अंशुमत्काश्यपागमः/सुखासनमूर्तिलक्षणपटलः ६४
← पटलः ६३ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ६५ → |
अथ वक्ष्ये विशेषेण सुखासनविधिं परम् ।
आर्जवं राजसं भावं भद्रपीठे सुखासनम् ॥ १ ॥
वामांघ्रिं शाययेत्पीठे दक्षिणांघ्रिं तु लम्बयेत् ।
ऊर्ध्वकायोपरिष्टात्तु सार्धवेदांगुलाधिकम् ॥ २ ॥
स्फिक्पिण्डमानमेतद्धि आसनोर्ध्वे विशेषतः ।
आसनात्पूर्वकेशान्तं जान्वोर्ध्वे बाह्यावसानकम् ॥ ३ ॥
जान्वोस्तु पूर्वकेशान्तं जानुबाह्वाग्र बाह्यकम् ।
परहस्तद्वयोर्मध्ये बाह्यमभ्यन्तरं भवेत् ॥ ४ ॥
आसने नवसूत्रोऽस्ति पूर्वसूत्राधुना शृणु ।
मौलिमध्ये तु नासाग्रे स्तनान्ते नाभिमध्यमे ॥ ५ ॥
वामांघ्रिगुल्फमध्ये तु ब्रह्मसूत्रं प्रलम्बयेत् ।
सूत्राद्दक्षिणजान्वन्तं एकत्रिंशांगुलं भवेत् ॥ ६ ॥
अथवा त्रिंशदंगुल्यं एकोनत्रिंशमेव वा ।
सूत्रातदंघ्रिनलकात् अन्तरं द्वादशांगुलम् ॥ १ ॥
त्रयोदशांगुलं वापि मन्वंगुलमथापि वा ।
पीठात्तदंघ्रिपार्ष्ण्योस्तु नीव्रं द्वित्र्यंगुलं तु वा ॥ ८ ॥
तत्सूत्रादभये हस्ते मध्यरेखावसानकम् ।
चतुर्दशांगुलं प्रोक्तं त्वन्तरं तु द्विजोत्तम ! ॥ ९ ॥
अभये मध्यमांगुल्याग्रान्तं चिबुकोर्ध्व समं भवेत् ।
तत्सूत्रात्कटके हस्ते मणिबन्धस्य मध्यमात् ॥ १० ॥
पंचादशांगुलं प्रोक्तं त्वन्तरं तु द्विजोत्तम ! ।
ऊरोस्तु मणि बन्धान्तं एकद्वित्र्यंगुलं तु वा ॥ ११ ॥
कटकं सिंहकर्णं वा तद्धस्तं प्रविधीयते ।
तर्जन्यादि कनिष्ठान्तं तत्तन्मूलान्तवर्जि(क्रि?)ता ॥ १२ ॥
ईषद्वक्र तदंगुष्ठं एवं स्यात्कटकाकृतिः ।
मध्यान्मध्यतलान्तं तु अर्धमर्धान्तनामिका ॥ १३ ॥
वक्रो शेषांगुला प्राग्वत् सिंहकर्णमिदं परम् ।
हिक्कासूत्रसमं कुर्यात् कर्तर्याग्रे करौ परौ ॥ १४ ॥
वक्रे वाऽनामिकांगुष्ठौ तलमर्धावसानकौ ।
किंचिद्वक्रं कनिष्ठं तु शेषो द्वौ तदृजु क्रिया ॥ १५ ॥
कर्तर्या कृतिरेवं स्यात् लक्षणं चाति सुन्दरम् ।
कोर्परं श्रोणि पार्श्वात्तु पंचषट्सप्तमात्रकम् ॥ १६ ॥
कुक्षिमध्ये च नासाग्रे पूर्वसूत्रं तु संस्पृशेत् ।
मेढ्रमूलात्तु वामांघ्रि गुल्फमध्यं रसांगुलम् ॥ १७ ॥
अथवा सप्तमात्रं तु पंचमात्रमथापि वा ।
नाभिमध्यात्तु वामांघ्रिनलका मध्यं चतुर्दश ॥ १८ ॥
त्रयोदशांगुलं वाथ भान्वंगुलमथापि वा ।
मौल्यग्रं मध्यमात्सूत्रात् द्वन्तरं मनु मात्रकम् ॥ १९ ॥
सार्ध त्रयोदशान्तं वा त्रयोदशांगुलमेव वा ।
ऋज्वागतं सुखासीनं प्रवालसदृशं प्रभुम् ॥ २० ॥
त्रिणेत्रं प्रसन्न वदनं संपन्नं राजसं गुणम् ।
व्याघ्राजिनाम्बरधरं दुकूलवसनान्वितम् ॥ २१ ॥
कर्तरी परहस्तौ द्वौ बाह्येवाभ्यन्तराननम् ।
दक्षिणे परशुं वामे कृष्णं न्यस्य करद्वये ॥ २२ ॥
अभयं दक्षिणे वामे कटकं सिंहकर्णवत् ।
वामकर्णे विशेषेण शंखपत्रं निधापयेत् ॥ २३ ॥
त्रिचतुः पंचमात्रं वा षट्सप्तमण्डलस्तती ।
कर्णनालघनं ह्येवं त्रिगुणं पत्रविस्तृतम् ॥ २४ ॥
यवं पत्रघनं प्रोक्तं श्वेताभं चातिमार्दवम् ।
दक्षिणे मकराख्यं तु कुण्डलं सिंहमेव वा ॥ २५ ॥
कुण्डल व्यास तुंगं तु त्रिचतुः पंचमात्रकम् ।
युक्तं वै कुण्डलं कृत्वा कर्णे स्कन्धोपरिन्यसेत् ॥ २६ ॥
अथवा कर्णयोर्विप्र ! वृत्तकुण्डलकं न्यसेत् ।
वृत्तकुण्डलविस्तारं अष्टादशयवं भवेत् ॥ २७ ॥
वेदांगुलं तु तत्तुंगं कुम्भाब्जमुकुलोत्पलम् ।
अन्यं वा सुन्दरोपेतं कल्पयेद्वृत्तकुण्डलम् ॥ २८ ॥
जटामकुटसंयुक्तं युग्मसंख्या जटान्वितम् ।
मकुटस्योदयं विप्र ! चतुर्विंशांगुलं भवेत् ॥ २९ ॥
त्रिस्सप्तांगुलतुंगं वा द्विर्नवांगुलमेव वा ।
केशान्तान्मकुटोच्चं तु ललाटपट्टसंयुतम् ॥ ३० ॥
मुखान्त सदृशं विप्र मकुटं मूलविशालकम् ।
तत्सप्ताष्ट नवांशैकं हीनमग्रविशालकम् ॥ ३१ ॥
चतुष्पूरिमसंयुक्तं कृत्तिमाननसंयुतम् ।
कटिसूत्रं त्रिसंख्याभिः सूत्रं प्रतियवं घनम् ॥ ३२ ॥
कटिसन्धोपरिष्टात्तु कटिसूत्रं प्रबन्धयेत् ।
पंचषट्सप्तमात्रं वा कृत्तिमाननविस्तृतम् ॥ ३३ ॥
तद्विस्तारसमं तुंगं मेढ्रस्योपरि कल्पयेत् ।
कटिसूत्रादूरुमानं मध्यत्रिंशावसानकम् ॥ ३४ ॥
मुक्तादामोरुदामस्याभ्यन्तरे रत्नसंयुतम् ।
कटिसूत्रं समाख्यातं कटकं वलयं शृणु ॥ ३५ ॥
कटके वलयोपेतं प्रकोष्ठं द्विजसत्तम ! ।
कनिष्ठांगुलिपरीणाहं वलयं त्वार्दवा हि तत् ॥ ३६ ॥
अथवा वलयस्यैव घनं द्वित्रियवं तु वा ।
रचितं रत्नकाण्डैस्तु प्रकोष्ठे तु निधापयेत् ॥ ३७ ॥
मार्दवं रत्नबन्धं वा कृत्वा तु वलयं द्विज ! ।
केयूरं कोर्परे न्यस्त्वा वलयस्य घनान्वितम् ॥ ३८ ॥
एकाकारं तु केयूरं अष्टमात्राब्जसंयुतम् ।
नानारत्नसमायुक्तं शैवालाभमथापि वा ॥ ३९ ॥
पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम ! ।
पत्रपूरिमनालं तु केयूरसदृशं घनम् ॥ ४० ॥
तत्पुरीमदतोत्तालं बाह्यं त्रिद्व्यावृतं तु वा ।
त्रिचतुष्पंचमात्रं वा पत्रपूरिमविस्तृतम् ॥ ४१ ॥
तद्व्यासाध्यर्धतुंगं वा पादोन द्विगुणं तु वा ।
द्विगुणं वापि तत्तुंगं तद्बाहुवलयं भवेत् ॥ ४२ ॥
मध्यांगुलं विना शेषास्त्वंगुला मुद्रिकान्विताः ।
मुद्रिका मूलपर्वस्थ वृत्तं यवघनान्वितम् ॥ ४३ ॥
उदरबन्धविशालं तु एकद्वित्र्यंगुलं तु वा ।
यवं द्वियवं वाथ उदरबन्धघनं भवेत् ॥ ४४ ॥
प्. ३०३) नानालंकारसंयुक्तं नानारत्नैर्विचित्रितम् ।
नाभेरूर्ध्वगुणांशं तु त्यक्तोदरं तु बन्धयेत् ॥ ४५ ॥
पादयोर्मध्यमादन्या स्वंगुलामुद्रिकान्विताः ।
यवद्वयेन सर्वे * व्यंगुलानां तु मध्यका ॥ ४६ ॥
पादौ जालकसंयुक्तौ गुल्फाधस्ताद् द्विजोत्तम ! ।
जालकाबन्धसूत्रं तु यवद्वयघनान्वितम् ॥ ४७ ॥
तत्सूत्राज्जालकालंबं त्रिपंचयवमात्रकम् ।
त्रियवं जालकान्नालं शेषं वै जालकोदयम् ॥ ४८ ॥
तदुन्नत समं व्यासं यवमानं तु तद्घनम् ।
शेषं तद्घ्रासगाढं वा गाढहीनं घनं तु वा ॥ ४९ ॥
गाढयुक्तं तु वृत्तं स्यात् दन्तपाषाणसंयुतम् ।
घनपाषाणरहितं तुंगार्धं नीव्रमुच्यते ॥ ५० ॥
परशोर्हरिणीदीर्घं भान्वंगुलमुदाहृतम् ।
परशुं हरिणीं चैव युक्त्या सौन्दर्यमाचरेत् ॥ ५१ ॥
यज्ञोपवीतसंयुक्तं यवाष्टांशघनान्वितम् ।
उपवीतं त्रित्रिसूत्रं उदरसूत्रसमन्वितम् ॥ ५२ ॥
एवमेवोरुसूत्रं स्यात् उपवीतघनं समम् ।
वामस्कन्धोपरिन्यस्त्वा नाभ्यधस्तांगुलान्तरम् ॥ ५३ ॥
यज्ञोपवीतदीर्घं स्यात् नाभेर्दक्षिणपार्श्वकम् ।
अपरे वंशमाश्रित्य यज्ञसूत्रं निधापयेत् ॥ ५४ ॥
उरःसूत्रं समालम्ब्यं स्तनादष्टांगुलान्तरम् ।
यज्ञोपवीतमेवं स्यात् छन्नवीरमथ शृणु ॥ ५५ ॥
यज्ञोपवीतवत्प्राग्वत् स्कन्धयोरुभयोरपि ।
पार्श्वयोश्चैव श्रोण्यूर्ध्वे न्यस्त्वा स्तनान्तरैकवत् ॥ ५६ ॥
ग्रीवे हारविजानीयात् हिक्काधस्तात् षडंगुलम् ।
लम्ब्य वेदांगुलं तारं यवत्रय घनान्वितम् ॥ ५७ ॥
नानारत्नैर्हिरण्यैश्च हारं कृत्वातिसुन्दरम् ।
हिक्कासूत्रोपरिष्टात्तु उपग्रीवं तु बन्धयेत् ॥ ५८ ॥
रुद्राक्षं वाथ रत्नं वा हेमवृत्तमणिं तु वा ।
उपग्रीवमिदं ख्यातं हृन्मालात्वधुनोच्यते ॥ ५९ ॥
कर्णादुदरबन्धान्तं अक्षमालां तु बन्धयेत् ।
एतद्धृदयमाला स्यात् स्कन्धमाला तथोच्यते ॥ ६० ॥
स्कन्धे तु स्कन्धमालास्यान्नानापुष्पैर्विराजितम् ।
सर्वांगसुन्दरं देवं शेषं युक्त्या समाचरेत् ॥ ६१ ॥
एवं सुखासनं प्रोक्तं उमास्कन्दसहितं तथा ॥
इत्यंशुमान्काश्यपे सुखासनमूर्तिलक्षणपटलः (चतुष्षटितमः) ॥ ६४ ॥