← सूक्तं १.७ अथर्ववेदः - काण्डं १
सूक्तं १.८
चातनः
सूक्तं १.९ →
दे. १-२ बृहस्पति-, अग्नीषोमौ च, ३-४ अग्निः( जातवेदाः)। १-३ अनुष्टुप्, ४ बार्हतगर्भा त्रिष्टुप्।

इदं हविर्यातुधानान् नदी फेनमिवा वहत्।
य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥
अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।
बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥
यातुधानस्य सोमप जहि प्रजां नयस्व च ।
नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥
यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।
तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥


सायणभाष्यम्

'इदं हविः' इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः। सूत्रमपि तत्रैव उदाहृतम् ॥


इदं हविर्यातुधानान् नदी फेनमिवा वहत्।

य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥

इदम् । हविः । यातुऽधानान् । नदी । फेनम्ऽइव । आ । वहत् ।

यः । इदम् । स्त्री । पुमान् । अकः । इह । सः । स्तुवताम् । जनः ॥१॥

इदं मया अग्न्यादिदेवेभ्यो दीयदानं हविः आज्यादिरूपं यातुधानान् रक्षःपिशाचादीन् आ वहत् आ समन्ताद् गमयतु । अस्मात् स्थानात् प्रच्यावयतु इत्यर्थः । वह प्रापणे । 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६ ) इति प्रार्थनायां लङ्। तत्र दृष्टान्तः-- नदी तरङ्गिणी फेनमिव । सा यथा स्वकीयेन प्रवाहेण फेनं देशाद् देशान्तरं प्रापयति तद्वद् इत्यर्थः। नद ध्वन शब्दे। नदति ध्वनतीति नदी। पचाद्यच् । तत्र नदट् इति टित्वेन पाठात 'टिड्ढाणञ् (पा ४,१,१५) इति ङीप् । 'यस्य' (पा ६,४,१४८ ) इति लोपे उदात्तनिवृत्तिस्वरे ङीप उदात्तत्वम। 'नदनान्नद्यः' ( या २,२४ ) इति यास्कः । मन्त्रवर्णश्च-- 'यददः संप्रयतीरहावनदता हते। तस्मादा नद्यो नाम स्थ' (अ ३,१३,१) इति। तदनन्तरम् इदम् अभिचारकर्म यो जनः स्त्री वा पुमान् वा अकः अकार्षीत् । डुकृञ् करणे । अस्मात् लुङि मन्त्रे घस” (पा २,४,८०) इति च्लेर्लुक् । गुणे 'हल्ङयाब्भ्यः ' (पा ६,१,६८ ) इति तिलोपः। 'यद्वृत्तान्नित्यम्' (पा ८,१,३६) इति निघातप्रतिषेधः । स जनः स्वकीयस्य अभिचारकर्मणो निष्फलत्वेन अनाप्तकामः सन् इह अस्मिन् देशे मत्समीपे स्थित्वा स्तुवतां स्तुतिं करोतु। मामेव शरणं प्राप्य सेवताम् इत्यर्थः । यद्वा यः स्त्री वा पुमान् वा जनः इदम् उक्तं हविः परकृतोपद्रवनिवृत्तये अकः अकार्षीत् हे अग्न्यादिदेव स जनः निवृत्तोपद्रवः सन् स्तुवताम् त्वां स्तुत्यादिना परिचरतु इत्यर्थः । ष्टुञ् स्तुतौ । अस्मात् लोटि व्यत्ययेन शः। 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातः।


अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।

बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥

अयम् । स्तुवानः । आ । अगमत् । इमम् । स्म । प्रति । हर्यत ।

बृहस्पते । वशे । लब्ध्वा । अग्नीषोमा । वि । विध्यतम् ॥ २ ॥

बृहस्पत्यादयो वक्ष्यमाणा [हे] देवाः अयं राक्षसपीडितो जनः स्तुवानः युष्मद्विषयां स्तुतिं कुर्वाणः आगमत् आगतवान् । बहुविधोपद्रवनिवृत्तये संरक्षकान् युष्मानेव प्राप्त इत्यर्थः। गम्लृ सृप्लृ गतौ। लुङि 'पुषादिद्युताद्य्लृदितः परस्मैपदेषु' (पा ३, १,५५) इति च्लेः अङादेशः। स्तुवान इति । लटः शानच् । अदादित्वात् शपो लुक् । शानचो ङिद्वद्भावाद् गुणाभावे उवङ् । 'चितः' (पा ६,१,१६३) इति अन्तोदात्तत्वम् । यत एवम् आगमत् अतो हेतोः इमं युष्मत्समीपं प्राप्तं जनं हे देवाः प्रति हर्यत स्म प्रतिकामयध्वम् । स्वकीयत्वेन परिगृह्णीतेत्यर्थः। हर्य गतिकान्त्योः । 'स्मे लोट्' (पा ३,३,१६५) 'अधीष्टे च' (पा ३,३,१६६) इति लोट् । हे बृहस्पते बृहतां महतां देवानां पालायितर्देव । 'तद्बृहतोः करपायोश्चोरदेवतयोः' ( पावा ६,१,१५७) इति सुट्तलोपौ । 'आमन्त्रितस्य च' (पा ६.१.१९८ ) इति षाष्ठिकम् आद्युदात्तत्वम् । त्वत्समीपं प्राप्तस्य अस्य उपद्रवकारिणः सर्वान वशे लब्ध्वा स्वाधीनान् कृत्वा तिष्ठ। ते यथा इमं जनं नोपसर्पन्ति तथा निरुध्य वर्तस्वेत्यर्थः। अपि च हे अग्नीषोमा अग्नीषीमौ । अग्निश्च सोमश्चेति द्वन्द्वे 'ईदग्नेः सोमवरुणयोः'( पा ६,३,२७ ) इति पूर्वपदस्य ईत्त्वम् 'अग्नेः स्तुत्स्तोमसोमाः' (पा ८,३,८२ ) इति षत्वम् । 'सुपां सुलुक्' ( पा ७,१,३९) इति पूर्वसवर्णदीर्घः। पादादित्वाद् आष्टमिकनिघाताभावे षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । युवां वि विध्यतं तान् उपद्रवकारिणो विविधं ताडयतम् । मारयतम् इत्यर्थः। अग्नीषोमौ हि राजत्वात् शिक्षाधिकारणौ इति तयोरेवात्र प्रार्थनम् । राजत्वं च तयोस्तैत्तिरीयके समाम्नायते -- 'राजानौ वा एतौ देवतानां यद् अग्नीषोमौ' (तै २,६,२,१;२ ) इति । व्यध ताडने । अस्माद् विपूर्वात् लोटि दिवादित्वात् श्यन् । तस्य ङिद्वद्भावात् 'ग्रहिज्या' (पा ६,१,१६ ) इत्यादिना संप्रसारणम् । यद्वा अयं यातुधानः युष्मत्तः अत्यर्थं भीतः सन् स्तुवानः युष्मान् स्तुवन् आगमत् युष्मन्निकटं प्राप्तवान् । इमम् आगतं यूयं प्रति हर्यत स्म अस्माकं प्रतिकूलम् अवगच्छत । हे बृहस्पते इमं वशे लब्ध्वा इत्यादि पूर्ववद् योज्यम्।


यातुधानस्य सोमप जहि प्रजां नयस्व च ।

नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥

यातुऽधानस्य । सोमऽप । जहि । प्रऽजाम् । नयस्व । च ।

निः । स्तुवानस्य । पातय । परम् । अक्षि । उत । अवरम् ।। ३ ॥

हे सोमप सोमरसस्य पातरग्ने । ‘आतोनुपसर्गे कः' (पा ३,२,३) इति कर्मणि उपपदे पिबतेः कप्रत्ययः। यातुधानस्य राक्षसस्य प्रजाम् पुत्रपौत्रादिलक्षणां संततिं जहि नाशय । हन हिंसागत्योः। अस्मात् लोटि 'सेर्ह्यपिच्च' (पा ३,४,८७ ) इति हिरादेशः। 'हन्तेर्जः' (पा ६,४,३६ ) इति धातोर्जादेशः । तस्य 'असिद्धवदत्रा भात्' (पा ६,४,२२) इति असिद्धत्वाद् 'अतो हेः' (पा ६,४,१०५) इति लुगभावः । यद्वा यातुधानस्य इति कर्मणि षष्ठी। यातुधानम् अस्मदुपद्रवकारिणं राक्षसं जहि । प्रजाम् अस्मदीयां नयस्व च अभिमतफलं प्रापय च । अनिष्टपरिहारम् इष्टप्राप्तिं च कुरु इत्यर्थः। अपि च स्तुवानस्य भीत्या त्वद्विषयां स्तुतिं कुर्वतः शत्रोः परम् उत्कृष्टं दक्षिणम् अक्षि । उतशब्दः अप्यर्थे । अवरम् निकृष्टं वामाक्ष्यपि । उभे अपि चक्षुषी निष्पातय स्वस्थानात् प्रच्यावय। विनाशयेत्यर्थः। तस्माद् दक्षिणोर्ध आत्मनो वीर्यावत्तरः' (तै १,७,६,३) इति श्रुत्या पुरुषशरीरे दक्षिणभागस्य अतिशयितवीर्यवत्त्वप्रतिपादनात् तद्भागवर्तिनश्चक्षुषः परत्वम् उक्तम् । तदपेक्षया च इतरस्य अवरत्वम् उन्नेयम् ।


यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।

तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥

यत्र । एषाम् । अग्ने । जनिमानि । वेत्थ । गुहा । सताम् । अत्त्रिणाम् । जातऽवेदः ।

तान् । त्वम् । ब्रह्मणा । वावृधानः । जहि । एषाम् । शतऽतर्हम् । अग्ने ॥ ४ ॥

हे जातवेदः जातानां वेदितरग्ने गुहा सताम् गुहायां निवसताम् अत्रिणाम् अदनशीलानाम् एषाम् रक्षसां यत्र यस्मिन् स्थानविशेषे विद्यमानानि जनिमानि जन्मानि वेत्थ जानासि । यत्रेति । 'सप्तम्यास्त्रल्' (पा ५,३,१०) 'प्राग्दिशो विभक्तिः' (पा ५,३,१) इति विभक्तिसंज्ञायां 'त्यदादीनामः' (पा ७,२,१०२) इति अत्वम् । 'लिति' (पा ६,१, १९३ ) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । जनिमानीति । जनी प्रादुर्भावे । अस्माद् भावे औणादिक इमनिन् प्रत्ययः । वेत्थेति। विद ज्ञाने । 'विदो लटो वा' ( पा ३,४,८३) इति सिपस्थलादेशः। लित्स्वरेण आद्युदात्तत्वम् । 'निपातैर्यद्यदिहन्त' (पा ८,१,३०) इति निघातप्रतिषेधः। सताम् इति । अस्तेर्लटः शत्रादेशः। अदादित्वात् शपो लुक् । 'श्नसोरल्लोपः' (पा ६,४,१११) इत्यकारलोपः । अत्त्रिणाम् इति। 'अदेस्त्रिनिश्च' ( पाउ ४,६८) इति त्रिनिप्रत्ययः। अतो हेतोः हे अग्ने त्वम् ब्रह्मणा मन्त्रेण वावृधानः वर्धमानः सन् । वृधु वृद्धौ । अस्मात् लिटः कानच् । तान् तत्र स्वस्थाने वर्तमानान् राक्षसान् जहि नाशय । तथा एषाम् यातुधानानां शततर्हम् शतप्रकारं बहुविधं हिंसनं च निवर्तय । तत्कृतोपद्रवजातमपि नाशयेत्यर्थः। यद्वा ब्रह्मणा परिवृढेन अस्माभिर्दत्तेन हविषा वावृधानः वर्धमानः प्रवृद्धबलस्त्वम् तान् अत्त्रिणो राक्षसान् एषाम् रक्षसां त्वया ज्ञातानि पुत्रपौत्रादिरूपाणि जन्मानि च शततर्हम् । क्रियाविशेषणम् एतत् । शतशो बहुशस्तर्हणं हिंसनं यथा भवति तथा जहि । निरवशेषं नाशयेत्यर्थः। तृह हिसि हिंसायाम् । अस्माद् भावे घञ् ।

इति प्रथमकाण्डे द्वितीयेनुवाके द्वितीयं सूक्तम् ।