← सूक्तं १.१२ अथर्ववेदः - काण्डं १
सूक्तं १.१३
भृग्वङ्गिराः।
सूक्तं १.१४ →
दे. विद्युत्। अनुष्टुप्, ३ चतुष्पाद्विराड् जगती, ४ त्रिष्टुप्परा बृहतीगर्बा पङ्क्तिः।

नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥
नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।
मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥
प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।
विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥
यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।
सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥


सायणभाष्यम्

'नमस्ते अस्तु विद्युते' इति सूक्तम् अशनिनिवारणकर्मणि अशन्युपस्थानादौ सोमदर्भकुष्ठलोष्टमञ्जिष्ठादिद्रव्याणां गृहक्षेत्रादिषु निखनने च विनियुक्तम् । उक्तं संहिताविधौ -- “ 'नमस्ते अस्तु' ( अ १,१३) 'यस्ते पृथु स्तनयित्नुः' (अ ७,१२) इत्यशनियुक् । तम् उपाध्याय प्रथमं स्यः सोमदर्भ ' (कौसू ३८,८;९) इत्यादि। तथा उपाकर्मणि अनेन सूक्तेन आज्यं जुहुयात् । सूत्रितं च-- 'अभिजिति शिष्यान्' इत्युपक्रम्य " 'नमस्ते अस्तु विद्युत' (अ १,१३) 'आरेसावस्मदस्तु' " (अ १, २६) इति (कौसू १३९,१-८)।


नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।

नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥

नमः । ते । अस्तु । विऽद्युते । नमः । ते । स्तनयित्नवे ।

नमः । ते । अस्तु । अश्मने । येन । दुःऽदाशे । अस्यसि ॥ १ ॥

हे पर्जन्य ते तव संबन्धिन्यै विद्युते विद्योतमानायै सौदामिन्यै नमः अस्तु मया क्रियमाणो नमस्कारो भवतु । यद्वा नम इत्यन्ननाम । मया हूयमानं हविर्लक्षणम् अन्नं भवतु । 'नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च' ( पा २,३,१६ ) इति चतुर्थी । द्युत दीप्तौ। अस्माद् विपूर्वात् ‘क्विप् च' (पा ३,२,७६ ) इति क्विप् । तथा ते तव संबन्धिने स्तनयित्नवे स्तनितं ध्वनिं कुर्वते अशनये नमः अस्तु । स्तन देवशब्दे । अस्मात् चुरादित्वात् णिच् । अदन्तत्वाद् उपधावृद्ध्यभावः । 'स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्' ( पाउ ३,२९) इति ण्यन्ताद्धातोः इत्नुच्प्रत्ययः। 'अयामन्ताल्वाय्येत्न्विष्णुषु' (पा ६,४,५५) इति णेरयादेशः। तथा ते तव संबन्धिने अश्मने । मेघनामैतत् । ब्यापनशीलाय मेघाय नमः अस्तु भवतु। कुतो हेतोर्नमस्कार इत्यत आह -- येनेति । येन कारणेन दूडाशे दुःखेन दाश्यते दाप्यते इति दूडाशो लुब्धः। स्तुतिनमस्कारहविरादीनाम् अप्रदातेत्यर्थः । दाशृ दाने । अस्माद् अन्तर्भावितण्यर्थात् कर्मणि खलि 'दुरो दाशनाशदभध्येष्विति वक्तव्यम्' ( पावा ६,३,१०९) इति दुरो रेफस्य उत्वम् उत्तरपदादेः ष्टुत्वं च । तादृशे पुरुषे अस्यसि क्षिपसि अशनिं प्रक्षिपसि । अतो हेतोः अशनिभयनिवृत्तये नमस्करोमीत्यर्थः। असु क्षेपणे । 'दिवादिभ्यः श्यन्' (पा ३,१,६९ ) इति श्यन्प्रत्ययः । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इति आद्युदात्तत्वम् । 'यद्वृत्तान्नित्यम्' ( पा ८,१,६६ ) इति निघातप्रतिषेधः।


नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।

मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥

नमः । ते । प्रऽवतः । नपात् । यतः । तपः । सम्ऽऊहसि ।

मृडय । नः । तनूभ्यः । मयः । तोकेभ्यः । कृधि ॥ २ ॥

न केवलं विद्युदादिभ्यो नमस्कारः अपितु पर्जन्यस्यापि नमस्कारः क्रियते -- हे प्रवतो नपात् प्रवतः प्रगतस्य स्वस्मात् प्रच्युतस्य त्वद्विषयस्तुतिनमस्काराद्यकर्तुः पुरुषस्य नपात् न पातः न पालक। असेवकस्य अशनिभयप्रदातरित्यर्थः। 'उपसर्गाच्छन्दसि धात्वर्थे' (पा ५,१,११८) इति प्रशब्दाद् गम्यर्थे अभिधेये वतिप्रत्ययः । ननु 'वत्यन्ताश्च' इति अव्ययसंज्ञायां कथं लिङ्गसंख्याभ्यां योगः। उच्यते। उपसर्गाच्छन्दसि धातौ इत्येव उच्यमानेपि धातोः अभिधेयत्वासंभवेन सामर्थ्यात् धात्वर्थे सेत्स्यति । तथापि क्रियमाणम् अर्थग्रहणम् एतत् ज्ञापयति-ससाधने धात्वर्थे अभिधेये उपसर्गाद् वतिर्भवतीति। तथा च साधनस्य लिङ्गसंख्यायोगित्वात् तदभिधायिनो वत्यन्तस्यापि लिङ्गसंख्यायोगित्वेन अनव्ययत्वम् । आह च महाभाष्यकारः -- कः पुनर्धातुकृतोर्थः। साधनम् । xxसाधनेऽयं भवन् लिङ्गसंख्याभ्यां योक्ष्यते (पाम ५,१,११८) इति। पा रक्षणे। पातीति पात् । अस्मात् लटः शत्रादेशः। नञ्समासे 'नलोपो नञः' (पा ६,३,७३ ) इति नलोपे प्राप्ते 'नभ्राण्नपात्' (पा ६,३,७५ ) इति नञः प्रकृतिभावः। 'सुबामन्त्रिते पराङ्गवत् स्वरे' (पा २,१,२) इति षष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । यद्वा प्रवतः प्रगतस्य भुवः सकाशात् प्रचण्डैः सूर्यकिरणैरुद्धृतस्य उदकस्य नपात् न पातयितः। अकाले उदकं यथा अधो न पतति तथा उपरिष्टात् मेघमण्डले धारयितरित्यर्थः । पातयतेः क्विप् । हे ईदृश पर्जन्य ते तुभ्यं नमः नमस्कारः भवतु । तस्य नमस्कार्यत्वम् आह - यतः यस्मात् कारणात् तपः पातकदाहकं तेजः समूहसि संहतं करोषि । अशनिरूपेण प्रक्षिपसीत्यर्थः । ऊह वितर्के। उपसर्गवशात् संघीकरणम् अर्थः। हे पर्जन्य नः अस्माकं तनूभ्यः शरीरेभ्यः । तादर्थ्ये चतुर्थी । मृडय । अशनिनिवारणेन शरीरस्य सुखं जनयेत्यर्थः। तथा तोकेभ्यः। अपत्यनामैतत् । अस्माकम् अपत्येभ्यः पुत्रपौत्रादिरूपेभ्यः मयः । सुखनामैतत् । सुखं कृधि कुरु । नमस्कारादिना प्रीतः सन् अशनिम् अस्मदीयेभ्यः सर्वेभ्यो निवारयेत्यर्थः । करोतेर्लोटि ‘सेर्ह्यपिच्च' (पा ३,४,८७ ) इति हिरादेशः। 'बहुलं छन्दसि (पा ,४,७३ ) इति विकरणस्य लुक् । 'श्रुशृणुप्रकृवृभ्यश्छन्दसि' (पा ६,४,१०२) इति हेधिरादेशः । 'कःकरत्करतिकृधिकृतेष्वनदितेः' (पा ८,३,५०) इति विसर्जनीयस्य सत्वम् ।


प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।

विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥

प्रऽवतः । नपात् । नमः । एव । अस्तु । तुभ्यम् । नमः । ते । हेतये । तपुषे । च। कृण्मः ।

विद्म । ते । धाम । परमम् । गुहा । यत् । समुद्रे । अन्तः । निऽहिता । असि । नाभिः ॥३॥

हे प्रवतो नपात् । व्याख्यातम् एतत् । स्वरे तु विशेषः। पादादित्वात् षष्ठ्यामन्त्रितसमुदायस्य ‘आमन्त्रितस्य च' (पा ६,१,१९८ ) इति षाष्ठिकम् आद्युदात्तत्वम् । हे पर्जन्य तुभ्यं नम एव नमस्कार एव अस्तु भवतु । तदतिरिक्तं परिचरणं न कर्तुं प्रभवाम इत्यर्थः। तथा ते तव हेतये हन्त्यनेनेति हेतिः आयुधम् । 'ऊतियूतिजूतिसातिहेतिकीर्तयश्च' ( पा ३,३,९७ ) इति हन्तेः क्तिनि अन्तोदात्तो निपात्यते। तामेव विशिनष्टि - तपुषे तापकारिण्यै। तप संतापे। 'अर्तिपॄवपियजितनिधनितपित्रपिभ्यो नित्' (पाउ २,११७ ) इति उस्प्रत्ययः। तस्य निद्वद्भावाद् आद्युदात्तत्वम् । संतापकारिणे अशनिरूपाय आयुधाय च नमः कृण्मः कुर्मः । कृवि हिंसाकरणयोश्च । अस्मात् लटि ‘धिन्विकृण्व्योर च' (पा ३,१,८० ) इति उप्रत्ययः अकारश्चान्तादेशः। तस्य 'अतो लोपः' (पा ६,४,४८) इति लोपे सति 'अचः परस्मिन् पूर्वविधौ' (पा १,१,५७) इति स्थानिवद्भावात् लघूपधगुणाभावः । 'लोपश्चास्यान्यतरस्यां म्वोः' (पा ६,४,१०७) इति अङ्गान्तस्य उकारस्य लोपः। पर्जन्यस्य निवासस्थानापरिज्ञाने नमस्कारायोगम् आशङ्कय तदपि जानीम इत्याह -- हे पर्जन्य ते तव संबन्धि(न्या) गुहा गुहायाम् । ‘सुपां सुलुक्' (पा ७,१,३९) इति सप्तम्या लुक् । गुहावत् परैरगम्ये प्रदेशविशेषे परमम् उत्कृष्टं यत् प्रसिद्धं धाम निवासस्थानं तद् विद्म वयं जानीमः। विद ज्ञाने । 'विदो लटो वा' (पा ३,४,८३ ) इति मसो मादेशः । किं पुनस्तद् इत्याह -- समुद्रे । अन्तरिक्षनामैतत् । समुद्द्रवन्ति अस्माद् उदकानि इति समुद्रः। आह च यास्कः -– 'समुद्रः कस्मात् । समुद्द्रवन्त्यस्मादापः, समभिद्रवन्त्येनमापः, संमोदन्तस्मिन् भूतानि, समुदको भवति, समुनत्तीति वा ( या २,१०) इति । ईदृशे अन्तरिक्षे अन्तः मध्ये नाभिः। यथा देहमध्ये नाभिचक्रे सर्वा नाड्यो बद्धा भवन्ति तथा पर्जन्ये कृत्स्नं मेघमण्डलं बद्धं वर्तत इति नाभित्वव्यपदेशः । हे पर्जन्य त्वं तत्र निहिता स्थापिता नाभिः असि भवसि । नाभिचक्रवत् कृत्स्नस्य मेघमण्डलस्य धारकत्वेन अन्तरिक्षमध्ये अवस्थितो भवसीत्यर्थः। निपूर्वात् धाञः कर्मणि निष्ठा । 'दधातेर्हिः' (पा ७,४,४२) इति हिरादेशः । 'गतिरनन्तरः' (पा ६,२,४९) इति गतेः प्रकृतिस्वरत्वम् । नाभ्यपेक्षया स्त्रीलिङ्गता। णह बन्धने । 'नहो भश्च' ( पाउ ४, १२६ ) इति इञ्प्रत्ययान्त आद्युदात्तो नाभिशब्दः।


यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।

सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥

याम् । त्वा । देवाः । असृजन्त । विश्वे । इषुम् । कृण्वानाः । असनाय । धृष्णुम् ।

सा । नः । मृड । विदथै । गृणाना । तस्यै । ते । नमः । अस्तु । देवि ॥ ४ ॥

पूर्वत्र पर्जन्यस्य प्राधान्येन प्रार्थना कृता। अधुना अशनिमेव प्राधान्येन प्रार्थयते। हे अशने यां त्वा त्वां विश्वे सर्वे देवाः दानादिगुणयुक्ता इन्द्रादयः असृजन्त सृष्टवन्तः। किमर्थम् इत्यत आह -- असनाय क्षेपणाय अनभिमतेषु पुरुषेषु प्रक्षेप्तुम् । असु क्षेपणे । भावे ल्युट् । धृष्णुम् धर्षिकां शत्रूणां हिंसने प्रगल्भाम् । ञिधृषा प्रागल्भ्ये । 'त्रसिगृधिधृषिक्षिपेः क्नुः' ( पा ३,२,१४० ) इति क्नुप्रत्ययः। इषुम् शरं कृण्वानाः कुर्वाणाः इषुकरणाद्धेतोः असृजन्तेत्यर्थः। कृवि हिंसाकरणयोश्च । 'लक्षणहेत्वोः क्रियायाः' (पा ३, २,१२६ ) इति हेतौ शानच् । 'धिन्विकृण्व्योर च' (पा ३,१,८०) इति उप्रत्ययः अकारश्चान्तादेशः। सा तथाविधा त्वं विदथे । यज्ञनामैतत् । विन्दन्ति प्राप्नुवन्ति अनेन फलम् इति विदथो यज्ञः। विद्लृ लाभे । 'रुदिविदिभ्यां कित्' (?पाउ ३,११५ ) इति करणे अथप्रत्ययः। कित्त्वाद् लघूपधगुणाभावः। प्रत्ययाद्युदात्तत्वम् । अधुना मया क्रियमाणे कर्मणीत्यर्थः। गृणाना स्तूयमाना। गॄ शब्दे । कर्मणि लटः शानच् यकि प्राप्ते व्यत्ययेन श्नाप्रत्ययः। 'श्नाभ्यस्तयोरात' (पा ६,४,११२) इत्याल्लोपः। 'चितः' (पा ६,१,१६३ ) इत्यन्तोदात्तत्वम् । यद्वा विद्यन्ते ज्ञायन्ते नक्षत्राणि अस्मिन् इति विदथम् अन्तरिक्षम् तस्मिन् गृणाना शब्दायमाना। गर्जन्तीत्यर्थः। नः अस्मान् मृळ मृडय। त्वन्निमित्तभयनिवारणेन सुखयेत्यर्थः। तत्र हेतुम् आह –- हे देवि अन्तरिक्षे विद्योतमाने अशने तस्यै तादृश्यै उक्तमहिमोपेतायै ते तुभ्यं नमः नमस्कारः अस्तु भवतु। तस्या इति । 'सावेकाचः०' (पा ६,१,१६८ ) इति प्राप्तस्य विभक्त्युदातत्वस्य 'न गोश्वन्त्साववर्ण' (पा ६,१,१८२) इति प्रतिषेधात् प्रातिपदिकस्वरेण आदिरुदात्तः।

इति तृतीयेनुवाके द्वितीयं सूक्तम् ।