← सूक्तं १५.१० | अथर्ववेदः - काण्डं १५ सूक्तं १५.११ अथर्वा |
सूक्तं १५.१२ → |
दे. अध्यात्मम्, व्रात्यः। १ देवी पङ्क्तिः, - - - - -- - |
तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगच्छेत्॥१॥
स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥२॥
यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥३॥
यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥४॥
यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥५॥
यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥६॥
ऐनं प्रियं गच्छति प्रियः प्रियस्य भवति य एवं वेद ॥७॥
यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥८॥
ऐनं वशो गच्छति वशी वशिनां भवति य एवं वेद ॥९॥
यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥१०॥
ऐनं निकामो गच्छति निकामे निकामस्य भवति य एवं वेद ॥११॥