← सूक्तं १५.१४ अथर्ववेदः - काण्डं १५
सूक्तं १५.१५
अथर्वा
सूक्तं १५.१६ →
दे. अध्यात्मम्, व्रात्यः। १ दैवी पङ्क्तिः, - - - - -- -

तस्य व्रात्यस्य ॥१॥
सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥
योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥
योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥४॥
योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥५॥
योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥६॥
योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥७॥
योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥
योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥९॥

सम्पाद्यताम्