← सूक्तं १.०६ अथर्ववेदः - काण्डं १
सूक्तं १.७
चातनः
सूक्तं १.०८ →
दे. अग्निः ( जातवेदाः), ३ अग्नीन्द्रौ। अनुष्टुप्, ५ त्रिष्टुप्।

स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।
त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥
आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।
अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।
ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥
पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।
त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥
आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।
दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
त्वमग्ने यातुधानान् उपबद्धामिहा वह ।
अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥

सायणभाष्यम्

द्वितीयेनुवाके पञ्च सूक्तानि । तत्र 'स्तुवानम्' 'इदं हविः' इति प्रथमद्वितीये सूक्ते चातनगणे पठिते। तथा च कौशिकः - “ 'स्तुवानम् (अ १,७) इदं हविः (अ १, ८) निःसालाम् ( अ २,१४ ) अरायक्षयणम् ( अ २,१८,३-५ ) शं नो देवी पृश्निपर्णी (अ २,२५) आ पश्यति ( अ ४,२०) तान् सत्यौजाः ( अ ४,३६ ) त्वया पूर्वम् (अ ४,३७ ) पुरस्ताद्युक्तः ( अ ५,२९ ) रक्षोहणम् ( अ ८,३ ) इत्यनुवाकः चातनानि" ( कौसू ८,२५) इति । अतः अस्य 'चातनानाम् अपनोदनेन व्याख्यातम्' (कौसू २५,२२ ) 'चातनैर्मातृनामभिर्जुहुयात्' (शाक १६) इत्यादिसूत्रेण यत्रयत्र विनियोगः क्रियते तत्रतत्र सर्वत्र अनयोः सूक्तयोरपि विनियोगो द्रष्टव्यः। अपनोदनेन व्याख्यातम् इति । आविष्टभूतपिशाचाद्युच्चाटनार्थं फलीकरणतुषावतक्षणहोमादीनि 'आरेसौ' (अ १,२६) इत्यपनोदनसूक्तकर्तव्यानि अपनोदनानि कर्माणि अनेन गणेन कुर्यादित्यर्थः।


स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।

त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥

स्तुवानम् । अग्ने । आ । वह । यातुऽधानम् । किमीदिनम् ।

त्वम् । हि । देव । वन्दितः । हन्ता । दस्योः । बभूविथ ॥ १ ॥

अङ्गति गच्छति सर्वजाठरवैद्युतादिरूपेण कृत्स्नं जगद् व्याप्नोति इति अग्निः । अगि रगि लगि गत्यर्थाः। 'अङ्गेर्नलोपश्च' ( पाउ ४,५०) इति निप्रत्ययः तत्संनियोगेन नलोपश्च । यद्वा अग्रणीत्वादिगुणयोगाद् अग्निः। आह च यास्कः--'अग्निः कस्मात् । अग्रणीर्भवति अग्रं यज्ञेषु प्रणीयते अङ्गं नयति संनममानः। अक्नोपनो भवतीति स्थौलाष्ठीविः । न क्नोपयति न स्नेहयति । त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिः । स खलु एतेः अकारम् आदत्ते, गकारम् अनक्तेर्वा दहतेर्वा नीः पर' ( या ७,१४ ) इति। ईदृश हे अग्ने स्तुवानं मया दत्तं हविः प्रशंसन्तम् अस्माभिः स्तूयमानं वा देवम् आ वह आनय । मदीयं कर्म प्रापय । वह प्रापणे । अस्मात् लोटि ‘अतो हेः' (पा ६,४,१०५) इति हेर्लुक् । स्तुवानम् इति । ष्टुञ् स्तुतौ कर्तरि लटः शानच् आदेशः। कर्मणि लटो वा शानचि यगभावश्छान्दसः । 'अचि श्नुधातु' (पा ६,४,७७ ) इत्यादिना उवङ् । अग्नेः आवहनकर्तृत्वम् अन्यत्रापि आम्नातम् – 'अग्ने देवाँ इहा वह जज्ञानो वृक्तबहिर्षे' (ऋ १,१२,३ ) इति । 'अग्निम् अग्न आवह' (तैब्रा ३,५,३,२ ) इति च । किमीदिनं किम् किम् इदानीं वर्तत इति चरन्तम् । 'किमीदिने किम् इदानीमिति चरते' (या ६,११) इति यास्कः। जिघांसया प्रच्छन्नचारिणं यातुधानं राक्षसम् । अपसारय इति योग्यक्रियाध्याहारः। यद्वा हे अग्ने स्तुवानम् । विभक्तिव्यत्ययः । स्तूयमानः त्वं किमीदिनं यातुधानं राक्षसम् आ वह प्रतीकारार्थम् अस्मिन् जने आवेशय । अथ वा निग्रहार्थं स्वसमीपम् आनयेत्यर्थः । यद्वा हे अग्ने त्वत् सकाशाद् भीत्या त्वां स्तुवन्तं तं यातुधानम् इति सामानाधिकरण्येन संबन्धः। अपि च हे देव दानादिगुणयुक्त त्वं वन्दितः अस्माभिर्नमस्कारादिना प्रार्थितः सन् दस्योः उपक्षयकारिणो राक्षसादेः। दसु उपक्षये। अस्माद् औणादिको युप्रत्ययः। तस्य हन्ता घातयिता हि यस्मात् कारणात् बभूविथ भवसि तस्माद् आ वहेति पूर्वेण संबन्धः। भू सत्तायाम्। 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति वर्तमानेर्थे लिट् । 'हि च' (पा ८,१,३४) इति निघातप्रतिषेधः।।


यज्ञकर्मणि हस्तयोः स्वरूपम्

आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।

अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥

आज्यस्य । परमेऽस्थिन् । जातऽवेदः । तनूऽवशिन् ।

अग्ने । तौलस्य । प्र । अशान । यातुऽधानान् । वि । लापय ॥ २ ॥

हे परमेष्ठिन् । उत्कृष्टस्थाने तिष्ठतीति परमेष्ठी। स्वर्गाद्युत्कृष्टस्थाननिवासिन् । तिष्ठतेः औणादिकः किनिप्रत्ययः। 'तत्पुरुषे कृति बहुलम्' (पा ६, ३,१४ ) इति सप्तम्या अलुक् । 'अम्बाम्बगोभूमि' (पा ८,३,९७) इत्यादिना षत्वम्। 'आमन्त्रितस्य च' (पा ८,१,१९) इति आष्टमिकं सर्वानुदात्तत्वम् । हे जातवेदः जातानां वेदितः। जातशब्दोपपदात् विद ज्ञाने इत्यस्मात् 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' ( पाउ ४,२२७) इति असुन् । अस्य पादादित्वाद् आष्टमिकनिघाताभावे ‘आमन्त्रितस्य च' (पा ६,१,१९८ ) इति षाष्ठिकम् आद्युदात्तत्वम् । यास्कस्तु बहुधा निरवोचत्-- 'जातवेदाः कस्मात् । जातानि वेद, जातानि वैनं विदुः, जातेजाते विद्यत इति वा, जातवित्तो वा. जातधनो वा. जातविद्यो, वा जातप्रज्ञो वा । यत्तज्जातः पशून् अविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति हि ब्राह्मणम् ' ( या ७, १९) इति । हे तनूवशिन् तनूनां सकलप्राणिशरीराणां जाठराग्निरूपेण वशयितः ईदृशमहिमोपेत हे अग्ने तौलस्य। तुलावत् हयमानद्रव्यस्य परिच्छेदकत्वात् स्रुक्स्रुवादिकम् अत्र तुलाशब्देन उच्यते । तत्र स्रुवादौ स्थितम् आज्यं तौलम् । 'तस्येदम्' (पा ४,३,१२० ) इति अण् । यद्वा तुल उन्माने । अस्मात् कर्मणि घञ्। तोल्यते उन्मीयते स्रुवादिना अवदीयत इति तोलम्। स्वार्थिकस्तद्धितः राक्षसवायसादिवत् । अवदीयमानस्य आज्यस्य। ‘क्रियाग्रहणं कर्तव्यम्' (पावा १,४,३२) इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। आज्यं प्राशान अद्धि । आज्यस्य भागम् इति भागपदाध्याहारेण वा संबन्धः। अश भोजने। लोण्मध्यमैकवचने 'हलः श्नः शानज्झौ' (पा ३,१,८३ ) इति श्नाप्रत्ययस्य शानजादेशः। 'अतो हेः' ( पा ६,४,१०५) इति हेर्लुक् । अस्माभिर्दत्तं हविः स्वीकृत्य प्राप्तबलः सन् यातुधानान् उपद्रवकारिणो राक्षसान् वि लापय विनाशय । लीङ् श्लेषणे। अस्मात् 'हेतुमति च' (पा ३,१,२६) इति णिच् । 'विभाषा लीयतेः' (पा ६,१,५१) इति आत्त्वम् । 'अर्त्तिह्री' (पा ७,३,३६ ) इत्यादिना पुगागमः । यद्वा रप लप व्यक्तायां वाचि। अस्मात् णिच् । 'अत उपधायाः' (पा ७,२,११६) इति वृद्धिः । वीत्युपसर्गवशाद् अत्र धातुः वचनविशेषं परिदेवनम् आह । तद् उक्तम्--

'धात्वर्थं बाधते कश्चित् कश्चित् तम् अनुवर्तते ।

तमेव विशिनष्ट्येक उपसर्गगतिस्त्रिधा ॥' इति ।

आर्तस्वरान् कुर्वित्यर्थः।


वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।

अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥

वि । लपन्तु । यातुऽधानाः । अत्त्रिणः । ये । किमीदिनः ।

अथ । इदम् । अग्ने । नः । हविः । इन्द्रः । च ।प्रति । हर्यतम् ॥ ३ ॥

अत्त्रिण: अदनशीलाः सर्वेषां भक्षकाः। अद भक्षणे । 'अदेस्त्रिनिश्च' (पाउ ४,६८) इति औणादिकस्त्रिनिप्रत्ययः । प्रत्ययस्वरेण अन्तोदात्तत्वम् । किमीदिनः किं किम् इदानीं वर्तत इति स्वप्रवृत्तये कालान्वेषणं कुर्वन्तः । अथ वा किम् इदं किम् इदम् इति स्वोचितं पदार्थम् अन्विष्य चरन्तः ये प्रसिद्धा यातुधानाः राक्षसाः सन्ति ते वि लपन्तु परिदेवनं कुर्वन्तु। हे अग्ने त्वया पीडिताः सन्तः विनश्यन्तु इत्यर्थः। अथ क्रियमाणयागाद्यन्तरायकारिरक्षोविनाशानन्तरम् हे अग्ने त्वम् इन्द्रः परमैश्वर्ययुक्तो देवश्च नः अस्मदीयम् इदम् आज्यादिरूपं हविः प्रति लक्षीकृत्य हर्यतम् आगच्छतम् कामयेथां वा। स्वीकुरुतम् इत्यर्थः । हर्य गतिकान्त्योः । इन्द्र इति । इदि परमैश्वर्ये । 'ऋज्रेन्द्राग्र' (पाउ २,२८ )इत्यादिना रन्प्रत्ययान्तो निपातितः । नित्त्वाद् आद्युदात्तत्वम् ।


अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।

ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥

अग्निः । पूर्वः । आ । रभताम् । प्र । इन्द्रः । नुदतु । बाहुऽमान् ।

ब्रवीतु । सर्वः । यातुऽमान् । अयम् । अस्मि । इति । आऽइत्य ॥ ४ ॥

अग्निः अङ्गनादिगुणयुक्तो देवः पूर्वः सर्वदेवानां पुरोगामी सन् आ रभतां यातुधानान् निग्रहीतुम् उपक्रमताम् । रभ राभस्ये। राभस्यं कार्योपक्रमः। 'अग्निः खलु वै रक्षोहा' (तै ६,१,४,६) इति हि तैत्तिरीयकम् । अग्नेः प्राथम्यमपि तत्रैव आम्नातम्- ‘अग्निरग्रे प्रथमो देवतानाम्' (तैब्रा २,४,३,३) इति । तदनन्तरं बाहुमान् बलवत्त्वेन प्रशस्तबाहुयुक्तः । भूमनिन्दाप्रशंसासु इति प्रशंसायां बाहुशब्दात् मतुप् । ‘ह्रस्वनुड्भ्यां मतुप्' (पा ६,१,१७६) इति मतुप् उदात्तत्वम् । ईदृश इन्द्रः प्रानुदतु यातुधानान् प्रेरयतु अपसारयतु। नुद प्रेरणे । तुदादित्वात् शः। शस्य ङित्त्वात् लघूपधगुणाभावः। तिपः पित्त्वाद् अनुदात्तत्वे विकरणस्य प्रत्ययस्वरेण उदात्तत्वे प्राप्ते 'तिङ्ङतिङः' (पा ८,१,२८ ) इति सर्वानुदात्तत्वम् । 'व्यवहिताश्च' (पा १,४,८२) इति उपसर्गस्य व्यवहितप्रयोगः । इन्द्रेण प्रणुद्यमानो यातुमान् । यातूनि रक्षांसि विद्यन्ते अस्मिन्निति यातुमान् राक्षसाधिपतिः । यद्वा यातवो यातनाः। यत निकारोपस्कारयोः इत्यस्मात् औणादिक उण् । ता अस्मिन् विद्यन्त इति यातुमान् तादृशः सर्वः निखिलो यातुधानः एत्य इमं देशम् आगत्य अयम् अयम् अस्मि एतन्नामकोहं भवामि इति ब्रवीतु कथयतु। आत्मानं प्रकाश्य निर्गच्छतु इत्यर्थः। एत्येति । आङ्पूर्वाद् इण् गतौ इत्यस्मात् 'समासेऽनञ्पूर्वे क्त्वो त्न्यप्' (पा ७,१,३७) इति क्त्त्वाप्रत्ययस्य ल्यबादेशः । तस्य पित्त्वात् ‘ह्रस्वस्य पिति कृति०' (पा ६,१,७१) इति तुक् । ब्रवीत्विति । ब्रूञ् व्यक्तायां वाचि । अदादित्वाच्छपो लुक् । ‘ब्रुव ईट्' (पा ७,३,९३) इति ईडागमः।


पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।

त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥

पश्याम । ते । वीर्यम् । जातऽवेदः । प्र । नः । ब्रूहि । यातुऽधानान् । नृऽचक्षः ।

त्वया । सर्वे । परिऽतप्ताः । पुरस्तात् ।ते। आ । यन्तु । प्रऽब्रुवाणाः । उप । इदम् ॥ ५ ॥

हे जातवेदः जातानाम् उत्पन्नानां वेदितरग्ने ते तव वीर्यं सामर्थ्यं पश्याम द्रक्ष्यामः । दृशिर् प्रेक्षणे । अस्मात् लोटि उत्तमबहुवचने ‘आडुत्तमस्य पिच्च' (पा ३,४,९२) इति आडागमः । शपि 'पाघ्रा' (पा ७,३,७८) इत्यादिना धातोः पश्यादेशः । मसः पिद्वद्भावात् शपश्च पित्त्वात् अनुदात्तत्वे धातुस्वरेण आद्युदात्तत्वम् । वीर्यम् इति । 'बिल्वभक्ष्यवीर्याणि छन्दसि' (फि ४,९) इति अन्तस्वरितत्वम् । हे नृचक्षः न ॄन् मनुष्यान् चष्टे पश्यतीति नृचक्षाः। अतिरोहितज्ञानतया सर्वं साक्षात् कर्तुं शक्त इत्यर्थः । यद्वा नृभिर्मनुष्यैः ख्यायते दृश्यते उपास्यत्वेन साक्षात् क्रियत इति नृचक्षाः। 'चष्टिः पश्यतिकर्मा' (तु निघ ३, ११) इति यास्कः । चक्षिङ् व्यक्तायां वाचि । नृशब्दोपपदाद् अस्मात कर्तरि कर्मणि वा असुन् । 'असनयोश्च प्रतिषेधो वक्तव्यः' (पावा २,४,५४ ) इति ख्याञादेशाभावः । हे तथाविध अग्ने नः अस्माकं बाधकान् यातुधानान् राक्षसान् प्र ब्रूहि प्रकथय । यथा अस्मान् पुनःपुनर्न बाधन्ते तथा यातुधानान् आज्ञापयेत्यर्थः । ब्रूहि । ब्रूञ् व्यक्तायां वाचि । अदादित्वात् शपो लुक् । 'सेर्ह्यपिच्च' (पा ३,४,८७) इति हेः अपित्त्वेन ङित्त्वात् 'किक्ङति च' (पा १,१, ५) इति गुणप्रतिषेधः। अपि च त्वया एवम् आज्ञापयता पुरस्तात् पूर्वस्मिन् काले' परितप्ताः परितः समन्ताद दग्धाः ते सर्वे यातुधानाः प्रब्रूवाणाः स्वस्वनामादिकं कथयन्तः प्रलपन्तो वा इदं क्रियमाणं कर्म उप आ यन्तु उप समीपम् आयन्तु आगच्छन्तु । आगत्य विनश्यन्तु इत्यर्थः। पुरस्तादिति । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (पा ५,३,३९) 'अस्ताति च' (पा ५,३,४० ) इति पूर्वशब्दात् अस्तातिप्रत्ययः तत्संनियोगेन पुरादेशश्च । प्रब्रुवाणा इति। प्रपूर्वात् ब्रूञः लटः शानच् । चित्त्वाद् अन्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वेनापि स एव शिष्यते ।


आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।

दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥

आ । रभस्व । जातऽवेदः । अस्माकं । अर्थाय । जज्ञिषे ॥

दूतः । नः । अग्ने । भूत्वा । यातुऽधानान् । वि । लापय ॥ ६ ॥

हे जातवेदः जातानां वेदितरग्ने आ रभस्व राक्षसापनोदनकर्म कर्तुम् उपक्रमस्व । तत्र कारणम् आह - अस्माक । अस्मदः षष्ठीबहुवचनस्य 'साम आकम्' (पा ७,१,३३ ) इति आकम् आदेशः। शेषे लोपे अन्त्यलोपश्छान्दसः। यदा हि शेषे लोपष्टिलोप इष्यते तदा ‘अनुदात्तस्य च यत्रोदात्तलोपः' (पा ६,१,१६१ ) इति आकम आदेरुदात्तत्वम् । यदा तु अन्त्यलोपः तदा 'एकादेश उदात्तेनोदात्तः' (पा ८,२,५) इति उदात्तत्वम् । ग्रहरोगादिपीडितानाम् अस्माकम् अर्थाय प्रयोजनाय । प्रेप्सितं प्रयोजनं संपादयितुम् इत्यर्थः। यद्वा अर्थशब्दो निवृत्तिवचनः। अनर्थनिवृत्तये यतस्त्वं जज्ञिषे जातवानसि । जनी प्रादुर्भावे । अस्मात् लिटि 'असंयोगाल्लिट् कित्' (पा १,२,५) इति लिटः कित्त्वे 'गमहन' (पा ६,४,९८ ) इत्युपधालोपः। तस्य 'द्विर्वचनेऽचि' (पा १,१,५९) इति स्थानिवद्भावात् साच्कस्य द्विर्वचनम् । 'आर्धधातुकस्येड् वलादेः' (पा ७,२,३५) इति इडागमः। ततः हे अग्ने नः अस्माकं दूतः यथोक्तकर्मकरो भूत्वा अभूततद्भावद्योतकेन भूत्वा इत्यनेन स्वयम् अदूतः सन्नपि दूतवत् संनिहितो भूत्वा मदभिलषितं कुरु इत्युक्तं भवति । यातुधानान् राक्षसान् वि लापय विनाशय ।।


त्वमग्ने यातुधानान् उपबद्धामिहा वह ।

अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥

त्वम् । अग्ने । यातुऽधानान् । उपऽबद्धान् । इह । आ । वह ।

अथ । एषाम् । इन्द्रः । वज्रेण । अपि । शीर्षाणि । वृश्चतु ॥ ७ ॥

हे अग्ने त्वं यातुधानान् राक्षसान् उपबद्धान् रज्ज्वादिबद्धहस्तपादाद्यवयवान् कृत्वा इह अस्मिन् देशे आ वह आनय । अथ अनन्तरमेव इन्द्रो देवानाम् अधिपतिः एषां यातुधानानां शीर्षाणि शिरांस्यपि वज्रेण कुलिशेन वृश्चतु छिनत्तु । ओव्रश्चू छेदने । तुदादित्वात् शः। तस्य ‘सार्वधातुकम् अपित् ' (पा १,२,४ ) इति ङित्त्वात् 'ग्रहिज्या' (पा ६, १,१६) इत्यादिना संप्रसारणम् ।

इति द्वितीयेनुवाके प्रथमं सूक्तम् ॥