अंशुमत्काश्यपागमः/षोडशभूमिविधिपटलः ४०

← पटलः ३९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४१ →


अथ षोडशभूमेस्तु लक्षणं वक्ष्यतेऽधुना ।
एवं क्रमेण संकल्प्य पंचालीन्दसमन्वितम् ॥ १ ॥

पंचहारसमायुक्तं गृहपिण्डिस्तु बाह्यकम् ।
गर्भगेहं रसांशं च वेदांशं गृहपिण्डिका ॥ २ ॥

शेषं पूर्ववदुद्दिष्टं अलिन्दादि द्विजोत्तम ! ।
एकद्वित्रिचतुष्पंच भूमौ वाथ धरातले ॥ ३ ॥

देवतास्थापनं कुर्यात् षोडशस्थलहर्म्यके ।
देवस्थापनभूम्यन्तं यावत्तावद्घनं कुरु ॥ ४ ॥

बाह्ये तु चित्रालंकारं घनभूम्यन्तरं कुरु ।
अलिन्दं लजपादं वा छादितं वा तुलादिभिः ॥ ५ ॥

प्रस्तरान्तं घनं वाथ हारान्तं वाथ तद्घनम् ।
व्यासे स वेदित्रिंशांशे कर्णकूटं शिवांशकम् ॥ ६ ॥

हर्म्यमध्ये तु वेदांशं शालायाममुदाहृतम् ।
तयोर्मध्ये द्विभागेन शालादीर्घमुदाहृतम् ॥ ७ ॥

तयोर्मध्ये च शालां तु पक्षांशेनैव कल्पयेत् ।
तयोर्मध्ये विधांशेन पंजरं कर्णकूटवत् ॥ ८ ॥

हारान्तरं तयोर्मध्ये अर्धांशेनैव कल्पयेत् ।
एवं हि कल्पयेदादिभूमिशालाष्टविंशतिः ॥ ९ ॥

कर्णकूटं तु वेदाः स्युः द्वात्रिंशत्पंजरं भवेत् ।
सवेदषष्टि संख्याः स्युः हारान्तरं द्विजोत्तम ! ॥ १० ॥

एवमादितलं ख्यातं द्वितीयं द्वात्रिंशदंशके ।
द्विभागं मध्यशाला स्यात् शेषं पूर्ववदेव हि ॥ ११ ॥

द्वितीया ह्येवमाख्यातं तृतीयमधुनोच्यते ।
त्रिंशदंशविभागं तु कृत्वा तृतीयभूतलम् ॥ १२ ॥

कर्णकूटस्थ पार्श्वस्थं पंजरं चार्धभागया ।
हारान्तरं तदर्धं स्यात् शेषं द्वितीय भूमिवत् ॥ १३ ॥

चतुर्थभू विशालं तु साष्टविंशति भाजिते ।
कर्णकूटसमं पिण्डीशालायास्तु द्विपार्श्वयोः ॥ १४ ॥

पंजरव्यासमर्धांशं शेषं प्रागिव कल्पितम् ।
पंचमे तल विस्तारे षड्विंशत्यंश भाजिते ॥ १५ ॥

मध्यशाला तु वेदांशं व्योमांशं कर्णकूटकम् ।
तयोर्मध्यस्थशाला च तयोर्मध्ये च कोष्ठकम् ॥ १६ ॥

प्रत्येकं द्विद्विभागेन कल्पयेत्कल्पवित्तमः ।
तयोर्मध्येऽर्धभागेनपंजरं कर्णकूटवत् ॥ १७ ॥

हारान्तरं तदर्धेन तेषां संख्यादिभूमिवत् ।
षष्ठं च भूमिविस्तारं चतुर्विंशति भाजिते ॥ १८ ॥

मध्ये कोष्ठद्विभागेन शेषं पूर्ववदेव हि ।
सप्तमं भूमिविस्तारं द्वाविंशत्यंशकं भजेत् ॥ १९ ॥

शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया ।
तयोर्मध्ये शिवांशेन क्षुद्रं कोष्ठं प्रकल्पयेत् ॥ २० ॥

तयोर्मध्ये द्विभागेन शालां कुर्याद्विशेषतः ।
अध्यर्धं पंजरव्यासं तदर्धं हारयोन्तरम् ॥ २१ ॥

पंजरं कूटकोष्ठं च संख्या वै प्रागिवैव तु ।
अष्टमं भूमि विस्तारं विंशत्यंशविभाजिते ॥ २२ ॥

व्योमांशं कर्णकूटं स्यात् मध्ये कोष्ठद्विभागया ।
तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् ॥ २३ ॥

तयोर्मध्ये शिवांशेन क्षुद्रकोष्ठं प्रकल्पयेत् ।
शेषं प्रागिव कर्तव्यं तेषां संख्या तु पूर्ववत् ॥ २४ ॥

नवभूमि विशाल्ं तु त्रिष्षडंश विभाजिते ।
शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया ॥ २५ ॥

तयोर्मध्येऽर्धभागेन पंजरं परिकल्पयेत् ।
तस्यार्धेनैव तत्पार्श्वेदयो हारान्तरं भवेत् ॥ २६ ॥

तत्पार्श्वयोर्द्विभागं स्यात् कोष्ठं कुर्याद्विशेषतः ।
कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि वा ॥ २७ ॥

पंजरं कल्पयेद्धीमान् अर्धांशेनैव सुव्रत ! ।
हारान्तरं तदर्धांशं कल्पयेत्कल्पवित्तमः ॥ २८ ॥

विंशत्कोष्ठं च तत्कूटं पंजरं भानुभिर्द्वयम् ।
कल्प्येवं नवमे भूमौ दशभूमेस्तु विस्तरम् ॥ २९ ॥

दशभूमेस्तु विस्तारं षोडशांशविभाजिते ।
कर्णकूटं शिवांशं स्यात् तत्समं पंजरस्ततम् ॥ ३० ॥

शालायामं द्विभागेन त्वर्धांशं हारयोन्तरम् ।
भानुशाला चतुष्कूटं कलापंजरसंयुतम् ॥ ३१ ॥

हारान्तरं तु द्वात्रिंशत् कल्पयेद्दशमे तले ।
एकादशतलव्यासं मनुभाग विभाजिते ॥ ३२ ॥

शिवांशं कर्णकूटं तु मध्ये शाला द्विभागया ।
तयोर्मध्ये स्थलांशानां गुणांशं परिकल्पयेत् ॥ ३३ ॥

अर्धांशं पंजरव्यासं तस्यार्धं हारयोन्तरम् ।
चतुष्कूटा तु शाला च पंजरं षोडशान्वितम् ॥ ३४ ॥

हारान्तरं तु द्वात्रिंशत् कल्प्यं रुद्रतलेऽपि च ।
भानुभूमिविशालं तु भानुभागविभाजिते ॥ ३५ ॥

पंजरं कूटकोष्ठं च संख्या रुद्रतलोक्तवत् ।
सर्वेषामपि कोष्ठानां पंचांशं प्रविधीयते ॥ ३६ ॥

त्रयोदशतलव्यासं दशभागविभाजिते ।
कर्णकूटं शिवांशेन मध्ये शाला द्विभागया ॥ ३७ ॥

तयोमध्यैकभागेन शालाकारं प्रकल्पयेत् ।
तयोर्मध्ये विभागेन पंजरं कर्णकूटवत् ॥ ३८ ॥

हारान्तरस्य तस्यार्धं संख्या द्वादशभूमिवत् ।
चतुर्दशतलव्यासं वसुभागविभाजिते ॥ ३९ ॥

कर्णकूटं शिवांशेन मध्ये शाला द्विभागया ।
अर्धांशं पंजरव्यासं तस्यार्धं हारयोन्तरम् ॥ ४० ॥

चतुष्कूटं चतुश्शाला पंजरं षोडशान्वितम् ।
हारान्तरं चतुर्विंशत् कल्प्यमेवमनुक्रमात् ॥ ४१ ॥

त्रिपंचभूमिविस्तारं षड्भागं विभजेत्समम् ।
कर्णकूटं तु व्योमांशं मध्येशाला द्विभागया ॥ ४२ ॥

हारान्तरं तु शश्यंशं युगपंजरसंयुतम् ।
अशेषोर्ध्वतलं व्यासं वेदभागविभाजिते ॥ ४३ ॥

द्विभागं विस्तृतं दण्डमाननीव्रं तु मध्यमे ।
कृत्वा प्रासादतुंगं तु द्विभागेन शतद्वयम् ॥ ४४ ॥

धरातलं तु सप्तांशं चरणोच्चं त्रयोदश ।
सार्धषट्कं तु मंचोच्चं पादोच्चं भानुसंख्यया ॥ ४५ ॥

प्रस्तरोच्चं तु षड्भागं रुद्रांशं चरणोदयम् ।
सार्धभूतांशमंचं स्यात् दशांशं चरणोदयम् ॥ ४६ ॥

सार्धवेदांश मंचोच्चं कल्पयेत्कल्पवित्तमः ।
पादोच्चं सार्धवस्वंशं मंचमानं युगांशकम् ॥ ४७ ॥

वस्वंशं चरणोच्चं तु मंचं पादोनकं युगम् ।
चरणं सार्धसप्तांशं प्रस्तरं सार्धत्रिभागिकम् ॥ ४८ ॥

सप्तांशं पाददीर्घं वा पादाधिकाग्निमंचकम् ।
अर्धाधिकषडंशं तु पादोच्चमग्निमंचकम् ॥ ४९ ॥

षडंशं पादमानं तु पादोन त्र्यंशमंचकम् ।
अर्धाधिकं तु भूतांशं पाददीर्घमुदाहृतम् ॥ ५० ॥

अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ।
सपादं पंचभागं तु पाददीर्घमुदाहृतम् ॥ ५१ ॥

सार्धपक्षांश मंचोच्चं भूतांशं चरणोदयम् ।
सपादं पक्षभागं तु मंचदीर्घमुदीरितम् ॥ ५२ ॥

पादोन पक्षभागं तु चरणोदयमीरितम् ।
मंचमानं द्विभागं स्यात् सार्धवेदांशमंघ्रिकम् ॥ ५३ ॥

स त्रिपादशिवांशं तु प्रस्तरस्य समुच्छ्रयम् ।
शश्यंशं वेदिकामानं कण्ठोच्चं तु द्विभागया ॥ ५४ ॥

अर्धाधिक युगांशं तु शिखरोदयमीरितम् ।
सपादांशं शिखामानं कल्पयेत्तु क्रमेण तु ॥ ५५ ॥

होमादिस्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ।
शिखरे तु चतुर्दिक्षु महानासी समन्वितम् ॥ ५६ ॥

पादं प्रत्यल्पनास्याढ्यं ब्रह्मकान्तमुदाहृतम् ।
तदेव सान्तरं मंचं सौष्टिकं नत कोष्ठकम् ॥ ५७ ॥

सारस्वतमिदं ख्यातं शिवप्रियकरं गृहम् ।
तदेव नतकूटं च कोष्ठोन्नत स मंचकाः ॥ ५८ ॥

प्रादेशमिति विख्यातं सर्वेषामृद्धिकारणम् ।
तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् ॥ ५९ ॥

शिखरेऽष्टमहानासी युक्तं तच्छ्रीकरं भवेत् ।
तदेव मध्यभद्राढ्यं कूटकोष्ठसमन्वितम् ॥ ६० ॥

समंचो वा विमंचो वा कूटशाला द्विजोत्तम ! ।
पार्वतीकमिदं ख्यातं उपप्रतिकरं भवेत् ॥ ६१ ॥

तदेव शिखरं कण्ठं वृत्तं वाष्टाश्रवेदिका ।
वेदिकोर्ध्वे तयावैव वृत्ताकार समन्वितम् ॥ ६२ ॥

सुशांभवमिदं ख्यातं शंकरस्य प्रियं हितम् ।
पंजरं कूटकोष्ठं च शिखरं च घटं तथा ॥ ६३ ॥

एवमादीनि सर्वाणि नागराद्युचितं कुरु ।
अनेनैवाथवा कुर्यात् एकाद्यानेकभूमिकम् ॥ ६४ ॥

  • * थ तलं ह्येष कर्तव्यं तस्यादिमंचकम् ।

तत्तद्युचितविस्तारं तुंगकुड्यं च गर्भकम् ॥ ६५ ॥

कर्तव्यं विधिनानेन गं च लंकारसंयुतम् ।
सालिन्दसदनानां तु सोपानारोहणं यथा ॥ ६६ ॥

तत्र तत्रोचितं कुर्यात् शिलाभिर्वेष्टकाद्रुमैः ।
तस्याग्रं मण्डलं कुर्यात् एकानेकतलं तु वा ॥ ६७ ॥

प्रागुक्त विधिना कुर्यात् सर्वालंकारसंयुतम् ।
करालमुद्गीगुल्माष कल्कचिक्कणकर्मवान् ॥ ६८ ।

नानावर्णैर्विचित्रं तु कर्तव्यं विधि चोदितम् ।
एवं यः कुरुते हर्म्यं अशक्यापेक्षितं तु वा ॥ ६९ ॥

इहैव धनवान् श्रीमान् पुत्रपौत्रकलत्रवान् ।
दासीदासादिभिश्चान्यै स्वच्छावशमुदा स्वभिः ॥ ७० ॥

सोऽन्ते कुलैकविंशच्च धावयेत्तु मुदानुमम् ।

इत्यंशुमान्काश्यपे षोडशभूमिविधिपटलः (चत्वारिंशः) ॥ ४० ॥