← सूक्तं १२.०७ अथर्ववेदः - काण्डं १२
सूक्तं १२.८
(कश्यपः?) अथर्वाचार्यः
सूक्तं १२.०९ →
दे. ब्रह्मगवी। (सप्त पर्यायाः)

वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥
देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥
पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥
विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥
अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥
मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥
असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥
अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥
शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥
अवर्तिरश्यमाना निर्ऋतिरशिता ॥३७॥
अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७}