← सूक्तं १.१३ अथर्ववेदः - काण्डं १
सूक्तं १.१४
भृग्वङ्गिराः
सूक्तं १.१५ →
दे. (वरुणो), यमो वा। अनुष्टुप्, १ ककुम्मती अनुष्टुप्, ३ चतुष्पाद्विराट्

भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् ।
महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥
एषा ते राजन् कन्या वधूर्नि धूयतां यम ।
सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥
एषा ते कुलपा राजन् तामु ते परि दद्मसि ।
ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥
असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।
अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥

सायणभाष्यम्

'भगम् अस्या वर्चः' इति सूक्तेन स्त्रियाः पुरुषस्य वा दौर्भाग्यकरणे तदुपभुक्तमाल्यकन्दुकदन्तधावनकेशानां सूत्रोक्तप्रकारेण [नि खननादिकर्माणि कुर्यात् । तथा च कौशिकः-- " 'भगम् अस्या वर्च' इति मालानिष्प्रमन्ददन्तधावनकेशान् ईशानहतायाः" (कौसू ३६, १५) इत्यादि ।


भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् ।

महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥

भगम् । अस्याः । वर्चः । आ । अदिषि । अधि । वृक्षात्ऽइव । स्रजम् ।

महाबुध्नःऽइव । पर्वतः । ज्योक् । पितृषु । आस्ताम् ॥ १॥

' अस्याः अनभिमतायाः स्त्रिया भगम् भाग्यं वर्चः तद्धेतुभूतं शारीरम् असाधारणं तेजश्च आदिषि आददे । मन्त्रप्रभावात् स्वीकरोमीत्यर्थः । डुदाञ् दाने । 'आङो दोऽनास्यविहरणे' (पा १,३,२०) इति आत्मनेपदम् । 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति लुङ् । 'स्थाध्वोरिच्च' (पा १,२,१७) इति सिचः कित्त्वम् तत्सनियोगेन धातोराकारस्य इत्त्वम् । सिचः कित्त्वाद् गुणाभावः । भगम् इति । भज सेवायाम् । 'पुंसि संज्ञायां घः प्रायेण' (पा ३,३,११८) इति करणे घः । 'चजोः कु घिण्ण्यतोः' (पा ७,३,५२) इति कुत्वम् । वृषादेः आकृतिगणत्वाद् आद्युदात्तत्वम् । वर्च इति । वर्च दीप्तौ इत्यस्माद् भावे असुन् । तस्य नित्त्वाद् आद्युदात्तत्वम् । वर्चस आदाने दृष्टान्तः -- वृक्षादिव महीरुहादिव । अधिः पञ्चम्यर्थानुवादी। पुष्पिताद् यथा स्रजं पुष्पनिकरं जना आददते तथेति पूर्वेण संबन्धः। सृज विसर्गे। ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' (पा ३,२,५९ ) इति क्विन्नन्तो निपातितः । वृक्षादिवेति । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' ( पावा २,१,४) इति समासः । एवम् अपहृतवर्चस्का सा स्त्री किं करोतु इत्यत आह--महाबुध्न इव महान् दीर्घतरो बुध्नो मूलं यस्य स महाबुध्नः । भूम्याम् अधिकतरं निखात इत्यर्थः। बन्ध बन्धने। 'बन्धेर्ब्रधिबुधी च' (पाउ ३,५) इति नक्प्रत्ययः तत्संनियोगेन धातोर्बुधादेशश्च । 'आन्महतः समानाधिकरणजातीययोः' (पा ६,३,४६ ) इति महच्छब्दस्य आकारः। तादृशः पर्वतः पर्ववान् शिलोञ्चयः। 'पर्ववान् पर्वतः' (या १,२०) इति हि निरुक्तम् । स यथा स्वस्थानात् न चलति तथा इयमपि दुर्भगा स्त्री ज्योक् चिरकालं पितृषु वक्ष्यमाणेषु पितृमात्रादिगृहेषु आस्तां निवसतु । पित्रादिगृहात् न कदाचित् पत्युर्मुखम् अवलोकयतु इत्यर्थः । आस उपवेशने । 'अनुदात्तङित आत्मनेपदम्' (पा १,३,१२) इति तङ् । लोटि अदादित्वात् शपो लुक् । 'तिङ्ङतिङः' (पा ८,१,२८ ) इति सर्वानुदात्तत्वम् ।


एषा ते राजन् कन्या वधूर्नि धूयतां यम ।

सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥

ए॒षा । ते । राजन् । कन्या । वधूः । नि । धूयताम् । यम ।

सा । मातुः । बध्यताम् । गृहे । अथो इति । भ्रातुः । अथो इति । पितुः ॥ २ ॥

हे राजन् राजमान सोम । प्रथमातिथित्वेन नियामकत्वात् यमेति तस्यैव विशेषणम् । श्रूयते हि -- ‘सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः' (ऋ १०,८५,४०) इति । हे ईदृश सोम एषा कन्या स्त्री ते तव वधूः जाया । प्रथमतस्त्वया परिगृहीतत्वाद् इत्यर्थः । सा वधूः नि धूयताम् । दौर्भाग्येन पतिगृहात् निःसार्यताम् इत्यर्थः । धूञ् कम्पने । कर्मणि लोट् । एवं भवता पतिगृहात् निःसारिता सा वधूः मातुः जनन्या गृहे बध्यताम् । बद्धेव तत्रैव चिरं वर्तताम् इत्यर्थः । बन्ध बन्धने । 'अनिदिताम्' (पा ६,४,२४) इति उपधालोपः । अथो अपि च भ्रातुः सोदरस्य गृहे बध्यताम् इति संबन्धः । अथो अपि च पितुः जनकस्य गृहे बध्यताम् । एषा वधूः दुर्भगा सती यावज्जीवं मात्रादिगृहेष्वेव यथेच्छं वर्ततां न कदाचित् पतिगृहं प्रविशतु इत्यर्थः।


एषा ते कुलपा राजन् तामु ते परि दद्मसि ।

ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥

एषा। ते। कुलऽपाः। राजन् । ताम् । ऊँ इति । ते। परि। दद्मसि ।

ज्योक् । पितृषु । आसातै । आ । शीर्ष्णः । शम्ऽओप्यात् ॥ ३॥

हे राजन् सोम एषा स्त्री ते तव कुलपाँ पातिव्रत्येन कुलस्य पालयित्री या। विवाहकाले प्रथमतस्त्वया परिगृहीतत्वात् । पा रक्षणे । 'आतोनुपसर्गे कः' (पा ३,२,३) इति कर्मण्युपपदे कप्रत्ययः । ताम् स्त्रियम् । उशब्दः अवधारणे, स च भिन्नक्रमः । ते तुभ्यमेव परि दद्मसि परिदद्मः । रक्षणार्थं दानं परिदानम् । एतावन्तं कालं पतिसमीपे स्थिताम् एनां रक्षणार्थं पुनस्त्वदायत्तामेव करोमीत्यर्थः । डुदाञ् दाने । जुहोत्यादित्वात् शपः श्लुः । 'श्नाभ्यस्तयोरातः' (पा ६,४,११२) इति आकारलोपः । 'इदन्तो मसि' (पा ७,१,४६) इति मस इदन्तत्वम् । तस्या निवासस्थानम् आह - ज्योक् चिरकालं पितृषु पित्रादिग्रहेषु उक्तेषु आसातै आस्तां निवसतु । आस उपवेशने । अस्मात् लेटि आडागमः । टेः एत्वे 'वैतोन्यत्र' (पा ३,४,९६) इति ऐकारः । पितृकुलवासस्य अवधिम आह -- शीर्ष्णः शिरसः समोप्यात् संवपनात भूमौ संपतनात। आङ् अभिविधौ । शिरसो निपातावधीति यावत् । मरणपर्यन्तं पित्रादिगृहेष्वेव वर्तताम् इत्यर्थः । समाङ्पूर्वाद वपेर्भावे छान्दसः क्यप् । 'शीर्षंश्छन्दसि' (पा ६,१,६०) इति शिरःशब्दस्य शीर्षन् आदेशः । 'अल्लोपोऽनः' (पा ६,४,१३४ ) इति अकारलोपे ‘अनुदात्तस्य च यत्रोदात्तलोपः' (पा ६,१,१६१) इति षष्ठ्येकवचनस्य उदात्तत्वम् । 'आङ् मर्यादावचने' (पा १,४,८९) इति आङः कर्मप्रवचनीयसंज्ञा। पञ्चम्यपाङ्परिभिः' (पा २,३,१०) इति समोप्यशब्दात् पञ्चमी ।


असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।

अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥

असितस्य। ते। ब्रह्मणा। कश्यपस्य। गयस्य। च ।

अन्तःकोशम्ऽइव । जामयः । अपि । नह्यामि । ते। भगम् ॥४॥

हे नारि ते तव भगम् भाग्यम् असितस्य एतन्नाम्न ऋषेः ब्रह्मणा मन्त्रेण अपि नह्यामि । अपिनद्धं पिहितं करोमि । त्वत् सकाशाद् निवर्तयामीत्यर्थः। तथा कश्यपस्य ऋषेः गयस्य च । परस्परसमुच्चयार्थश्चकारः । एतयोरपि संबन्धिना ब्रह्मणा मन्त्रेण ते तव भगम् भाग्यम् अपि नह्यामि । णह बन्धने । दिवादित्वात् श्यन् प्रत्ययः । तत्र दृष्टान्तः -- जामयः । जायन्ते आसु अपत्यानीति जामयः स्त्रियः भगिन्यादिरूपाः । तद् उक्तं यास्केन-- 'न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जाम् अपत्यम्' (या ३,६) इति । ताः अन्तः गृहमध्ये अवस्थितं कोशमिव धनवस्त्रादिस्थापनार्थम् आवृतं स्थानमिव । तादृशं स्थानं यथा पिहितं कुर्वन्ति तद्वद् इत्यर्थः । 'इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' (पावा २,१,४) इति समासः।