← सूक्तं १.०१ अथर्ववेदः - काण्डं १
सूक्तं १.२
अथर्वा
सूक्तं १.०३ →
दे. पर्जन्यः

आद्यनुवाकशेषस्य उपाकर्मणि जपे विनियोगः(कौ.सू. १३९.१)

विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।
विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥
ज्याके परि णो नमाश्मानं तन्वं कृधि ।
वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।
शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥
यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।
एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥

सायणभाष्यम्

विद्मा शरस्येत्याद्यनुवाकशेषस्य उपाकर्मणि जपे विनियोगः । तथा च सूत्रम्--अभिजिति शिष्यानुपनीय' इत्युपाकर्म प्रक्रम्य त्रिषप्तीयं च पच्छो वाचयेत् । शेषमनुवाकस्य जपन्ति' ( कौसू १३९,१-११ ) इति । तत्र विद्मा शरस्य इति प्रथमेन सूक्तेन तस्मिन्नेव उपाकर्मणि आज्यहोमः कर्तव्यः । अपराजितगणे अस्य पठितत्वात् 'अभयरपराजितैxxxआज्यं जुहुयात्' ( कौसू १३९,७ ) इत्यादिषु विनियोगः।

एतेनैव संग्रामजयकर्माणि कुर्यात् । तानि च--आज्यहोमः, सक्तुहोमः, धनुरिध्मेग्नौ धनुःसमिदाधानम् , शरेध्मे शरसमिदाधानम् , संपातिताभिमन्त्रितधनुःप्रदानं च प्रत्येतव्यानि । एतेषु कर्मस्वनुष्ठितेषु संग्रामे दृष्टमात्रेण शत्रवः पलायन्ते । तद् उक्तं संहिताविधौ-"'विद्मा शरस्य' (अ १,२) 'मा नो विदन्' (अ १,१९) 'अदारसृत्' (अ १,२०) 'स्वस्तिदाः' (अ १,२१) 'अव मन्युः' (अ ६,६५) 'निर्हस्तः' (अ६,६६) 'परि वर्त्मानि' (अ६,६७) 'अभिभूः' ( अ ६,९७ ) 'इन्द्रो जयाति' (अ ६,९८ ) 'अभि त्वेन्द्र' ( अ ६,९९) इति सांग्रामिकाणि । आज्यसक्तून् जुहोति” (कौसू १४,७; ८) इत्यादि। अयमेव अपराजितगण इत्युच्यते। तथा अनेनैव सूक्तेन संपातयुक्ताभिमन्त्रितद्रुघ्न्यार्त्नीज्यापाशबन्धनं तद्वद्दूर्वादितृणबन्धनं च इषुनिवारणकामः कुर्यात् । सूत्रितं हि-- प्रथमस्येषुपर्ययणानि' ( कौसू १४,१२ ) इत्यादि।

तथा ज्वरातिसारातिमूत्रनाडीव्रणेषु तदुपशमनकामस्य अनेनैव सूक्तेन मुञ्जशिरोनिर्मितरज्जुबन्धनम् , क्षेत्रमृत्तिकाया वल्मीकमृत्तिकाया वा पायनम् , सर्पिर्लेपनम् , चर्मखल्वामुखेन अपानशिश्ननाडीव्रणमुखानां धमनं च कार्यम् । आह च सूत्रकारः - “ विद्मा शरस्य' (अ १,२ ) 'अदो यद्' ( अ २,३ ) इति मुञ्जशिरोरज्ज्वा बध्नाति ।' इत्यादि 'धमति ” (कौसू २५,६-९ ) इत्यन्तम् 'अपराजितां विजयकामस्य' ( शांक १७,४ ) इति विहितायाम् अपराजिताख्यायां महाशान्तावपि अस्य विनियोगः । तद् उक्तं शान्तिकल्पे— 'अपराजितगणोपराजितायाम्' ( शांक १८,५ ) इति ।

पुष्पाभिषेकेपि एतत् सूक्तम् । तद् उक्तं परिशिष्टे -

शर्मवर्मगणश्चैव तथा स्याद् अपराजितः ।

आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः ॥

एतान् पञ्च गणान् हुत्वा' (अप ५,३,५, ४,१) इति ॥


विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।

विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥

विद्मा । शरस्य । पितरम् । पर्जन्यम् । भूरिऽधायसम् ।

विद्मो इति । सु । अस्य । मातरम् । पृथिवीम् । भूरि ऽवर्पसम् ॥ १ ॥

संग्रामजये शरस्यैव मुख्यसाधनत्वेन प्रसिद्धत्वात् तज्जयसामर्थ्यं विशिष्टकारणजन्यत्वेन उपपादयति- शरस्य हिंसकस्य बाणस्य शत्रुजयार्थं धनुषि संधीयमानस्य पितरम् उत्पादकं विद्मा जानीमः । विद ज्ञाने । अस्मात् लटि 'विदो लटो वा' (पा ३,४,८३ ) इति मसो मादेशः । अदादित्वात् शपो लुक् । प्रत्ययस्वरेण अन्तोदात्तत्वम् । तिङ्ङतिङः' (पा ८,१,२८ ) इत्यत्र 'अनुदात्तं सर्वमपादादौ' (पा ८,१,१८) इत्यधिकारात् अस्य च पादादित्वात् निघाताभावः । 'द्व्यचोतस्तिङः (पा ६,३,१३५ ) इति सांहितिको दीर्घः । किंसंज्ञकोऽयं पिता इत्याह--पर्जन्यमिति । तर्पयिता चासौ जन्यश्चेति पर्जन्यः । तृपेर्विचि आद्यन्तयोर्वर्णयोर्विपर्ययः । जनेभ्यो हितो जन्यः । कालेकाले प्रवर्षणेन तर्पयिता सन् जनानां हितकारी भवतीत्यर्थः । यद्वा काले प्रवर्षणार्थं रसान् प्रार्जयतीति पर्जन्यः । तथा च यास्कः-- 'पर्जन्यस्तृपेराद्यन्तविपरीतस्य तर्पयिता जन्यः प्रार्जयिता वा रसानाम्' (या १०,१०) इति । तस्य सर्वस्माद् अतिशयम् आह -- भूरिधायसं भूरि बहुलं दधाति प्रवर्षणेन कृत्स्नं जगत् पोषयतीति भूरिधायाः। यद्वा भूरीणि स्थावरजङ्गमात्मकानि वस्तूनि यथोचितकाले वृष्टिप्रदानेन दधाति धारयतीति भूरिधायाः । कारणस्य अतिशयितवीर्यत्वप्रतिपादनेन तज्जन्यस्यापि शरस्य अमोघवीर्यत्वम् उक्तं वेदितव्यम् । डुधाञ् धारणपोषणयोः। 'वहिहाधाञ्भ्यश्छन्दसि' (पाउ ४, २२१) इति कर्तरि असुन् । तत्र णिदित्यनुवृत्तेः 'आतो युक् चिण्कृतोः' (पा ७, ३,३३) इति युक् । असुनो नित्त्वात् तदन्तस्य आद्युदात्तत्वम् । समासेपि ‘गतिकारकोपपदात्कृतं ' (पा ६,२,१३९) इति कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते असुनि ‘गतिकारकयोः पूर्व [पद]प्रकृतिस्वरत्वं च' (पाउ ४,२२७) इति स्मरणात् पूर्वपदप्रकृतिस्वरत्वम् । तच्च ‘अदिशदिभूशुभिभ्यः क्रिन् (पाउ ४,६५) इति भूरिशब्दस्य क्रिन्प्रत्ययान्तत्वात् 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तत्वम् । तथा अस्य शरस्य मातरं जननीम् सु सुष्ठु विद्मो [ द्य+उ]। उशब्दः एवकारार्थे । विद्मैव तदसाधारणरूपं जानीम एव । ताम् आह । पृथिवीं प्रथितां विस्तीर्णां भूमिम् । श्रूयते हि —'तत् पुष्करपर्णेऽप्रथयत् । यद् अप्रथयत् तत् पृथिव्यै पृथिवित्वम् ' (तैबा १,१,३,७) इति । प्रथ विस्तारे । अस्मात् 'प्रथेः षिवन् संप्रसारणं च' (पाउ १,१५०) इति षिवन् प्रत्ययः । तत्संनियोगेन रेफस्य संप्रसारणम् । 'षिद्गौरादिभ्यश्च' (पा ४,१,४१) इति डीष् । प्रत्ययस्वरेण अन्तोदात्तत्वम् । तां विशिनष्टि । भूरिवर्पसं भूरीणि बहुविधानि वर्पांसि, रूपनामैतत् , रूपाणि चराचरात्मकानि यस्यां सा तथोक्ता। जनन्याः सर्वरूपोपादानत्वात् कारणगुणानां कार्ये अनुगमदर्शनात् तज्जन्यः शरोपि नानाकारः सन् साधकाभिमतं फलं साधयितुं शक्नोतीत्यर्थः । ‘वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुक् च' (पाउ ४,२०१) इति वृङोऽसुन् प्रत्ययः तत्संनियोगेन पुगागमश्च । 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा ६,२,१) इति प्रकृतिस्वरत्वम् ।

ननु अत्र शरादिशब्दानाम् अनित्यबाणाद्यर्थविशेषवाचकता प्रतीयते । ततश्च अस्य अर्थविशेषस्य अयं वाचकः शब्द इति पदार्थोत्पत्तिसमनन्तरं तद्वाचकं शब्दं निश्चित्य अनन्तरं पदस्य प्रयोक्तव्यत्वाद् वेदस्य पौरुषेयत्वेन अप्रामाण्यम् अनित्यत्वं च प्राप्नोतीति । नायं दोषः । शब्दानाम् अनित्यार्थवाचकत्वानभ्युपगमात् । तर्हि कोसौ वाच्योर्थः । आकृतिरिति वदामः । यद् असूत्रयत् जैमिनिः –'आकृतिस्तु क्रियार्थत्वात्' (मीसू १,३,३३) इति । तथाहि, व्रीहीन् अवहन्ति, पशुम् आलभेत, गाम् आनय, ब्राह्मणो न हन्तव्यः इत्यादिप्रयोगेषु किं व्यक्तिः शब्दार्थः उत आकृतिरिति । व्यक्तिरिति तावत् प्राप्तम् । कुतः। अवहननादिक्रियाभिः व्यक्तेरन्वेतुं योग्यत्वात्। न हि आकृतिः अवहन्तुम् आलब्धुम् आनेतुम् हन्तुं वा योग्या । ननु आनन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति । अनन्ता हि गोव्यक्तयः। अतीतानागतानाम् अनेकदेशवर्तिनां गवाम् इयत्ताया अभावात् । किं च शुक्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थं व्यभिचरेत् । तत्र कथं व्युत्पत्तिरिति चेत् , एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिः आकृत्या उपलक्ष्यताम् इति प्राप्ते ब्रूमः -- अन्वयव्यतिरेकाभ्याम् आकृतेः शक्तिग्रहणनिमित्तत्वात् शब्दार्थत्वं तस्या एवोचितम् । किंच गोशब्दे उच्चरिते व्यक्तिवादिनः संशयो भवेत् । तस्माद् आकृतेरेव अभिधेयत्वम् । यदि आकृतौ अवहननादिक्रिया न पर्यवस्येत् तर्हि व्यक्तिस्तत्रोपलक्षणीया । किंच 'श्येनचितं चिन्वीत' (तै ५,४,११,१) इत्यादौ आकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते । तस्माद् आकृतिः शब्दार्थः । एवं प्रकृतेपि शरादिशब्दानां नित्य एव आकृतिलक्षणोर्थो वाच्यः। ततः शब्दार्थतत्संबन्धानां नित्यत्वेन अपौरुषेयत्वात् पुरुषबुद्धिप्रभवदोषानुप्रवेशाभावेन वेदानां स्वतःसिद्धं प्रामाण्यं पुरुषप्रयत्नानिर्वर्त्यत्वेन नित्यत्वं चेति ।


ज्याके परि णो नमाश्मानं तन्वं कृधि ।

वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥

ज्याके। परि । नः । नम । अश्मानम् तन्वम् । कृधि ।

वीडुः । वरीयः । अरातीः । अप। द्वेषांसि । आ । कृधि ॥ २ ॥

हे ज्याके। कुत्सिता ज्या ज्याका। 'कुत्सिते' (पा ५,३,७४) इति कुत्सायां कप्रत्ययः। स्वस्य उपद्रवहेतुत्वात् ज्यां कुत्सितत्वेन निर्दिशति । यद्वा अज्ञाता ज्या ज्याका । अज्ञातार्थे कप्रत्ययः। शत्रुहस्तगतत्वेन तस्या अज्ञातत्वम् । 'आमन्त्रितस्य च' (पा ६,१,१९८) इति षाष्ठिकम् आद्युदात्तत्वम् । हे ईदृशि मौर्वि नः अस्मान् परि णम परिहृत्य प्रह्वीभव। आज्यसक्तुहोमादिभिः इन्द्रप्रसादविशिष्टे मयि त्वदीयस्य शरसंधानार्थं नमनस्य निष्फलत्वात् मां विहाय अन्यत्र शरं प्रेरयेत्यर्थः । अस्य सूक्तस्य इन्द्रदेवताकत्वात् जयकर्मणः इन्द्रायत्तत्वाच्च अत्र अश्रुतोपि इन्द्र एव संबोध्यः। हे इन्द्र तन्वं तनुम् । 'तन्वादीनां छन्दसि बहुलम्' (पावा ६,४,८६) इति यण् । 'उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्य' (पा ८,२,४) इति विभक्तेः स्वरितत्वम् । अस्माकं शरीरम् अश्मानम् अश्मवद् दृढावयवं शस्त्राभेद्यं कृधि कुरु।

यद्यपि अत्र सामानाधिकरण्येन शरीरस्य अश्मकरणप्रार्थना प्रतीयते तथापि षाट्कौशिकस्य शरीरस्य अत्यन्तविरुद्धपाषाणात्मकत्वानुपपत्त्या 'यजमानः प्रस्तरः' (ऐब्रा २,३) इतिवत् तत्संबद्धगुणलक्षणा आश्रीयते । तथाहि-- 'यजमानः प्रस्तरः' इत्यस्मिन् वाक्ये उद्भिदा यागेन इतिवत् सामानधिकरण्याद् अन्यतरस्य अन्यत् नाम इत्येकः पूर्वः पक्षः । गुणविधिरेष इत्यपरः। तत्रापि यजमानकार्ये जपादौ प्रस्तरस्य अचेतनस्य सामर्थ्याभावात् प्रस्तरकार्ये तु स्रुग्धारणादौ यजमानस्य शक्तत्वात् यजमानरूपो गुणो विधीयते । एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वेपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भविष्यति । न चात्र 'पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये' (मीसू १,४,१७) इति द्वादशकपालन्यायेन स्तुतिः संभवति। अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोः अंशांशित्वानुपपत्तेः । तस्माद् नामगुणयोरन्यतरत्वम् इति प्राप्ते आभिधीयते-- उद्भिदादिशब्दानां हि अप्रसिद्धार्थत्वाद् यजिसामानाधिकरण्येन नामत्वं निर्णीतम् । अत्र तु गोमहिषयोरिव यजमानप्रस्तरशब्दयोः अर्थभेदस्य अत्यन्तप्रसिद्धत्वात् नामत्वं न युक्तम् । गुणविधिपक्षे तु सूक्तवाकेन प्रस्तरं प्रहरति इत्यग्नौ प्रहरणस्यापि प्रस्तरकार्यत्वाद् यजमाने प्रहृते सति कर्मलोपः स्यात् । तस्माद् विधेयः प्रस्तरो यजमानशब्देन स्तूयते। यथा सिंहो देवदत्त इत्यत्र सिंहगुणेन शौर्यादिना उपेतो देवदत्तः सिंहशब्देन स्तूयते तथा यजमानः प्रस्तर इत्यत्रापि यजमानगुणेन यागसाधकत्वेन युक्तः प्रस्तरो यजमानशब्देन लक्षणया प्रतिपाद्यते । एवं प्रकृते अश्मशब्दोपि स्वार्थसहचरितान् दृढावयवत्वशस्त्राभेद्यत्वादिगुणान् लक्षयित्वा प्रार्थ्यमानतद्गुणयोगिनि शरीरे वर्तत इति बोद्धव्यम् । मयि त्वदीयं निरवधिकम् अनुग्रहम् अजानानः शत्रुर्माम् उद्दिश्य यद्यपि शरं प्रहिणुयात् तथापि स शरः अस्मच्छरीरं यथा न विदारयति तथा कुर्वित्यर्थः । डुकृञ् करणे । अस्माल्लोटि 'बहुलं छन्दसि' (पा २,४,७३) इति विकरणस्य लुक् । 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा ६,४,१०२) इति हेर्धिरादेशः । तस्य अपित्त्वेन गुणाभावः ।

किंच हे इन्द्र वीळुः सेनायाः संस्तम्भकस्त्वम् । 'वीळयतिश्च व्रीळयतिश्च संस्तम्भकर्माणौ' (या ५,१६) इति हि यास्कः। अरातीः अरातीन् अस्मच्छत्रून् द्वेषांसि । द्विष अप्रीतौ। भावे असुन् । तत्कृतान्यप्रियाणि च वरीयः । क्रियाविशेषणम् एतत् । उरुतरम् अपा कृधि अपाकुरु अपगमय । यथा पुनःपुनरागत्य अस्मान् नापकुर्वन्ति तथा प्रक्षीणबलान् कुर्वित्यर्थः । वरीय इति। उरुशब्दाद ईयसुनि 'प्रियस्थिर' (पा ६,४,१५७) इत्यादिना उरुशब्दस्य वरादेशः । क्रियाविशेषणानां कर्मत्वं नपुंसकत्वं च इति नपुंसकलिङ्गता । अरातीरिति । रा दाने । 'क्तिच्क्तौ च संज्ञायाम्' (पा ३,३, १७४) इति क्तिच्प्रत्ययः । न रातयः अरातयः। अव्ययपूर्वपदप्रकृतिस्वरत्वम् । 'तस्माच्छसो नः पुंसि' (पा ६,१,१०३) इति नत्वाभावश्छान्दसः ।


वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।

शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥

वृक्षम् । यत् । गावः । परिऽसस्वजानाः । अनुऽस्फुरम् । शरम् । अर्चन्ति। ऋभुम् ।

शरुम् । अस्मत् । यवय । दिद्युम् । इन्द्र ॥ ३ ॥

वृक्षम् । विकारे प्रकृतिशब्दः । वृक्षविकारं धनुर्दण्डम् । वृश्च्यत इति वृक्षः । ओव्रश्चू छेदने इत्यस्मात् ‘स्नुव्रश्चिकृति' (पाउ ३,६६) इत्यादिना क्सप्रत्ययः । कित्त्वात् 'ग्रहिज्या' (पा ६,१,१६ )इत्यादिना संप्रसारणम् । 'स्कोः संयोगाद्योः' ( पा ८,२,२९) इति उपधासकारलोपः। 'वश्चभ्रस्ज' (पा ८,२,३६) इत्यादिना षत्वे 'षढोः कः सि' (पा ८,२,४१) इति कत्वम् । गावः । गोविकारत्वाद् वा गमयति इषूनिति वा गावो मौर्व्यः । आद्ये तद्धितस्य लुक् । तद् उक्तं यास्केन - 'ज्यापि गौरुच्यते गव्या चेत् ताद्धितम् अथ चेन्न गव्या गमयतीषूनिति । वृक्षेवृक्षे नियता मीमयद्गौः xxx । वृक्षेवृक्षे धनुषिधनुषि' (या २,६) इति । परिषस्वजानाः धनुर्दण्डम् आश्लिष्य धनुष्कोटौ आरोपिताः सत्यः इत्यर्थः ष्वञ्ज परिष्वङ्गे । अस्मात् 'छन्दसि लिट' (पा ३,२,१०५) इति लिट् । ‘लिटः कानज्वा' (पा ३,२,१०६) इति कानजादेशः। उपधानकारलोपे द्विर्वचनम् । 'चितः' (पा ६,१, १६३) इत्यन्तोदात्तत्वम् । अत्र परिष्वङ्गकथनेन स्त्रीपुंसयोरिव ज्याधनुर्दण्डयोरपि अन्योन्यसंसक्तयोरेव यथोचितकार्यकरत्वं सूचितम् इति मन्तव्यम्। ईदृश्यो ज्या यद् यदा अनुस्फुरं प्रतिस्फुरणम् । स्फुर संचलने । अस्माद् 'घञर्थे कविधानम् स्थासागापाव्यधिहनियुध्यर्थम्' (पावा ३,३,५८) इति परिगणनस्य उपलक्षणार्थत्वात् कप्रत्ययः। ऋभुम् उरु भासमानम्। शाणोल्लीढत्वात् निशितमित्यर्थः। ईदृशं शरुं हिंसकं शरम् अर्चन्ति । अर्चतिः अत्र गतिकर्मा । अस्मान् अभिलक्ष्य प्रेरयन्ति । श ॄ हिंसायाम् । 'शॄस्वस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' (पाउ १,१०) इति उप्रत्ययः तदा हे इन्द्र अस्माभिर्दत्तेन हविषा प्रीतस्त्वं दिद्युं द्योतमानं शरुं शरम् अस्मन्निकटम् उपसर्पन्तम् अस्मत् अस्मत्तः सकाशात् यावय पृथक् कुरु । यथा स शरो मां न स्पृशति तथा अन्यत्र अपसारयेत्यर्थः ॥ यद्वा शरुं हिंसकम् । दिद्युम् वज्रनामैतत् । वज्रवद्भासमानं शस्त्रजातम्। अन्यत् पूर्ववत् । यावयेति । यु मिश्रणामिश्रणयोः । अस्मात् णिचि वृद्धिः । पदकारास्तु संज्ञापूर्वको विधिरनित्यः इति वृद्धेरनित्यत्वाद् यवयेति पदं छिन्दन्ति । दिद्युमिति । द्युत दीप्तौ। अस्माद् 'द्युतिगमिजुहोतीनां द्वे चेति वक्तव्यम्' (पावा ३,२,१७८) इति क्विप् प्रत्ययः। तत्संनियोगेन द्विर्वचनम् । 'द्युतिस्वाप्योः संप्रसारणम्' (पा ७,४,६७ ) इति अभ्यासस्य संप्रसारणम् । अन्त्यलोपश्छान्दसः। इन्द्रेति । इदि परमैश्वर्ये । 'ऋज्रेन्द्राग्रवज्रविप्र (पाउ २, २८) इत्यादिना इन्द्रशब्दो रन्प्रत्ययान्तो निपातितः। नित्त्वाद् आद्युदात्तत्वे प्राप्ते आमन्त्रितत्वाद् आष्टमिकं सर्वानुदात्तत्वम्। यास्कस्तु बहुधा इन्द्रशब्दं निरवोचत्-‘इन्द्र इरां दृणातीति वा, इरां ददातीति वा, इरां दधातीति वा, इरां दारयतीति वा, इरां धारयतीति वा, इन्दवे द्रवत इति वा, इन्दौ रमत इति वा, इन्धे भूतानीति वा । तद्यदेनं प्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वमिति विज्ञायते। इदंकरणादित्याग्रायणः। इदंदर्शनादित्यौपमन्यवः । इन्दतेर्वा ऐश्वर्यकर्मणः' । (या १०,८) इत्यादि । यद्वा वृक्षं बहुच्छायं वटादिकं गावः निदाघपीडिताः पशवः यद् यथा आश्लिष्यन्ति तथा तत्तदुचितजीविकाप्रदानेन उपकारकं शत्रुं परिषस्वजानाः परितः सेवमानाः तदीया भटाः अनुस्फुरं स्वामिनः हस्तनेत्रादिव्यापारमात्रम् अनुलक्ष्य । शरुम् अर्चन्ति इत्यादि पूर्ववत्।।


यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।

एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥

यथा । द्याम् । च । पृथिवीम् । च । अन्तः । तिष्ठति । तेजनम् ।

एव । रोगम् । च । आऽस्रावम् । च । अन्तः । तिष्ठतु । मुञ्जः । इत् ॥ ४ ॥

यथा येन प्रकारेण द्यां दिवम् आकाशं पृथिवीं भुवम् । परस्परसमुच्चयार्थौ चकारौ। उभयत्रापि व्यत्ययेन द्वितीया। दिवश्च पृथिव्याश्च अन्तः मध्ये अवस्थितं तेजनम् तेजनो वेणुः । लिङ्गव्यत्ययः। वेणुमस्करतेजना इत्यभिधानात् । तिष्ठति स्वकीयेन औन्नत्येन ते उभे अपि अधःकृत्य वर्तते एव एवम् । अन्त्यलोपश्छान्दसः । 'निपातस्य च' (पा ६,३,१३६ ) इति सांहितिको दीर्घः । रोगं रुज्यते भज्यते पुरुषः अनेनेति रोगः ज्वरातीसारादिरूपः। 'हलश्च' (पा ३,३,१२१) इति करणे घञ् । 'चजोः कु घिण्ण्यतोः' (पा ७,३,५२ ) इति कुत्वम् । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इत्यादिरुदात्तः। तम् आस्रावम् । आ समन्तात् स्रवति अङ्गप्रत्यङ्गेभ्य इत्यास्रावो मूत्रातीसारः। स्रु गतौ इत्यस्माद् आङ्पूर्वात् ‘श्याद्व्यधास्रुसंस्रु' (पा ३,१,१४१) इति णप्रत्ययः । 'अचो ञ्णिति' (७,२,११५) इति वृद्धिः। पूर्ववत् षष्ठ्यर्थे द्वितीया। अत्रापि परस्परसमुच्चयार्थौ चकारौ। ज्वरातीसारादिरोगस्य आस्रावस्य च अन्तः मध्ये मुञ्जः इत् मुञ्जः एव । मुञ्जेषीकानिर्मिता रज्जुरित्यर्थः । तिष्ठतु तौ उभावपि रोगौ अधःकृत्य वर्ततामित्यर्थः । यद्यपि अत्र रोगशब्देन व्याधिसामान्यवाचिना आस्रावोपि गृहीतः तथापि एतन्मन्त्रसाध्या क्रिया आस्रावस्य विशेषतो निवर्तिकेति दर्शयितुम् आस्रावस्य पृथगभिधानम् ।

इति प्रथमकाण्डे प्रथमेनुवाके द्वितीयं सूक्तम् ।।