← सूक्तं १.८ अथर्ववेदः - काण्डं १
सूक्तं १.९
अथर्वा।
सूक्तं १.१० →
दे. १ वसवः, इन्द्रः, पूषा, वरुणः, मित्रः, अग्निः, आदित्याः, विश्वे देवाः, २ देवाः, सूर्यः, अग्निः, हिरण्यं, ३-४ अग्निः ( जातवेदाः) । त्रिष्टुप्।

अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।
इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।
सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥
येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।
तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥
ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।
सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥


सायणभाष्यम्

'अस्मिन् वसु' इति सूक्तेन सर्वसंपत्कर्मसु वासितयुग्मकृष्णलमणिबन्धनम् सारूपवत्सौदने पुरुषाकृतिम् आलिख्य तत्प्राशनं च कुर्यात् । तथा च सूत्रम् -–'अस्मिन् वसु' xxx इति युग्मकृष्णलं वासितं बध्नाति । सारूपवत्सं पुरुषगात्रम्' ( कौसू ११,१९,२० ) इत्यादि । अत्र वासितम् इत्यस्य अयम् अर्थः-–'त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति । आशयति' ( कौसू ७,१९:२० ) इति परिभाषणात् त्रयोदश्यादिषु दिवसेषु दधिमधुपूर्णे पात्रे मणिं प्रक्षिप्य चतुर्थहनि तन्मणिबन्धनं तद्दधिमधुप्राशनं च कुर्याद् इति। तथा शत्रुणा राष्ट्रात् प्रच्यावितस्य राज्ञः पुनः स्वराष्ट्रप्रवेशार्थं छेदनप्रदेशात् पुनः प्ररूढैः काम्पीलकाष्ठैः शृतं लूनपुनरुत्थितव्रीहिजम् ओदनम् अनेनैव सूक्तेन प्राशयेत् । तथा च संहिताविधौ –'अस्मिन् वस्विति राष्ट्रावगमनम् । आनुशूकानां व्रीहीणाम् आव्रस्कजैः काम्पीलैः शृतं सारूपवत्सम् आशयति' ( कौसू १६,२७,२८ ) इति । तथा आयुष्कामः युग्मकृष्णलमणिं स्थालीपाके प्रक्षिप्य तन्मणिबन्धनम् तदोदनप्राशनं च अनेनैव सूक्तेन कुर्यात् । तथा च कौशिकः-–'अस्मिन् वसु' xxx इति युग्मकृष्णलम् आदिष्टानां स्थालीपाक आधाय बध्नाति। आशयति' (कौसू ५२,२०, २१) इति ।

तथा उपनयनकर्मणि माणवकानुमन्त्रणेपि एतत् सूक्तं विनियुक्तम् । 'उपनयनम्' प्रक्रम्य सूत्रितम्--"प्राञ्चम् अवस्थाप्य दक्षिणेन पाणिना नाभिदेशे संस्तभ्य जपति । 'अस्मिन् वसु वसवो धारयन्तु' (अ १,९) 'विश्वे देवा वसवः' (अ १,३०) 'आ यातु मित्रः' (अ ३,८) 'अमुत्र भूयात्' (अ ७,५५) 'अन्तकाय मृत्यवे' (अ ८,१) 'आ रभस्व' (अ ८,२) 'प्राणाय नमः' (अ ११,६) 'विषासहिम्' (अ १७,१) इत्यभिमन्त्रयते” (कौसू ५५,१-१७) इति ।

एतेषामेव आयुष्यगणत्वात् 'आयुष्यस्वस्त्ययनैराज्यं जुहुयात्' (कौसू १३९,७) इति सूत्राद् उपाकर्मादिष्वपि एतत् सूक्तं द्रष्टव्यम् ।

तथा ‘ऐरावतीं गजक्षये' (शाक १७,५) इति विहितायाम् ऐरावत्याख्यायां महाशान्तावपि अस्य विनियोगः । तथा [च] शान्तिकल्पे–- 'आयुष्यशान्तिस्वस्तिगण ऐरावत्याम्' (शाक १८,८) इति । तथा 'बार्हस्पत्यां राज्यश्रीब्रह्मवर्चसकामस्य' (शाक १७,१) इत्युक्तायाम् 'अस्मिन् वस्विति युग्मकृष्णलं बार्हस्पत्यायाम्' (शाक १९,२) इत्युक्तत्वाद् बार्हस्पत्याख्यायां महाशान्तौ युग्मकृष्णलमणिबन्धनेपि एतत् सूक्तं द्रष्टव्यम् ।

पुष्पाभिषेककर्मणि [अपि] एतत् सूक्तम् [ द्रष्टव्यम् । तथा च परिशिष्टे --

'शर्मवर्मगणश्चैव तथा स्याद् अपराजितः ।

आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः॥

एतान् पञ्च गणान् हुत्वा वाचयेत द्विजोत्तमान् ।' (अप ५,३,५, ४,१) इति ।


अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।

इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥

अस्मिन् । वसु । वसवः । धारयन्तु । इन्द्रः। पूषा। वरुणः । मित्रः । अग्निः।

इमम् । आदित्याः । उत । विश्वे । च । देवाः। उत्ऽतरस्मिन् । ज्योतिषि । धारयन्तु ॥१॥

अस्मिन् जने सर्वसंपदादिफलकामे वसवः निवासहेतुभूता एतत्संज्ञा देवाः वसु अभिलषितं धनं धारयन्तु स्थापयन्तु । धृञ् धारणे । अस्मात् णिच् । वसव इति । वस निवासे । 'शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' (पाउ १,१०) इति उप्रत्ययः । तत्र 'धान्ये नित्' (पाउ १,९) इत्यनुवृत्तेः 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तत्वम् । न केवलं वसवः अपि तु इन्द्रः परमैश्वर्ययुक्तो देवानाम् अधिपतिर्देवः । इदि परमैश्वर्ये । 'ऋज्रेन्द्राग्र' (पाउ २,२८) इत्यादिना रन्प्रत्ययान्तो निपातितः। नित्त्वाद् आद्युदात्तत्वम् । यद्वा इदंकारास्पदं विश्वं कारणभूतब्रह्मात्मना अद्राक्षीदिति इन्द्रः। श्रूयते हि ऐतरेयके- 'स एतमेव पुरुषं ब्रह्म ततमम् अपश्यद् इदम् अदर्शमितीं ३ तस्माद् इदन्द्रो नाम इदन्द्रो ह वै नाम तम् इदन्द्रं सन्तम् इन्द्रम् इत्याचक्षते परोक्षेण' (ऐआ २,४,३) इति । पूषा पोषकः एतन्नामा देवः । 'पूष्णः पोषेण मह्यम्' (तैब्रा १,२,१,१९) 'पूषापोषयत्' (तैब्रा १,६,२,२) इत्यादिश्रुतेः । पुष पुष्टौ। 'श्वन्नुक्षन्' (पाउ १,१५९ ) इत्यादिना कनिन्प्रत्ययान्तो निपातितः । प्रत्ययस्वरेण अन्तोदात्तत्वम् । वरुणः वृणोति सर्वं जगत् निग्रहीतुं पाशजालेन व्याप्नोतीति वरुणो रात्र्यभिमानी देवः। तथा च श्रूयते-- 'ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा' ( आपश्रौ ३,१३,१), 'उदुत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय' ( ऋ १,२४,१५) इति च । वृज् वरणे । 'क ॄत ॄवृदारिभ्य उनन्' (पाउ ३,५३) इति उनन्प्रत्ययः । नित्त्वाद् आद्युदात्तत्वम् । मित्रः अहरभिमानी देवः । 'अहोरात्रे वै मित्रावरुणौ' (तै २,४ १०,१) इत्यादिश्रुतेः । सर्वस्य मरणत्रायकत्वेन सर्वजनमित्रत्वात् मित्र इत्युच्यते । 'सर्वस्य वा अहं मित्रम् अस्मि' (तै ६,४,८,१ ) इति हि तैत्तिरीयकम् । 'मित्रः प्रमीतेस्त्रायते' ( या १०,२१) इति यास्कः। अग्निः एतेषाम् इन्द्रादीनाम् अग्रणीः मुख्यभूतो वा देवः । 'अग्निरग्रे प्रथमो देवतानाम्' ( तैब्रा २,४,३,३ ) 'अग्निर्मुखं प्रथमो देवतानाम्' (ऐब्रा १,४ ) इति च श्रुतेः । एतेपि अस्मिन् वसु धारयन्तु इति संबन्धः । उत अपि च आदित्याः । अदितिः अदीना देवमाता तस्याः पुत्रा आदित्याः धात्रर्यमादयो देवाः। श्रूयते हि तैत्तिरीयके -–'अदितिः पुत्रकामा' इत्यारभ्य 'तस्यै धाता चार्यमा चाजायेताम्' ( तैब्रा १,१, ९,१) इत्यादि । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' (पा ४,१,८५) इति अदितिशब्दात् षष्ठीसमर्थाद् अपत्येर्थे प्राग्दीव्यतीयो ण्यप्रत्ययः। प्रत्ययस्वरेण अन्तोदात्तत्वम् । विश्वे सर्वे अन्ये देवाश्च । यद्वा विश्वे देवाः एतत्संज्ञका गणदेवाः इमम् पुरुषम् उत्तरस्मिन् उत्कृष्टतरे ज्योतिषि तेजसि धारयन्तु स्थापयन्तु । तेजसा सर्वोत्कृष्टं कुर्वन्तु इत्यर्थः ।


अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।

सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥

अस्य । देवाः । प्रऽदिशि । ज्योतिः । अस्तु । सूर्यः । अग्निः । उत । वा । हिरण्यम् ।

सऽपत्नाः । अस्मत् । अधरे । भवन्तु । उत्तमम् । नाकम् । अधि । रोहय । इमम् ॥ २ ॥

हे देवाः इन्द्रादयः युष्मदाज्ञया अस्य ग्रामादिफलकामस्य पुरुषस्य । कर्तरि कर्मणि वा षष्ठी। प्रदिशि प्रदेशने प्रशासने। आज्ञायाम् इत्यर्थः । ज्योतिरस्तु भवतु । किं तज्ज्योतिरिति तद् आह—सूर्यः मार्ताण्डः सर्वस्य प्रकाशको देवः। अग्निः और्वजाठरवैद्युतादिरूपः अङ्गनादिगुणयुक्तो देवः । एतत् चन्द्रादीनामपि उपलक्षणम् । उतशब्दः अप्यर्थे । वाशब्दः चार्थे । अपि च हिरण्यम् सुवर्णम् । अस्य सितभास्वररूपत्वात् ज्योतिष्ट्वम् । श्रुतं च –'ज्योतिर्वै हिरण्यं ज्योतिषैव तमोपहते' ( तै.५,७,५,२) इति । सूर्यादिकं ज्योतिः प्रकाशप्रवर्षणादिना अस्य उपकरोतु । निखिलसंपन्मूलभूतं धनमपि अस्य वशे वर्तताम् इत्यर्थः । प्रदिशीति । दिश अतिसर्जने । अस्मात् प्रपूर्वात् संपदादिलक्षणो भावे क्विप् । यत एवम् अतः सपत्नाः शत्रवः । सपत्नशब्दः शत्रुपर्यायः अव्युत्पन्नं प्रातिपदिकम् । यद्वा सपत्नीव सपत्नः। 'व्यन्त्सपत्ने' (पा ४,१, १४५) इति निपातनात् सपत्नीशब्दाद् इवार्थे अकारप्रत्ययः । अस्मत् अस्मदीयात् पुरुषात् । यद्वा अस्मत् अस्मात् । छान्दसं ह्रस्वत्वम्। अधरे निकृष्टा भवन्तु । उपक्षीणा भवन्तु इत्यर्थः । अपि च न केवलम् ऐहिकमेव, आमुष्मिकमपि सुखं प्रार्थयते । उत्तमम् उत्कृष्टतमम् । उच्छब्दाद् उत्कृष्टक्रियावचनाद् आतिशायनिकस्तमप् । 'उत्तमशश्वत्तमौ सर्वत्र' इति उञ्छादिषु पाठाद् 'उञ्छादीनां च' (पा ६,१,१६० ) इति अन्तोदात्तत्वम् । तादृशं नाकम् । कं सुखम् अकं दुःखम् । न विद्यतेस्मिन् अकम् इति नाकः स्वर्गः। श्रूयते हि - 'सुवर्गो वै लोको नाको यस्यैता उपधीयन्ते नास्मा अकं भवति' (तै ५,३ ७,१) इति । 'नभ्राण्नपाद्' (पा ६,३,७५) इत्यादिना नञः प्रकृतिभावात् नलोपाभावः। 'बहुव्रीहौ प्रकृत्या' (पा ६,२,१ ) इति पूर्वपदप्रकृतिस्वरत्वम् । 'नञ्सुभ्याम्' (पा ६,२,१७२) इति व्यत्ययेन न प्रवर्तते । दुःखलेशेनापि असंस्पृष्टं लोकम् इमम् पुरुषम् अधि रोहय । व्यत्ययेन एकवचनम् । हे देवाः अधिरोहयत प्रापयत । ऐहिकम् आमुष्मिकं च सुखं प्रयच्छतेत्यर्थः।


येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।

तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥

येन । इन्द्राय । सम्ऽअभरः । पयांसि । उत्ऽतमेन । ब्रह्मणा । जातऽवेदः ।

तेन । त्वम् । अग्ने । इह । वर्धय । इमम् । सऽजातानाम् । श्रैष्ठ्ये । आ। धेहि । एनम् ॥ ३ ॥

हे जातवेदः जातानां वेदितरग्ने येन अतिशयितवीर्यवता उत्तमेन उत्कृष्टतमेन ब्रह्मणा मन्त्रेण करणभूतेन पयांसि क्षीराज्यादिरूपाणि हवींषि इन्द्राय देवानाम् अधिपतये समभरः समहरः प्रापितवान् असि । हृञ् हरणे अस्मात् लङि सिप् । 'हृग्रहोर्भश्छन्दसि' ( पावा ८,२,३२ ) इति भत्वम् । 'लुङ्लङ्लृङ्क्ष्वड् उदात्तः' (पा ६,४,७१) इति अडागम उदात्तः। 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः । 'तिङि चोदात्तवति' (पा ८,१,७१) इति गतेरनुदात्तत्वम् । हे अग्ने त्वं तेन तथा विधेन ब्रह्मणा इमम् संपदादिफलकामं पुरुषम् इह अस्मिन् लोके स्वकीये अवस्थाने वर्धय समर्धय । अस्य अभिमतफलसमृद्धिं कुर्वित्यर्थः । अपि च सजातानाम् समानजन्मनां पुरुषाणां मध्ये श्रैष्ठ्ये श्रेष्ठत्वे एनम् पुरुषम् आ धेहि निधेहि स्थापय । ज्ञातीनां मध्ये एनम् उत्कृष्टतमं कुर्वित्यर्थः। डुधाञ् धारणपोषणयोः। अस्मात् लोट् । 'सेर्ह्यपिच्च' (पा ३,४,८७ ) इति हिरादेशः । 'ध्वसोरेद्धावभ्यासलोपश्च' (पा ६,४,११९) इति एत्वाभ्यासलोपौ । श्रैष्ठ्य इति । प्रशस्यशब्दाद् आतिशायनिक इष्ठन्प्रत्ययः । 'प्रशस्यस्य श्रः' ( पा ५,३,६० ) इति प्रशस्यशब्दस्य श्रादेशः । अस्मादेव आदेशविधानसामर्थ्याद् 'अजादी गुणवचनादेव' (पा ५,३,५८) इति नियमस्य बाधितत्वाद् अगुणवचनादपि इष्ठन्प्रत्ययः । 'प्रकृत्यैकाच्' (पा ६,४,१६३) इति प्रकृतिभावात् टिलोपयस्येतिचलोपयोरभावः। श्रेष्ठस्य भावः श्रैष्ठ्यम् । ब्राह्मणादेराकृतिगणत्वाद् 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' (पा ५, १,१२४ ) इति ष्यञ् । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इति आद्युदात्तत्वम् ।


ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।

सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥

आ । एषाम् । यज्ञम् । उत । वर्चः । ददे । अहम् । रायः । पोषम् । उत । चित्तानि । अग्ने ।

सऽपत्नाः । अस्मत् । अधरे । भवन्तु । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥ ४ ॥

हे अग्ने त्वत्प्रसादाद् एषाम् शत्रूणां संबन्धिनं यज्ञम् स्वर्गादिसाधनं पुण्यकर्म अहम् त्वदुपासकः आ ददे स्वीकरोमि। अपहरामीत्यर्थः । 'आङो दोनास्यविहरणे' (पा १,३,२० ) इति आत्मनेपदम् । 'व्यवहिताश्च' (पा १,४,८२ ) इति आङो व्यवहितप्रयोगः । उत अपि च वर्चः राज्यादिनिमित्तं शत्रुसंबन्धि तेजः। तथा रायः धनस्य पोषम् पुष्टिम् । शत्रूणां संबन्धि समृद्धं धनम् इत्यर्थः। उत चित्तानि मनांस्यपि । आ ददे इति प्रत्येकं संबन्धः । शत्रुसंबन्धि ऐहिकामुष्मिकसुखोपायभूतं यज्ञधनादिकं तन्निवर्तिकां बुद्धिं च स्वात्मसात्करोमीत्यर्थः । रायस्पोषम् इति । 'ऊडिदंपदादि' (पा ६,१,१७१ ) इति रैशब्दात् परस्याः षष्ठ्या उदात्तत्वम् । 'षष्याःदा पतिपुत्र' (पा ८,३,५३) इति विसर्जनीयस्य सत्वम् । यत एवम् अतः सपत्ना अस्मदधरे भवन्तु इत्यादि पूर्ववद् योज्यम् ।

इति प्रथमकाण्डे द्वितीयेनुवाके तृतीयं सूक्तम् ।