥ ६ ॥

तस्योर्ध्वभूमिविस्तारं पूर्ववद्धर्मभाजिते ।
पंजरं कूटकोष्ठं च तद्वदेव विधीयते ॥ ७ ॥

ऊर्ध्वभूमि नवांशे तु मध्ये शालाग्नि भागया ।
व्योमांशं कर्णकूटं स्यात् एकांशं पंजरस्ततम् ॥ ८ ॥

हारान्तरमथार्धांशं तस्योर्ध्वे वसुभाजिते ।
मध्ये शाला द्विभागेन शेषं पूर्ववदाचरेत् ॥ ९ ॥

तदूर्ध्वे भूमिविस्तारं रसभागविभाजिते ।
कूटमेकांशमित्युक्तं शाला तद्विगुणायम् ॥ १० ॥

अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।
ऊर्ध्वभूम्यग्निभागैकं मध्ये दण्डेन निर्गमम् ॥ ११ ॥

प्. १२९) ससप्तषष्टिभागं तु कर्तव्यं सदनोदयम् ।
सपादाग्निमधिष्ठानं सार्धषट्कांघ्रि तुंगकम् ॥ १२ ॥

तदर्धं मंचमानं तु षड्भागं चरणोदयम् ।
स त्रिपाद द्विभागं तु मंचमानमुदाहृतम् ॥ १३ ॥

सार्धभूतांशमंघ्र्युच्चं सार्धद्व्यंशं तु प्रस्तरम् ।
सपादं पंचभागं तु स्तंभमानमुदीरितम् ॥ १४ ॥

प्रस्तारं चार्धपंचांशं भूतांशं चरणोदयम् ।
सपादद्विभागमंचं स्यात् स त्रिपादयुगांशकम् ॥ १५ ॥

चरणोदयमित्युक्तं प्रस्तरोच्चं द्विभागया ।
पादोच्चं सार्धवेदांशं पादोन द्व्यंशमंचकम् ॥ १६ ॥

व्योमांशं वेदिकोत्सेधं पादोन द्व्यंशकं गलम् ।
अर्धाधिक युगांशं तु शीर्षकोदयमिष्यते ॥ १७ ॥

पक्षांशं स्थूपिमानं तु गण्यं सप्ततलं विदुः ।
पंजरं कूट कोष्ठं च समसूत्रे तु कल्पितम् ॥ १८ ॥

होमादग्रं युगाश्रं तु शिखरे वेदनासिका ।
शाला षट्त्रिंशतिर्युक्तं भानुद्द्विगुणकूटकम् ॥ १९ ॥

षष्टिपंजरसंयुक्तं पादं प्रत्यल्पनासिका ।
नानाधिष्ठानसंयुक्तं एकाकारमथापि वा ॥ २० ॥

एकानेकाकृतिर्वांघ्रिसमुज्वलनमुदाहृतम् ।
तदेवोन्नतकूटाः स्युः सान्तरप्रस्तरान्वितम् ॥ २१ ॥

प्. १३०) श्रीछन्दसमिति ख्यातं सर्वदेवार्हकं परम् ।
तदेव नतकूटं च कोष्ठोन्नतसमंचकाः ॥ २२ ॥

श्रीविशालमिति ख्यातं सर्वदेवप्रियावहम् ।
तदेव शीर्षं कर्णं च * * श्रं वेदिकायतम् ॥ २३ ॥

श्रीकान्तमिति विख्यातं कूटकोष्ठसमं तु वा ।
समं चोन्नतकूटं वा श्रीप्रदं तदुदाहृतम् ॥ २४ ॥

तदेव वृत्तशिखरं स्थूपिश्चैव गलं तथा ।
रुद्रकान्तमिदं ख्यातं रुद्रप्रीतिकरम् परम् ॥ २५ ॥

तदेव कर्णकूटास्तु वेदाश्राष्टाश्रमंडलम् ।
क्रमेणादि तलात्कल्प्य वृत्तभद्रमिदं स्मृतम् ॥ २६ ॥

तदेवोन्नत कूटं च नतलाला समन्वितम् ।
कूटानां मस्तकं वृत्तं सुवृत्तमिति विद्यते ॥ २७ ॥

सोन्नतं कूटकोष्ठं च पंजरान्तरमंचकम् ।
यथेष्टं शिखराकारं कण्ठः स्थूपी घटस्तथा ॥ २८ ॥

युगाश्र शीर्षकोपेतं कर्णकूटं प्रकल्पयेत् ।
शिवभद्रमिति ख्यातं शिवप्रीतिकरं परम् ॥ २९ ॥

तदेव कूटकोष्ठं च दण्डं वाध्यर्ध दण्डकम् ।
द्विदण्डं वाथ निष्कान्तं भद्रं वा भद्रपंजरम् ॥ ३० ॥

नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् ।
नानाचित्रैर्विचित्रं तु शिवसौख्यमुदाहृतम् ॥ ३१ ॥

प्. १३१) तदेव गर्भगेहं वा वृत्तं वाथ युगाश्रकम् ।
वृत्तमेवं हि बाह्यं तु वृत्ताभं सौष्टिकान्वितम् ॥ ३२ ॥

शेषं पूर्ववदुद्दिष्टं नाम्ना सर्वांगमंगलम् ।
पंजरं कूटकोष्ठं च अन्तरं प्रस्तरान्वितम् ॥ ३३ ॥

यथेष्टशिखराकारं श्रीप्रतिष्ठितमुच्यते ।
एवं सप्ततलं ख्यातं वसुभौममथोच्यते ॥ ३४ ॥


इत्यंशुमान्काश्यपे सप्तभूमिविधानपटलः (त्रयस्त्रिंशः) ॥ ३३ ॥