प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ४० अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४२ →


अथ वक्ष्ये विशेषेण मूध्नेष्टकाविधिं परम् ।
शिखरस्योदयोर्ध्वे वा महानास्यावसानके ॥ १ ॥

शक्तिध्वजावसाने वा मूध्नेष्टकां तु विन्यसेत् ।
तद्धिद्यावसमाप्ते तु तदा मूध्नेष्टकां न्यसेत् ॥ २ ॥

मासपक्षर्क्षवारादौ सुलग्ने च समाचरेत् ।
शिलाभिस्तु शिलाहर्म्ये त्विष्टकेष्टकया तदा ॥ ३ ॥

दारुभिर्दारुहर्म्ये तु कर्तव्या शुभमिच्छता ।
मिश्रद्रव्यकृते हर्म्ये यद्द्रव्येण कृतं शिरः ॥ ४ ॥

तद्द्रव्येण प्रकर्तव्या मूर्ध्नेष्टका द्विजोत्तम ! ।
एकाद्यनेकभूमीनां हर्म्याणां तु विशेषतः ॥ ५ ॥

इष्टकाव्यासमायामं घनं चाद्येष्टकामिव ।
प्रकुर्यादिष्टकां विप्र ततःस्थापनमारभेत् ॥ ६ ॥

प्रासादस्याग्रतस्त्वीशे सौम्ये वा हर्म्यगोचरे ।
नवाष्टसप्तषट्पंचहस्तं वा मण्टपं स्ततम् ॥ ७ ॥

तद्विस्तारसमायामं चतुरश्रसमं गुरुः ।
मण्टपं वा प्रपां वाथ षोडशस्तम्भसंयुतम् ॥ ८ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
तरंघ्रमंघ्रिवेष्टं च वितानध्वजसंयुतम् ॥ ९ ॥

मुक्तास्रग्दर्भमालाभिः अलंकृत्य विशेषतः ।
मण्टपस्य त्रिभागैक मध्ये कृत्वोपवेदिकाम् ॥ १० ॥

वेदांगुलान्ते तं वेशं उपदे च युगाश्रकम् ।
शेषं वेदि विशालं तु भानुमात्रसमन्वितम् ॥ ११ ॥

भनुद्वयांगुलं चोच्चं दर्पणोदरसंनिभम् ।
महाशास्वग्निकुण्डानि चतुरश्राणि कल्पयेत् ॥ १२ ॥

अथवा वालुकैः स्थूलैः स्थण्डिलं परिकल्पयेत् ।
गोमयालेपनं कृत्वा शिल्पिनं तु विसर्जयेत् ॥ १३ ॥

ब्राह्मणान्भोजयेत्तत्र ततोच्छिष्टं विसर्जयेत् ।
पुनश्च गोमयैर्लिप्य पुण्याहं वाचयेत्तदा ॥ १४ ॥

स्थण्डिलं कारयेद्धीमान् अष्टद्रोणैश्च शालिभिः ।
तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि ॥ १५ ॥

लाजैश्चैव परिस्तीर्य श्वेताब्जं परिकल्पयेत् ।
नानापुष्पैः कुशैर्दर्भैः परिस्तीर्य विचक्षणः ॥ १६ ॥

मनोन्मनीं कर्णिकायां वामादीश्च दलेष्वपि ।
गन्धपुष्पादिभिः पूज्य स्वस्वमन्त्रैर्विशेषतः ॥ १७ ॥

लोहजं दारुजं वाथ स्थूपिदण्डं तु कारयेत् ।
पनसं खदिरं सालं तिंत्रिणीसारमेव वा ॥ १८ ॥

मधूकं स्तवकं चैव षडेते सारदारवः ।
हेमजं रजतं ताम्रं अयसा मिश्रमेव वा ॥ १९ ॥

ऊर्ध्वभूम्यंघ्रितुंगं तु स्थूपिदण्डायतं भवेत् ।
मूर्ध्नि शैलोपरिष्टात्तु स्थूप्यन्तं वा तदायतम् ॥ २० ॥

ऊर्ध्वभूम्यंघ्रिविस्तारं स्थूपिदारु विशालकम् ।
तस्याग्रमंगुलं व्यासं मूलादग्रं क्रमात्कृशम् ॥ २१ ॥

तुंगे गुणांशे त्वेशं तु मूले वेदाश्रमाचरेत् ।
वस्वंशं मध्यमे त्वग्रे वृत्ताकारं प्रकल्पयेत् ॥ २२ ॥

चतुरश्रो परिष्टात्तु सर्वं वृत्तमथापि वा ।
कर्तव्यं तस्य मूले तु शिखिपादं सुयोजयेत् ॥ २३ ॥

दण्डमूलसमं व्यासं त्रिगुणं त्रिगुणायतम् ।
तद्व्यासार्ध घनोपेतं पूर्वाग्रं चोत्तराग्रकम् ॥ २४ ॥

बध्वान्तर्मध्यमे च्छिद्रे दण्डमूलं सुयोजयेत् ।
दण्डमूल त्रिभागैकं शिखाव्यासं समाश्रयम् ॥ २५ ॥

शिखिपादघनं तस्य दीर्घायां योजयेद्दृढम् ।
दण्डमूलाग्रयोः पट्टं योजयेल्लोहजं बुधः ॥ २६ ॥

प्रक्षाल्य पंचगव्येन दण्डं चैवेष्टकामपि ।
कर्णिकायां न्यसेद्दण्डं शक्रादिषु यथाक्रमम् ॥ २७ ॥

चत्वारस्त्वेष्टकाः स्थाप्य शालिपिष्टमयैर्जलैः ।
पृथिव्यादीनि बीजानि दण्डान्ते विलिखेद्बुधः ॥ २८ ॥

प्राग्दिशीष्टकमारभ्य दण्डं पुष्पादिभिर्यजेत् ।
सुवर्णरजतैस्ताम्रैः सूत्रैः कार्पासजैस्तु वा ॥ २९ ॥

कौतुकं बन्धयेद्विद्वान् स्वस्वबीजमुदाहरन् ।
ब्रह्मविष्णू च रुद्रं च ईशानं च सदाशिवम् ॥ ३० ॥

शक्रेष्टकादि दण्डान्तं अधिदेवान्क्रमाद्यजेत् ।
नैवेद्यं दापयेत्तेषां ताम्बुलं तु निवेदयेत् ॥ ३१ ॥

प्रत्येकं चैव वस्त्रेण च्छादयेत्कूर्चसंयुतम् ।
अभितः कलशानष्टौ स कूर्चान्सापिधानकान् ॥ ३२ ॥

गन्धाम्बुपूरितान्वस्त्रहेमपुष्पसमन्वितान् ।
स सूत्रान्पल्लवोपेतान् अष्टविद्येश्वराधिपान् ॥ ३३ ॥

स्थाप्य स्वमूलमंत्रेण नैवेद्यान्तं समर्चयेत् ।
ततो होमं प्रकर्तव्यं अग्न्याधानादिकं कुरु ॥ ३४ ॥

समिदाज्य चरुं लाजान् यवं सव्यादिभिर्बुधः ।
शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ ३५ ॥

पंचब्रह्मषडंगैश्च क्षुरिका बीजमुच्चरन् ।
आज्येन जुहुयाद्धीमान् प्रत्येकं पंचविंशतिः ॥ ३६ ॥

जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् ।
ब्रह्मादिबीजमन्त्रैस्तु पृथक् स्पृष्ट्वा दशाहुतिः ॥ ३७ ॥

एवं जागरणं रात्रौ प्रभाते विमले शुभे ।
आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विधानतः ॥ ३८ ॥

नववस्त्रधरोष्णीषो भस्मरुद्राक्षधारकः ।
सितयज्ञोपवीताढ्यः सितमाल्यानुलेपनः ॥ ३९ ॥

हेमांगुलीयकटक कुण्डलाद्यैरलंकृतः ।
यज्ञसूत्रेण सहितभूषणैर्भूष्य शिल्पिनम् ॥ ४० ॥

आचार्यो मण्टपं गत्वा दण्डेष्टक घानलान् ।
गन्धपुष्पादिभिर्यष्ट्वा होमं कृत्वा जयादिभिः ॥ ४१ ॥

स्विष्टमग्नेति मन्त्रेण पूर्णाहुतिं समाचरेत् ।
स्थिरराश्युदये विप्रोभयराश्युदयेऽपि वा ॥ ४२ ॥

जीवो वा शुक्रसंयुक्तो तयोर्दृष्टेन वाऽथ वा ।
आचार्यः शिल्पिभिश्चैव योग्यतोश्मगृहोपरि ॥ ४३ ॥

वीक्ष्य मूध्नेष्टकास्थानं हीनाधिक्यं तु नाश्रिते ।
मार्जन्या मण्डयित्वा तु पंचगव्यकुशोदकैः ॥ ४४ ॥

प्रोक्षयेच्छिवमन्त्रेण ततः स्थापनमारभेत् ।
स्थपतेस्तर्जनीवेशमात्रैव शिखरे सुषिम् ॥ ४५ ॥

कर्तव्यं तु ततो विप्र मूध्नेष्टकां निधापयेत् ।
इष्टकाः स्थूपिकुंभांश्च वह्निधामप्रदक्षिणम् ॥ ४६ ॥

नानालंकारसंयुक्तं कृत्वा हर्म्ये तु रोपयेत् ।
उत्तराभिमुखो भूत्वा त्वाचार्यो मन्त्रवित्ततः ॥ ४७ ॥

ब्रह्मविष्णू च रुद्रं च ईशानं च सदाशिवम् ।
विचिन्त्य स्वस्वमंत्रेण चतुरश्रेष्टका न्यसेत् ॥ ४८ ॥

पृथिव्यात्मकमश्मानं सौम्याग्रं शांकरे सुधीः ।
सुषेस्वांगेयमाश्रित्य प्रागुदग्रंसु सात्मकम् ॥ ४९ ॥

सुषे नैर्-ऋत्यसोमाग्रं * * * * शलात्मकम् ।
सुषे वायुं समाश्रित्य प्रागुदग्रं मरुतात्मकम् ॥ ५० ॥

एवं क्रमान्न्यसेदश्म सुषिं निश्च्छिद्रमाचरेत् ।
माणिक्यं मरकतं चैव वैडूर्यं चेन्द्रनीलकम् ॥ ५१ ॥

मौक्तिकं स्फटिकं चैव पद्मरागं प्रवालकम् ।
वज्रं मध्यादिषु स्थाप्य शक्तिबीजमनुस्मरन् ॥ ५२ ॥

तदूर्ध्वे स्थापयेत्स्थूपि दण्डमीशानमाश्रितम् ।
कलशस्थोदकैः प्रोक्ष्य दण्डमश्मानमेव च ॥ ५३ ॥

गर्ते मूर्तिं समभ्यर्च्य गन्धैः पुष्पैश्च धूपकैः ।
गुलांभसा च सुधया स्थूपिं बध्वा तु निश्चलम् ॥ ५४ ॥

ततो (पंच च) शेषं तु कर्तव्यं स्योदितं यथा ।
शिखरस्थोपरिष्टात्तु स्थूपिं प्रागुक्तवर्त्मना ॥ ५५ ॥

कसलाद्यैस्ततं कुर्यात् निश्चलं सुदृढं यथा ।
स्वर्णैश्च रजतैर्वाथ ताम्रैश्च छादयेद्गृहम् ॥ ५६ ॥

कांचनालं कृतं धेनुं आचार्याय प्रदापयेत् ।
दक्षिणां दापयेत्तस्मै दशनिष्कं हिरण्यकम् ॥ ५७ ॥

यागोपकरणं सर्वं आचार्याय प्रदापयेत् ।
शिल्पिनं पूजयेत्पश्चात् गोभूमीकांचनादिभिः ॥ ५८ ॥

एवं यः कुरुते मर्त्यः स यात्यभ्युदयं फलम् ।

इत्यंशुमान्काश्यपे मूध्नेष्टकाविधिपटलः (एकचत्वारिंशः) ॥ ४१ ॥