← सूक्तं १२.०८ अथर्ववेदः - काण्डं १२
सूक्तं १२.९
(कश्यपः?) अथर्वाचार्यः
सूक्तं १२.१० →
दे. ब्रह्मगवी। (सप्त पर्यायाः)

तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥
अस्वगता परिह्णुता ॥४०॥
अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥
सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥
छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥
विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥
अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८}