अथर्ववेदः - काण्डं १
सूक्तं १.१
अथर्वा
सूक्तं १.०२ →
दे. वाचस्पतिः। अनुष्टुप्, ४ चतुष्पदा विराडुरोबृहती।

ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥
पुनरेहि वचस्पते देवेन मनसा सह ।
वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥
इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम् ॥३॥
उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।
सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥


सायणभाष्यम्

अथ प्रथमं काण्डम्

शाखायाः शौनकीयायाः पूर्वोक्तेष्वेव कर्मसु ।

विनियोगाभिधानेन संहितार्थः प्रकाश्यते ॥

तत्र प्रथमकाण्डे षड् अनुवाकाः, प्रथमेऽनुवाके षट् सूक्तानि, तत्र 'ये त्रिषप्ताः' इत्येतत् प्रथमं सूक्तम् । अस्य मेधाजननकर्मसु विनियोगः। यद् आह कौशिकः –'पूर्वस्य मेधाजननानि' (कौसू १०,१) अत्र पूर्वशब्देन 'ये त्रिषप्ताः' इति सूक्तम् उच्यते , 'पूर्वं त्रिषप्तीयम्' (कौसू ७,८) इति परिभाषणात् । तानि च मेधाजननकर्माणि--उदुम्बरपलाशकर्कन्धूसमिदाधानम्, व्रीहियवतिलानाम् आवपनम् , क्षीरौदनपुरोडाशरसानां भक्षणम् , उपाध्यायाय भैक्षदानम् , सुप्तस्योपाध्यायस्य कर्णानुमन्त्रणम् , उपाध्यायोपसदनकाले जपः, आज्यमिश्रधानाहोमः , तिलमिश्रधाना हुत्वा तच्छेषभक्षणम् , उपाध्यायाय दण्डाजिनधानाः प्रदातुं धानानुमन्त्रणम् , तद्वदेव धानाहोमः शुकसारिभारद्वाजानां पक्षिणां जिह्वाबन्धनम् तत्प्राशनं च । एतानि कर्माणि अनेन सूक्तेन मेधाकामस्य कार्याणि । तथा च कौशिकं सूत्रम्--'शुकशारिकृशानां जिह्वा बध्नाति । आशयति। औदुम्बरपलाशकर्कन्धूनाम् आदधाति। आवपति । भक्षयति । उपाध्यायाय भैक्षं प्रयच्छति। सुप्तस्य कर्णम् अनुमन्त्रयते । उपसीदन् जपति। धानाः सपिर्मिश्राः सर्वहुताः। तिलमिश्रा हुत्वा प्राश्नाति। पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते। सूक्तस्य पारं गत्वा प्रयच्छति। सकृज्जुहोति। दण्डधानाजिनं ददाति' (कौसू १०,२-१५) इति। अस्य अयम् अर्थः--'आश्यबन्ध्याप्लवनयानभक्ष्याणि संपातवन्ति' (कौसू ७,१५) इति परिभाषणात् शुकादिजिह्वानां संपाताभिहुतानामेव बन्धनं प्राशनं च। 'संपातेन होमम् आक्षिपते' इत्यभ्यातानान्ते अनेन सूक्तेन आज्यं हुत्वा संपातानयनम् 'सर्वाण्यभिमन्त्र्याणि' (कौसू ७,१६) इति परिभाषणाद् अनेनैव सूक्तेन अभिमन्त्रणं च। कर्कन्धूर्बृहद्बदरी। 'समिधम् आदधाति' (कौसू ७,४) इति परिभाषणाद् उदुम्बरादीनां समिध इति योजनीयम् । हस्तहोमत्वात् तन्त्रविकल्पः । 'न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेतेत्येके' (कौसू १३८,१५) इति सूत्रात् । 'आवपति व्रीहियवतिलान्' (कौसू ७,५) इति परिभाषणाद् आवपतिचोदनायां व्रीहियवतिलाः प्रत्येतव्याः। 'सर्वाण्यभिमन्त्र्याणि' इति वचनाद् अत्र सर्वे पदार्था अभिमन्त्र्य कर्तव्याः। 'भक्षयति क्षीरौदनपुरोडाशरसान्' इति (कौसू ७,६) वचनाद् भक्षयतिचोदनायां द्रव्यानादेशे क्षीरौदनपुरोडाशरसा बोद्धव्याः। अत्र रसशब्देन दधिघृतमधूदकानि उच्यन्ते। यद् असूत्रयत्--दधि घृतं मधूदकमिति रसाः' (कौसू ८,१९) इति । क्षीरोदनादीनां भक्ष्यत्वात् होमसंपाताभिमन्त्रणानि पूर्ववत् कर्तव्यानि । 'आश्यबन्ध्याप्लवनयानभक्ष्याणि संपातवन्ति सर्वाण्यभिमन्त्र्याणि' इति वचनस्य दर्शितत्वात् , भैक्षं पक्वम् अपक्कं वा अभिमन्त्र्य दद्यात् । अनुमन्त्रणं नाम शेषिणो मन्त्रार्थत्वेन अनुसंधानपुरःसरं मन्त्रजपः। अभिमन्त्रणस्य तु ईक्षणं विशेषः । उक्तं हि--

'मन्त्रम् उच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत् ।

शेषिणं तन्मना भूत्वा स्याद् एतद् अनुमन्त्रणम् ।

एतदेवाभिमन्त्रस्य लक्षणं चेक्षणाधिकम् ॥' इति

धानानां सर्वहोमस्य हुतशेषप्राशनस्य च कर्मैक्ये विरोधात् प्रयोगभेदः । अन्यद् निगदसिद्धम् ।

एतानि कर्माणि अन्योन्यनैरपेक्ष्येण मेधाजननफलसाधनत्वेन चोदितत्वाद् विकल्पेन अनुष्ठेयानि । कर्मभूयस्त्वात् फलभूयस्त्वम् इति न्यायात् समुच्चयेन वा अनुष्ठेयानि । एवम् उत्तरत्रापि द्रष्टव्यम् ।

उपनयनदिवसेपि मेधाकामस्य ब्रह्मचारिणः अनेन सूक्तेन आज्यहोमः कार्यः । तथा च उपनयनप्रकरणे सूत्रितम्--'मेधाजननायुष्यैर्जुहुयाद्' (कौसू ५७,३१) इति । अत्र द्रव्यस्य अनादेशेपि आज्यं होमद्रव्यम् । 'आज्यं जुहोति' (कौसू ७,३) इति जुहोतिचोदनायाम् आज्यस्य द्रव्यत्वपरिभाषणात् । तथैव ब्रह्मचारिसंपत्कर्मसु अस्य सूक्तस्य विनियोगः । सूत्रितं हि--'पूर्वस्य ब्रह्मचारिसांपदानि' (कौसू ११,१) इति। तानि च कर्माणि उदुम्बरपलाशकर्कन्धूसमिधां ब्रह्मचारिगृहोपस्तरणतृणानां च आधानम् । अरण्यपिपीलिकाछिद्रे मेदोमधुश्यामाकेषीकतूलाज्यानि पञ्च द्रव्याणि पृथक् हुत्वा आज्यस्थाल्यां पिपीलिकोद्वापान ओप्य गृहम् आगत्य अभ्यातानान्ते अनेन सूक्तेन स्थाल्या सकृत् जुहुयात् । अनेन सूक्तेन अन्नम् अभिमन्त्र्य ब्रह्मचारिणो भोजयित्वा धानास्तिलमिश्राः प्रयच्छति । एतैः कर्मभिरनुष्ठितैराचार्यस्य शिष्यसंपत्तिर्भवति । तथा च कौशिकः--'औदुम्बर्यादयः। ब्रह्मचार्यावसथादुपस्तरणान्यादधाति' (कौसू ११,२ ;३) इत्यादि।

तथा ग्रामसंपत्कामस्य तत्साधनेष्वेतेषु उदुम्बरपलाशकर्कन्धूतक्षणाधानसभोपस्तरणतृणाधानाभिमन्त्रितान्नासवप्रदानेषु कर्मसु अस्य सूक्तस्य विनियोगः। तथा च सूत्रम्--'ग्रामसांपदानि । विकारस्थूणामूलावतक्षणानि सभानाम् उपस्तरणानि । ग्रामीणेभ्योन्नम् । सुरां सुरापेभ्यः' (कौसू ११,७-१०) इति । अत्र यद्यपि सूक्तविशेषो न श्रूयते तथापि 'ग्रहणम् आ ग्रहणात्' ( कौसू ८. २१ ) इति परिभाषणात् 'पूर्वस्य' इत्येतदेव त्रिषप्तीयं संबध्यते।

तथा सर्वसंपत्कर्मस्वपि अस्य सूक्तस्य विनियोगः। तथाहि, उदुम्बरपलाशकर्कन्धूसमिदाधानम् , व्रीहियवतिलानाम् आवपनम् , क्षीरोदनपुरोडाशरसानां भक्षणं च इत्येतानि मेधाजननोक्तानि अहनि कालत्रये अग्निप्रज्वालनं तदुपस्थानं च सव्यात् पाणिमध्याद् रुधिरस्य दधिघृतमधूदकमिश्रितस्य संपाताभिमन्त्रितस्य प्राशनम् पृश्निमन्थप्राशनं च इत्येतानि कर्माणि अनेनैव सूक्तेन सर्वसंपत्कामः कुर्यात् । आह च कौशिकः--'औदुम्बर्यादीनि । भक्षणान्तानि [सर्वसांपदानि । त्रिर्ज्योतिष्कुरुते । उपतिष्ठते । सव्यात् पाणिहृदयाल्लोहितं रसमिश्रमश्नाति । पृश्निमन्थः । जिह्वाया उत्साद्यमक्ष्योः । परिस्तरणमस्तृहणं हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति । चूर्णानि करोति । मैश्रधान्ये मन्थ ओप्य दधि मधुमिश्रमश्नाति' (कौसू ११,११-१८) इति ।। [तथा वर्चस्यकर्मणि अनेन सूक्तेन वर्चस्कामः औदुम्बर्यादीनि त्रीणि कुर्यात् । तथा च] वर्चस्कामायाः कुमार्या दक्षिणोरोरभिमन्त्रणम् , क्रीतवपाहोमः, अग्न्युपस्थानम् इत्येतानि कर्माणि अनेन सूक्तेन तेजस्कामोनुतिष्ठेत् । 'पूर्वस्य ममाग्ने वर्च इति वर्चस्यानि' ( कौसू १२, १० ) इत्यादि सूत्रम् ।

तथा शत्रुहस्तित्रासनकर्माण्यपि अनेनैव संग्रामजयकामो राजा कारयेत् । तानि च--संपातोपेतरथचक्रस्य शत्रुहस्त्यभिमुखं प्रवर्तनम् , ‘यानभक्ष्याणि संपातवन्ति' ( कौसू ७,१५) इति परिभाषणात् संपाताभिहुतानां स्वकीयहस्त्यश्वादियानानां शत्रुगजाभिमुखप्रेरणम् , पटहभेर्यादिवादित्राणाम् अभिमन्त्र्य ताडनम् , दृतौ शर्कराः प्रक्षिप्य अभिमन्त्र्य तद्युक्तपुरुषप्रस्थापनम् , तथैव चर्मपुटयन्त्रेण शर्कराप्रक्षेपः, अभिमन्त्रितवालुकाप्रक्षेपणं च इत्येतानि । अत्र सूत्रम्--'पूर्वस्य हस्तित्रासनानि । रथचक्रेण संपातवता प्रतिप्रवर्तयति' ( कौसू १४,१,२ ) इत्यादि।

तथा पञ्च निर्ऋतिकर्माणि शान्तिकपौष्टिकेषु सर्वत्र अङ्गत्वेन वा पापक्षयार्थं स्वातन्त्र्येण वा कर्तव्यत्वेन सूत्रकारेणोक्तानि । तत्र आद्ययोः संपातिताभिमन्त्रितभक्तप्राशने आज्यहोमे च एतत् सूक्तं विनियुक्तम् । तथा च सूत्रम्--'पूर्वस्य पूर्वस्यां पौर्णमास्याम् अस्तमित उदकान्ते कृष्णचेलपरिहितो निर्ऋतिकर्माणि प्रयुङ्क्ते' ( कौसू १८,१) इत्यादि।

तथा पौष्टिकविशेषे चित्राकर्मणि संपातितसारूपवत्सौदनप्राशनपलाशादिसमिदाधानरूपे अस्य सूक्तस्य विनियोगः । सूत्रितं हि-–'पूर्वस्य चित्राकर्म । कुलायशृतं हरितबर्हिषम् अश्नाति' ( कौसू १८,१९; २० ) इत्यादि । तत्र 'अश्नात्यनादेशे स्थालीपाकः पुष्टिकर्मसु सारूपवत्सः' (कौसू ७,१;२) इति परिभाषितत्वात् सरूपवत्साया गोर्दुग्धे शृतः स्थालीपाकः । ओदन इति गम्यते।

तेजोव्रते च एतत् सूक्तं विनियुक्तम् । 'नाव्ययोः सांवैद्ये' ( कौसू १८,२२) इत्यादि सूत्रम्।

तथा 'पुष्टिकर्मणाम् उपधानोपस्थानम्' ( कौसू २४,४५ ) इति सूत्रात् पौष्टिकमन्त्राणाम् उपधानोपस्थानयोर्विनियोगविधानेन तन्मध्यपातिनोस्य सूक्तस्य तत्रापि विनियोगः। उपधानं नाम आज्यादित्रयोदशद्रव्यहोमः। 'उपदधात्यनादेशे आज्यं समित् पुरोडाशः पयः ओदनं पायसं पशुः व्रीहियवतिलधानाः करम्भः शष्कुल्यः एतानि त्रयोदश हवींषि जानीयाद्' इति पैठीनसिपरिभाषणात्।

द्विविधा व्याधयः । आहारनिमित्ता अन्यजन्मपापनिमित्ताश्चेति । तत्र आहारनिमित्तानां वैद्यशास्त्रोक्तचिकित्सया उपशमनम् । पापनिमित्तानां तु आथर्वणैर्होमबन्धनपायनादिभिर्भैषज्यकर्मभिरुपशमनम् । 'ओषधिवनस्पतीनाम् अनुक्तान्यप्रतिषिद्धानि भैषज्यानाम् । अंहोलिङ्गाभिः' (कौसू ३२,२६; २७) इति सूत्रकारेण ‘स नो मुञ्चत्वंहसः' (अ ४,२३) इति पापनिवृत्तिप्रतिपादनपराणां मन्त्राणां सर्वत्र भैषज्यकर्मणि विनियुक्तत्वात् । तत्र सर्वव्याधिषु अनेन सूक्तेन आज्यं हुत्वा उदपात्रं संपात्य अनेनैव व्याधितशरीरं संमार्जयेत् । तथा च कौशिकः--'अथ भैषज्यानि' इति प्रक्रम्य 'पूर्वस्योदपात्रेण संपातवतान्ते । वलीर्विमार्ष्टि' (कौसू २५,१-५) इति । भैषज्योक्तसूक्तैस्तत्रतत्र व्याधौ उपधानोपस्थानान्यपि कुर्याद् इति रुद्रभाष्यकारः। उपधानस्वरूपम् उक्तम् ।

तथा अनेनैव सूक्तेन पुत्रकामायाः स्त्रिया मृतापत्यायाश्च संपातितोदकावसेकम् पुरोडाशभक्षणम् कन्दुकक्रीडनम् अलंकारधारणं वा कारयेत् । 'पूर्वस्य पुत्रकामावतोकयोः' (कौसू ३२,२८) इत्यादि सूत्रम् ।

तथा उपाकर्मणि माणवकवाचने विनियुक्तम् । 'त्रिषप्तीयं च पच्छो वाचयेत्' (कौसू १३९,१०) इति हि सूत्रितम् ।

तथा राज्ञः पुष्पाभिषेके 'ये त्रिषप्ताः' इत्यृचा शाखादिभूतया पयोहोमः कार्यः । तथा च परिशिष्टे पुष्पाभिषेकं प्रक्रम्य उच्यते--

'सप्तरात्रं घृताशी वा ततो होमं प्रयोजयेत् ।

गव्येन पयसा कुर्यात् सौवर्णेन स्रुवेण तु ।

वेदानाम् आदिमैर्मन्त्रैर्महाव्याहृतिपूर्वकैः' (अप ५,३,३; ४) इति ।

तद् एवम् आथर्वणमन्त्राणां सिद्धमन्त्रत्वेन अपरिमितवीर्यत्वप्रदर्शनार्थम् आदिमसूक्तस्य विस्तरतः सर्वेषु कर्मसु उपलक्षणत्वेन सूत्रकृता विनियोगोभ्यधायि । ततः सर्वेषां मन्त्राणाम् अभिलषितसर्वफलसाधनत्वं प्रत्येतव्यम् । ननु मन्त्राणाम् अनुष्ठेयार्थप्रकाशकत्वस्य तदर्थशास्त्रात्' (मीसू १,२,३१) इत्यधिकरणेन स्थापितत्वात् 'तत्तल्लिङ्गानुसारेण विनियोगो वक्तव्यः । इतरथा अग्निना सिञ्चेदितिवत् असमर्थविधानं प्रसज्येत । नायं दोषः । ऐन्द्र्या गार्हपत्यम् उपतिष्ठते इतिवद् बलीयस्या श्रुत्या लिङ्गं बाधित्वा गुणकल्पनयापि विनियोगसंभवात् । तत्र हि ऐन्द्रमन्त्रे इन्द्रशब्दस्य गौणीं वृत्तिम् आश्रित्य गार्हपत्योपस्थाने विनियोगः कृतः। एवम् अत्रापि गोपथब्राह्मणश्रुत्या उदीरितनिखिलकर्मसु विनियोगः कृत इति तत्तत्कर्मानुसारेण मन्त्रलिङ्गानां गौण्यादिवृत्त्याश्रयेण विनियोज्यार्थपरता बोद्धव्या।


ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।

वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥

ये। त्रिऽसप्ताः । परिऽयन्ति । विश्वा । रूपाणि । बिभ्रतः ।

वाचः । पतिः । बला । तेषाम् । तन्वः । अद्य । दधातु । मे ॥ १॥

यच्छब्दोत्र प्रसिद्धार्थवाची । 'सर्वनाम प्रसिद्धार्थं प्रसाध्यार्थविघातकृत्' इति न्यायात् ये लोकवेदप्रसिद्धाः त्रिसप्ताः । त्रयो वा सप्त वा भावाः। 'संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये' (पा २,२,२५) इति अन्यपदार्थे बहुव्रीहिः । अन्यपदार्थश्च अत्र वार्थः । स च विकल्पः संशयो वा संभवति । अत्र तु विकल्प एव विवक्षितः । 'बहुव्रीहौ संख्येये डजबहुगणात्' (पा ५,४,७३) इति डच् समासान्तः । तस्य सतिशिष्टत्वात् 'सति शिष्टस्वरो बलीयान्' (पावा ६,१,१५८) इति न्यायेन बहुव्रीहिस्वरं बाधित्वा 'चितः' (पा ६,१,१६३) इति अन्तोदात्तत्वम् । तद् अयम् अर्थः-- पृथिव्यादयस्त्रयः तेषाम् लोकाः। अधिष्ठातारः अग्निवाय्वादित्याः। सत्त्वरजस्तमोगुणाः ब्रह्मविष्णुमहेश्वराः इत्येवमाद्यास्त्रिसंख्याक्रान्ता ये सन्ति ते सर्वे अत्र त्रिशब्देन विवक्षिताः । तथा सप्त ऋषयः। सप्त ग्रहाः। सप्त. मरुद्गणाः। सत लोकाः । सप्त च्छन्दांसि इत्याद्या ये सप्तसंख्याक्रान्ताः सन्ति ते सर्वे अत्र सप्तशब्देन अभिमताः। त्रिसंख्याक्रान्ताः सप्तसंख्याक्रान्ता वा इति यावत् ।

यद्वा--त्रिः सप्त त्रिसप्ताः। पूर्ववद् बहुव्रीहिः । अत्र सुजर्थः अन्यपदार्थः । स च क्रियाभ्यावृत्त्यात्मकः । त्रिरावृत्तसप्तसंख्यायुक्ता इत्यर्थः । अत्र समासेनैव सुजर्थस्य अभिहितत्वात् संख्यावाचिनस्त्रिशब्दस्यैव समासः न तु सुजन्तस्य इति सुचः श्रवणाभावः । तद् उक्तं वार्तिककृता-- 'सुजभावोभिहितार्थत्वात् समासे' (पावा २,२,२५) इति । ते चैवं द्रष्टव्याः प्रसिद्धसूर्याधिष्ठितप्राचीदिग्व्यतिरिक्ता आरोगादिभिः सप्तभिः सूर्यैरधिष्ठिताः सप्त दिशः। ते च आरोगादयस्तैत्तिरीयैराम्नायन्ते-–'आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषीमान् विभासः' ( तैआ १,७,१) इति । होतृप्रभृतयो वषट्कर्तारः सप्त ऋत्विजः। 'मित्रश्च वरुणश्च । धाता चार्यमा च । अंशश्च भगश्च । इन्द्रश्च विवस्वांश्चेत्येते' ( तैआ १,१३,३) इति श्रुत्यन्तरप्रसिद्धा विवस्वद्व्यतिरिक्ताः सप्त आदित्या इति। तथा च मन्त्रवर्णः--'सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त' ( ऋ ९,११४,३ ) इति । यद्वा सप्त सिन्धवः सप्त लोकाः सप्त दिशः इत्येवं त्रिसप्ताः। श्रूयते हि--'यः सप्त सिन्धून् अदधात् पृथिव्याम् । यः सप्त लोकान् अकृणोद् दिशश्च' (तैब्रा २,८,३,८ ) इति । सप्त ग्रहाः सप्त ऋषयः सप्त मरुद्गणा इति वा त्रिसप्ताः । अथ वा त्रिगुणिता सप्तसंख्या येष्विति बहुव्रीहिः। एकविंशतिसंख्याका इत्यर्थः। ते च 'द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः' (तै ७,३,१०,५) इति प्रसिद्धाः परिगृह्यन्ते।

यद्वा शरीरारम्भकाणि पञ्च महाभूतानि पञ्च प्राणाः पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि अन्तःकरणं चेति । एवम् एकविंशतिसंख्याकाः प्रत्येतव्याः।।

एवम् उक्तलक्षणास्त्रिसप्तसंख्या ये देवाः परियन्ति प्रतिदिनं प्रतिवत्सरं प्रतिकल्पं प्रतिशरीरं यथोचितं पर्यावर्तन्ते। परिपूर्वाद् इण् गतौ इत्यस्माल्लटि अदादित्वात् शपो लुक् । 'इणो यण्' ( पा ६,४,८१ ) इति यणादेशः । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः। उदात्तवता तिङा गतेः समासवचनम् इति परिशब्दस्य तिङन्तेन समासः। 'तिङि चोदात्तवति' (पा ८,१,७१) इति गतेरनुदात्तत्वम् । किं कुर्वाणाः विश्वा विश्वानि सर्वाणि रूपाणि प्रतिनियताकारान् जगदनुग्रहार्थं बिभ्रतः धारयन्तः । यद्वा रूप्यन्त इति रूपाणि चेतनाचेतनात्मकानि वस्तूनि बिभ्रतः अभिमतफलप्रदानेन पोषयन्तः। विश्वेति 'शेश्छन्दसि बहुलम्' (पा ६,१,७० ) इति शेर्लोपे प्रत्ययलक्षणेन नुमि उपधादीर्घत्वे 'नलोपः प्रातिपदिकान्तस्य' (पा ८,२,७ ) इति नलोपः। विश्वशब्दः 'अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्' (पाउ १,१५१) इति क्वन्प्रत्ययान्तत्वात् 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इत्याद्युदात्तः बिभ्रतः इति डुभृञ् धारणपोषणयोः इत्यस्माल्लटः शत्रादेशः । शपः श्लुः । 'भृञामित्' (पा ७,४,७६) इत्यभ्यासस्य इत्त्वम् । 'उगिदचां सर्वनामस्थानेऽधातोः' (पा ७,१,७० ) इति प्राप्तस्य नुमो 'नाभ्यस्ताच्छतुः' (पा ७,१,७८) इति प्रतिषेधः। प्रत्ययस्वरेण शतुरुदात्तत्वे प्राप्ते 'अभ्यस्तानामादिः' (पा ६,१,१८९) इति अभ्यस्तस्य आद्युदात्तत्वम् । वाचस्पतिः वाचः वेदात्मिकायाः पतिः पालकः स्वामी । निसर्गसिद्धत्वेन नित्यानामपि वेदानां प्रथमतस्तन्मुखाद् अभिव्यक्तेस्तस्य स्वामित्वव्यपदेशः। यदद्वयमपि परस्परसापेक्षतया एकार्थतावृत्तित्वान्निरूढत्वाच्च ब्रह्मणः संज्ञा । 'सावेकाच' (पा ६,१,१६८ ) इति वाच उत्तरस्या विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्र” (पा ८,३,५३) इति विसर्जनीयस्य सत्वम् । तेषां प्रागुदीरितानां त्रिसप्तानां देवानां बला बलानि। पूर्ववत् 'शेश्छन्दसि बहुलम्' (पा ६,१,७०) इति शेर्लोपः। तत्तदसाधारणसामर्थ्यानि श्रुतधारणादीनि मे मम मेधादिफलार्थिनः । 'तेमयावेकवचनस्य' (पा ८,१,२२) इति अस्मच्छब्दस्य षष्ठ्येकवचनान्तस्य मे आदेशः। 'अनुदात्तं सर्वमपादादौ' (पा ८,१,१८) इत्यधिकारात् सर्वानुदात्तत्वम्। तन्वः तन्वाः शरीरस्य। अनित्यम् आगमशासनम् इति आडभावः। अद्य इदानीं मेधाजननादिकर्मकाले दधातु विदधातु करोतु । डुधाञ् धारणपोषणयोः। अस्माल्लोटि जुहोत्यादित्वात् शपः श्लुः। 'श्लौ' (पा ६,१,१०) इति द्विर्वचनम् । तिपः पित्त्वेन ‘सार्वधातुकमपित्' (पा १,२,७ ) इति ङित्त्वस्याभावात् 'श्नाभ्यस्तयोरातः ( पा ६,४,११२ ) इति आल्लोपस्याभावः। 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातः। अत्र बलाधानरूपाभिमतफलप्रदातृत्वं वाचस्पतिकर्तृकम् अवगम्यते । तद् अयुक्तम् । देवताया विग्रहाद्यभावेन फलदातृत्वायोगात् । लोके हि विग्रहादिमत एव सेवितराजादेः फलप्रदातृत्वं दृश्यते । नायं दोषः। देवताया विग्रहाद्यभावेन फलदातृत्वासंभवेपि तदुद्देशेन क्रियमाणयागहोमादिजनितापूर्वस्यैव फलप्रदातृत्वाङ्गीकारात् । तथा च नवमे देवताधिकरणे निर्णीतम्-- ‘देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात्' (मीसू ९,१,६) इत्यत्र । तथाहि—'यदाग्नेयोऽष्टाकपालः' (तै २,६,३,३) इत्यत्र देवता प्रतीयते । अपूर्वमपि । तत्र प्राकरणिकानाम् अवघातप्रोक्षणादीनां संनिपत्योपकारकाणां प्रयाजादीनाम् आरादुपकारकाणां च अङ्गानां किम् अग्न्यादिदेवता प्रयोजिका उत अपूर्वम् इति विशये देवतैव प्रयोजिकेति तावत् प्राप्तम् । कुतः । यागेन तोषिताया देवतायाः फलप्रदत्वात् । संभवति हि तस्याः फलप्रदत्वम् । मन्त्रार्थवादादिभ्यो विग्रहादिपञ्चकावगमात् । विग्रहः, हविःस्वीकारः, तद्भोजनम् , तृप्तिः, प्रसादश्च इत्येतत् चेतनस्योचितं पञ्चकम् । 'सहस्राक्षो गोत्रभिद्वज्रबाहुः' (तै २,३,१४,४,) इति विग्रहः । 'अग्निरिदं हविरजुषत' ( तैब्रा ३,५,१०,२, ) इति हविःस्वीकारः। 'अद्धीदिन्द्र प्रस्थितेमा हवींषि' ( ऋ १०,११६,८) इति हविर्भोजनम् । 'तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति' (तै २, ५,४,३ ) इति तृप्तिप्रसादौ । ततः सेवितराजादिवत् पूजितदेवतायाः फलप्रदत्वेन प्राधान्यात् सैव धर्माणां प्रयोजिका। तथा सति विकृतिषु सौर्यादिषु प्राकृतानाम् अग्न्यादीनाम् अभावात् तत्संबद्धा धर्मा एव तावत् नातिदिश्यन्ते कुतस्तत्र ऊहस्य प्राप्तिरिति प्राप्ते अभिधीयते -- किं देवतायाः फलप्रदातृत्वेन प्राधान्यं शब्दाद् आपाद्यते वस्तुसामर्थ्याद् वा। नाद्यः । ‘स्वर्गकामो यजेत' इत्यत्र यजेतेति शब्देन विधेयस्य यागस्य फलप्रदत्वावगमात् । द्रव्यदेवते तु सिद्धत्वेन विध्यनर्हे । तत्र यथा द्रव्यस्य विधेयं प्रति गुणत्वम् तथा देवताया अपि । यदा यागस्य कालान्तरभावि फलं प्रति व्यवहितत्वम् तदा तत्साधनभूता देवता ततोपि व्यवहिता। का तर्हि फलस्य गतिः। अपूर्वम् इति वदामः । तच्च श्रुत्या श्रुतार्थापत्त्या वा प्रतीयमानत्वात् शाब्दम् इति तस्य फलप्रदत्वम् उचितम् । नापि वस्तुसामर्थ्याद् देवस्य फलप्रदत्वम् । विग्रहादिपञ्चकप्रतिपादकयोर्मन्त्रार्थवादयोः स्वार्थे तात्पर्याभावात् । अन्यथा 'वनस्पतिभ्यः स्वाहा मूलेभ्यः स्वाहा' (तै ७,३,२०,१;२) इत्यादिमन्त्रेष्वपि देवत्वं विग्रहादियुक्त्वं च कल्प्येत । तच्च प्रत्यक्षविरुद्धम् । अतो न राजादिवत् फलप्रदत्वम् । किंच विग्रहादिमद्देवतावाद्यपि न विना कर्मणा फलम् अभ्युपगच्छति । ततः प्राप्ताप्राप्तविवेकेन उभयवादिसिद्धस्य यागस्यैव फलप्रदत्वम् अस्तु । किंच मातापितृगुर्वादिशुश्रूषायाः विनापि देवतां फलप्रदत्वम् उभयवादिसिद्धम् । तस्मात् फलप्रदम् अपूर्वमेव धर्माणां प्रयोजकम् । तथा सति सौर्यादिषु अग्न्यादिदेवताभावेपि अपूर्वप्रयुक्तधर्माणाम् अतिदेशाद् अस्ति तत्र ऊहस्यावकाशः । तद् उक्तम् --

  • [देवः प्रयोजकोऽपूर्वं वाऽऽद्योऽस्य फलदत्वतः ।

न विधेये गुणो ह्येषोऽपूर्वस्य फलितोचिता ॥' (मीन्या ९,१,८) इति ।]

एवं प्रकृतेपि एतत्सूक्तानुष्ठेयाज्यसमिद्धोमादिजनितापूर्वस्यैव अभिमतफलसाधनत्वम् । एवं सति 'ये त्रिषप्ताः' इत्यस्य करणमन्त्रत्वात् मन्त्राणां च अनुष्ठयार्थप्रकाशकत्वात् फलप्रार्थनाव्यपदेशेन कर्मापेक्षितदेवता प्रकाश्यते इति अविरोधः । अयं च जैमिनिपक्षोनुक्रान्तः ।

बादरायणस्तु

'विरोधे गुणवादः स्याद् अनुवादोवधारिते।

भूतार्थवादस्तद्धानाद् अर्थवादस्त्रिधा मतः ॥'

इति प्रमाणान्तराविरुद्धानां मन्त्रार्थवादादीनां स्वार्थेपि तात्पर्याङ्गीकारेण देवानां विग्रहादिपञ्चकम् अभ्युपगम्य यागहोमादिक्रियातोषितानां तेषां देवानामेव अभिमतफलप्रदानकर्तृत्वम् अङ्गीचकार । तथा च वैयासिकं सूत्रम् -–‘फलमत उपपत्तेः' (वेसू ३,२,३९) इति । श्रुतिरपि आराधितस्य देवस्यैव फलप्रदातृत्वं दर्शयति । 'स्त्रीपुंसोर्वा' य इह स्थातुम् अपेक्ष्यते [तस्मै] सर्वैश्वर्यं ददाति यत्र कुत्रापि म्रियेत देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे' (नृपू १,७) इति । एष ह्येव साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते एष हि एवासाधु कर्म कारयति तं यम् अधो निनीषते' (तु. सप्र. कौउ [३,९) इत्यादि।

अस्य सूक्तस्य मेधाजनने विनियोगाभिधानात् तस्य च अधीतवेदशास्त्रादिधारणसामर्थ्याधानरूपत्वात् वेदानाम् अधिपतिर्ब्रह्मैव तत् कर्तुं शक्नोतीति ब्रह्मप्रार्थनम् अत्र कृतम् । अनेनैवाभिप्रायेण श्रुतिरपि तद्वाचकशब्दान्तरं परिहृत्य वाचस्पतिशब्देन ब्रह्माणं निरदिक्षत् ।

अत्र विहितानि मेधाजननादीनि कर्माणि फलार्थी स्वयमेव यदि अनुतिष्ठेत् तदा मे इति अस्मच्छब्दस्य मुख्य एवार्थः संभवति । [यदा तु] फलभाजो यजमानस्य अशक्त्या अनधिकाराद्वा उक्तानि कर्माणि अन्येन कार्यन्ते तदा किम् अयं मन्त्रः प्रत्यगाशीष्ट्वलिङ्गात् 'आयुर्दा अग्नेस्यायुर्मे देहि' (तै १,५,५,४) इतिवत् फलभाजा यजमानेन पठितव्यः उत ‘ममाग्ने वर्चः' (ऋ १०,१२८,१) इतिवत् क्रियाकर्त्रा आचार्येण । द्वितीये पक्षे मन्त्रोच्चारणकर्तुरेव अस्मच्छब्दाभिधेयत्वात् तस्यैव फलसंबन्धप्रतीतेः कथं यजमानस्य फलभाक्त्वम् इति चिन्तायाम् उच्यते --

‘आयुर्दा अग्ने' इत्यादेः करणतया विधानाभावात् लिङ्गाद् यजमानपाठ्यता निर्णीता मन्त्राश्चाकर्मकरणास्तद्वत्' (मीसू ३,८,१५) इत्यस्मिन्नधिकरणे । अस्य तु गोपथब्राह्मणे मेधाजननादिकर्मसु विनियोगाभिधानात् श्रुत्या लिङ्गं बाधित्वा ‘ममाग्ने वर्चः' इतिवत् अस्यापि मन्त्रस्य क्रियाकर्त्रा आचार्येणैव प्रयोक्तव्यता । तथा च क्रियाकर्तुराचार्यस्य दक्षिणया क्रीतत्वात् तदतिरिक्तफलसंबन्धानुपपत्तेः फलभाक्त्वं यजमानस्यैव । 'शास्त्रफलं प्रयोक्तरि' (मीसू ३,७,१८) इत्युक्तत्वात् । तथा च मे इति संबन्धसामान्ये षष्ठी। मम यो यजमानस्तस्येत्यर्थः । तथा च जैमिनीयं सूत्रम् -–'करणेष्वर्थवत्त्वात्' (मीसू ३,८,२५) इति । अत्रायं संग्रहश्लोकः -- 'ममाग्न इति कस्यात्र फलं लिङ्गेन कर्तृगम् ।

श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥' (मीन्या ३,८,२०) इति।


पुनरेहि वचस्पते देवेन मनसा सह ।

वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥

पुनः । आ । इहि । वाचः । पते । देवेन । मनसा । सह ।

वसोः । पते । नि । रमय । मयि । एव । अस्तु । मयि श्रुतम् ॥२॥

हे वाचस्पते वाचः वेदरूपायाः पालयितर्देव। ‘सुबामन्त्रिते पराङ्गवत् स्वरे' (पा २,१,२) इति षष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य ‘आमन्त्रितस्य च' (पा ८,१,१९) इत्याष्टमिकं सर्वानुदात्तत्वम् । ईदृश हे ब्रह्मन् देवेन द्योतनात्मकेन मनसा अन्तःकरणेन अनुग्रहबुद्ध्येत्यर्थः । सकलेन्द्रियानुग्राहकत्वात् सत्त्वगुणपरिणामरूपत्वेन स्वच्छत्वाच्च मनसो द्योतनात्मकत्वम् । तादृशेन मनसा सह संगतः सन् पुनरेहि । क्रियाभ्यावृत्त्युपलक्षणार्थोयं पुनःशब्दः। अभिमतफलप्रदानार्थं पुनःपुनर्मत्समीपम् आगच्छेत्यर्थः । स्वरादिगणे पुनराद्युदात्तः इति पाठात् पुनःशब्द आद्युदात्तः । अत्र वाचस्पतेरागमनं फलप्रदानार्थम् । तच्च फलप्रदानं किं वाचस्पतेरेव उत मनसोपीति विचिकित्सायाम् सहभावश्रवणात् मनसोपीति प्राप्तम् । तच्च अयुक्तम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभीतिवत् सहशब्दश्रवणेपि अप्राधान्याद् मनसः क्रियानन्वयित्वात् । अप्राधान्यं च 'सहयुक्तेऽप्रधाने' (पा २,३,१९) इति तृतीयाविधानात् । तथा शेषलक्षणे त्वष्टारं तूपलक्षयेत् पानात् ' (मीसू ३,२,३४) इत्यधिकरणेपि एवमेव निर्णीतम् । तथा हि-- 'अग्ना३इ पत्नीवा३: सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा' (तै १,४,२७,२) इति पात्नीवतग्रहहोममन्त्रे त्वष्टुः पत्नीवदग्निसहभावश्रवणेन पानक्रियान्वयाद् देवतात्वात् तद्ग्रहशेषभक्षणमन्त्रेपि उपलक्षणीयत्वम् आशङ्कय राद्धान्तितम् -- त्वष्टुः अप्रधानविभक्त्यभिहितत्वेन सहभावमात्रप्रतीतेः पानक्रियान्वयित्वाभावाद् अदेवतात्वाद् भक्षणमन्त्रे नोपलक्षणीयत्वमिति । अपि च हे वसोष्पते वासकस्य ग्रामपश्वादिरूपस्य धनस्य स्वामिन् । अन्तर्भावितण्याद वस निवासे इत्यस्मात् 'शृस्वृस्निीहत्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' (पाउ १,१०) इति उप्रत्ययः । अनित्यम् आगमशासनम् इति नुमभावे 'घेर्ङिति' (पा ७,३,१११) इति गुणे 'ङसिङसोश्च' (पा ६,१,११०) इति पूर्वरूपता। 'षष्ठ्याः पतिपुत्र' (पा ८,३,५३) इति विसर्जनीयस्य सत्वम् । पूर्ववत् पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकम् आद्युदात्तत्वम् । यद्वा वसोः वासकस्य प्राणस्य पते स्वामिन् प्रजापते निरमय अभिमतग्रामादिलक्षणफलप्रदानेन नितराम् अस्मान् क्रीडय । यतस्त्वं वसुपतिः अतस्तव ग्रामादिविविधफलप्रदानशक्तिरस्ति । तस्माद् अस्मदपेक्षितानां विविधफलानां साकल्येन प्रदानात् निरन्तरं सुखयेत्यर्थः । अस्मादेव लिङ्गात् ग्रामसांपदादिषु कर्मसु विनियोग उपपन्नः। रमु क्रीडायाम् अस्मात् हेतुमति णिचि उपधावृद्धौ जनीजॄष्न्िसुरञ्जोऽमन्ताश्चेति मित्त्वात् ‘मितां ह्रस्वः' (पा ६,४,९२) इत्युपधाह्रस्वत्वम् । इदानीं ग्रामादिविविधसंपत्त्या सर्वोत्कृष्टताम् आत्मनः प्रार्थयते । मय्येवास्तु त्वया दत्तं ग्रामादिकम् अनन्यसाधारण्येन मय्येव वर्तताम् । अन्ययोगव्यवच्छेदार्थोयम् एवकारः । यत एवकारस्ततोन्यत्रावधारणम् इति न्यायेन अस्मच्छब्दात् परतो वर्तमानेन एवकारेण ग्रामादीनां नियम्यमानत्वात् । मेधाजननस्य प्राधान्यं दर्शयितुं विप्रपरिव्राजकन्यायेन पार्थक्येन निर्दिशति--मयि श्रुतम् इति । श्रुतम् उपाध्यायाद् विधितोऽधीतं वेदशास्त्रादिकमपि मय्येव । अस्तु इत्यनुषङ्गः । सम्यगधीतस्यापि वेदादेः प्रायेण विस्मरणसंभवाद् अधीतस्य धारणार्थं मह्यं मेधां प्रयच्छेत्यर्थः।


इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।

वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम् ॥३॥

इह । एव । अभि । वि । तनु । उभे इति । आर्त्नी हवेत्यार्त्नीऽइव । ज्यया ।

वाचः । पतिः । नि। यच्छतु । मयि । एव । अस्तु । मयि । श्रुतम् ॥ ३ ॥

हे वाचस्पते ‘इहैव' अस्मिन्नेव साधके जने। 'इदमो हः' (पा ५,३,११) इति सप्तम्यर्थे हप्रत्यये 'इदम इश्' (पा ५,३,३ ) इति इशादेशः। उभे श्रुतधारणलक्षणां मेधां विविधभोगहेतुभूतां ग्रामादिसंपदं च। अनयोः ऐहिकामुष्मिकफलसाधनेन व्यवस्थितत्वात् कोटिद्वयेन निर्देशः । ते उभे अपि फले अभि वि तनु अभितो विस्तीर्णे कुरु । सर्वजनेभ्योऽपि मय्येव प्रभूते कुर्वित्यर्थः। तनु विस्तारे । 'तनादिकृञ्भ्य उः' (पा ३,१,७९ ) इति उप्रत्ययः। 'उतश्च प्रत्ययादसंयोगपूर्वात्' (पा ६,४,१०६) इति हेर्लुक् । तत्र दृष्टान्तः -- ज्यया मौर्व्या धनुषि आरोपितया आर्त्नी इव अटन्याविव । ते यथा अभिवितन्येते तथेत्यर्थः। अनेन स्वरसतः अप्राप्तयोरपि बलात् प्रापणम् उक्तम् इति द्रष्टव्यम् । यद्वा इहैव अभि वि तनु । अभिमतं फलम् इति शेषः। उभे आर्त्नी इवेति उभशब्दस्य उत्तरत्र संबन्धः । 'ईदूदेद्द्विवचनम्' (पा १,१,११) इति प्रगृह्यसंज्ञा । 'प्लुतप्रगृह्या अचि' (पा ६,१,१२५) इति प्रकृतिभावः । आर्त्नी इवेति । 'इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' (पावा २,१,४) इति समासः । इदानीं प्राप्तस्य फलस्य स्थैर्यं प्रार्थयते -- वाचस्पतिः विधाता नि यच्छतु स्वात्मने दत्तं निखिलं फलं नियमयतु । यथा मां न जहाति तथा स्थिरीकरोतु इत्यर्थः। निपूर्वाद् यमेः शपि 'इषुगमियमां छः' (पा ७,३,७७ ) इति छत्वम् । 'तिङ्ङतिङः' ( पा ८,१,२८) इति सर्वानुदात्तत्वम् । अभिमतस्य फलस्य अयोगव्यवच्छेदम् उक्त्वा अन्ययोगव्यवच्छेदम् आह--मय्येवास्तु मयि श्रुतम् इति । व्याख्यातमेतत् ।


उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।

सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥

उपऽहूतः । वाचः । पतिः । उप । अस्मान् । वाचः । पतिः । ह्वयताम् ।

सम् । श्रुतेन । गमेमहि । मा । श्रुतेन । वि। राधिषि ॥ ४ ॥

वाचस्पतिः वाचः पालयिता देवः उपहूतः समीपम् आहूतः। सत्स्वपि अन्येषु देवेषु असावेव मम अभिलषितफलप्रदातेति अस्माभिः प्रार्थित इत्यर्थः। उपपूर्वात् ह्वयतेः कर्मणि निष्ठा। 'वचिस्वपि' (पा ६,१,१५) इत्यादिना संप्रसारणम् । ‘गतिरनन्तरः' (पा ६,२, ४९) इति गतेः प्रकृतिस्वरत्वम् । 'उपसर्गाश्चाभिवर्जम्' (फि ४,१३) इत्युपशब्द आद्युदात्तः। यतो मयोपहूतः ततो हेतोर्वाचस्पतिः स देवः अस्मान् मेधाजननादिफलकामान् उपह्वयतां तत्तत् फलं प्रदातुं स्वसमीपम् आह्वयतु । यद्वा--तत्तत्फलप्राप्तिम् अभ्यनुजानातु । उपपूर्वो ह्वयतिः अभ्यनुज्ञानेपि वर्तते, यथा 'उपहूत उपह्वयस्व' इति सोमभक्षणानुज्ञानानुज्ञापनमन्त्रे । तेन उपहूताः सन्तो वयं श्रुतेन विधितोधीतेन वेदशास्त्रादिना सं गमेमहि संगच्छेमहि । वाचस्पतिप्रसादप्राप्तया मेधया कृत्स्नं वेदशास्त्रं प्राप्तवामेति भावः । 'व्यवहिताश्च' (पा १,४,८२) इति समः क्रियापदेन संबन्धः। 'समो गम्यृच्छिभ्याम्' (पा १,३,२९) इति गमेरात्मनेपदम् । अस्माद् आशीर्लिङि 'लिङयाशिष्यङ्' (पा ३,१,८६) इति अङ् प्रत्ययः शपोऽपवादः । 'लिङः सीयुट्' (पा ३,४,१०२) इति सीयुट् । 'छन्दस्युभयथा' (पा ३,४,११७) इति सार्वधातुकसंज्ञायां 'लिङः सलोपोनन्त्यस्य' (पा ७,२,७९) इति सलोपे गुणे वलि लोपः । अधीतस्य वेदशास्त्रस्य स्वस्मिन् सर्वदावस्थानं प्रार्थयते मा श्रुतेन इति । श्रुतेन उक्तलक्षणेन मा वि राधिषि विराद्धो वियुक्तो मा भूवम् । सर्वदा वेदशास्त्रादिसहितो भूयासम् इत्यर्थः । राध साध संसिद्धौ । अस्मात् माङि लुङि व्यत्ययेन आत्मनेपदम् इडागमश्च ।

इति प्रथमकाण्डे प्रथमेनुवाके प्रथमं सूक्तम् ।