← सूक्तं १५.०९ अथर्ववेदः - काण्डं १५
सूक्तं १५.१०
अथर्वा
सूक्तं १५.११ →
दे. अध्यात्मम्, व्रात्यः। १ द्विपदा साम्नी बृहती, - - - - -- -

तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगच्छेत्॥१॥
श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥
अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥
बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥
अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥
इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥
अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥
ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति ॥८॥
यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥
ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति ॥१०॥
य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥