← सूक्तं १.२५ अथर्ववेदः - काण्डं १
सूक्तं १.२६
ब्रह्मा।
सूक्तं १.२७ →
दे. देवाः, २ इन्द्रः, भगः, सविता, ३-४ मरुतः। गायत्री, २ त्रिपदा एकावसाना साम्नी त्रिष्टुप्, ४ एकावसाना पादनिचृत्।

आरेऽसावस्मदस्तु हेतिर्देवासो असत्।
आरे अश्मा यमस्यथ ॥१॥
सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः ।
सविता चित्रराधाः ॥२॥
यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।
शर्म यच्छथ सप्रथाः ॥३॥
सुषूदत मृडत मृडया नस्तनूभ्यो ।
मयस्तोकेभ्यस्कृधि ॥४॥


सायणभाष्यम्

'आरेसौ' इति सूक्तेन खड्गादिसर्वशस्त्रनिवारणकर्मणि फलीकरणतुषावतक्षणानां होमः कार्यः।

तथैव प्रहरणोद्यतं शत्रुं दृष्ट्वा एतत् सूक्तं जपेत् । सूत्रं च--" 'आरेसौ' इत्यपनोदनानि । फलीकरणतुष[बुसा]वतक्षणानि" ( कौ १४,१४,१५) इत्यादि।

तथा दुःशकुनदर्शने काकमैथुनादिविरुद्धदर्शने अद्भुतादिदर्शने च एतत् सूक्तं जपेत् । सूत्रितं च-- 'अपनोदनापाघाभ्याम् अन्वीक्ष्यं प्रतिजपति' ( कौसू ४२,२२) इति। अत्र अपनोदनशब्देन अपनोदनकर्मसाधनत्वात 'आरेसौ' इति सूक्तम उच्यते।

तथा विजयस्वस्त्ययनकर्मणि अनेन सूक्तेन आज्यं हुत्वा खड्गादिशस्त्रं संपात्य अभिमन्त्र्य प्रयच्छेत् ।

तथैव स्वस्त्ययनकामो रात्रौ शयनकाले एतत् सूक्तं जपित्वा प्रादेशेन मुखं प्रमाय स्वप्यात् ।

तथैव सुप्तोत्थितः स्वस्त्ययनार्थम् एतेन सूक्तेन त्रीणि पदानि तिस्रो दिष्टीर्वा प्रमाय उत्तिष्ठेत् ।

सूत्रं च-" 'आरे' ( अ १,२६ ) 'अमूः पारे' ( अ १,२७ ) 'पातं नः' (अ ६,३) य एनं परिषीदन्ति' ( अ ६, ७६ ) इति यद् आयुधं दण्डेन व्याख्यातम् । दिष्ट्या मुखं विमाय संविशति । त्रीणि पदानि प्रमाय उत्तिष्ठति । तिस्रो दिष्टीः” (कौसू ५०, ४-७) इति। दिष्टिः प्रादेश इत्यर्थः।

तथैव उपाकर्मणि एतत् सूक्तम् आज्यहोमे विनियुक्तम् । 'आरेसावस्मदस्तु', 'यस्ते पृथु स्तनयित्नुः' ([अ ७, ] १२ कौसू १३९,८) इति हि सूत्रम् ।


आरेऽसावस्मदस्तु हेतिर्देवासो असत्।

आरे अश्मा यमस्यथ ॥१॥

आरे । असौ । अस्मत् । अस्तु । हेतिः। देवासः । असत् ।

आरे । अश्मा । यम् । अस्यथ ॥ १ ॥

हे देवासः देवाः । 'आज्जसेरसुक्' (पा ७,१,५० ) इति असुगागमः । युष्मत्प्रसादाद् असौ दूरे परिदृश्यमाना हेतिः हननसाधनं शत्रुभिः प्रयुक्तं खड्गाद्यायुधम् । 'ऊति यूतिजूतिसातिहेतिकीर्तयश्च' (पा ३,३,९७) इति क्तिनि एत्वम् उदात्तत्वं च निपात्यते । तद् आयुधम् अस्मत् अस्मत्तः सकाशात् आरे दूरे अस्तु भवतु । अस्मान् अस्पृष्ट्वैव दूरे निपततु इत्यर्थः । तथा हे शत्रवः यूयं यम् अश्मानम् अस्यथ अस्मद्धननाय क्षिपथ । असु क्षेपणे । दिवादित्वात् श्यन् । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इति आद्युदात्तत्वम् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः । सः अश्मा यन्त्रादिविनिर्मुक्तः पाषाणः । आरे अस्मद्दूरदेशे असत् भवतु। अस्तेर्लेटि अडागमः।


सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः ।

सविता चित्रराधाः ॥२॥

सखा । असा । अस्मभ्यम् । अस्तु । रातिः । सखा । इन्द्रः। भगः ।

सविता । चित्रऽराधाः ॥ २ ॥

पूर्वत्र शस्त्रनिवारकत्वेन देवाः प्रार्थिताः । तत्सिद्ध्यर्थं तेषां नामग्रहणपूर्वकं सखित्वं प्रार्थ्यते--असौ दिवि दृश्यमानो रातिः मित्रः सूर्यः अस्मभ्यम् अस्मत्कार्यसिद्धये सखा समानख्यानो मित्रम् अस्तु भवतु । 'अनङ् सौ' (पा ७,१,९३ ) इति सखिशब्दस्य अनङादेशः। रातिरिति । रा दाने । 'क्तिच्क्तौ च संज्ञायाम्' (पा ३,३, १७४ ) इति कर्तरि क्तिच् । 'चितः' (पा ६,१,१६३ ) इत्यन्तोदात्तत्वम् । तथा इन्द्रः परमैश्वर्ययुक्तो देवानाम् अधिपतिः भगः भजनीयः भाग्यस्य प्रदाता देवः । 'भगो ह दाता भग इत् प्रदाता' (तैब्रा ३,१,९,८ ) इति हि श्रुतिः । सविता सर्वस्य प्राणिजातस्य प्रेरको देवः। यद्वा अभिमतसाधनस्य प्रदाता । श्रूयते हि--सवितारमेव स्वेन भागधेयेनोपधावति स एवास्मै सनिं प्रसुवति' (तै २,१,६,३) इति । तमेव विशिनष्टि--चित्रराधाः। 'राध इति धननाम राध्नुवन्त्यनेन' इति यास्कः (४,४)। चित्रं बहुविधं राधो धनं यस्य स तथोक्तः। राध साध संसिद्धौ । अस्मात् करणे असुन्प्रत्ययः । 'बहुव्रीहौ प्रकृत्या' ( पा ६,२,१) इति पूर्वपदप्रकृतिस्वरत्वम् । स च सखा अस्तु । एते सर्वे देवाः अस्माकं सखायो भूत्वा शात्रवं शस्त्रनिकरं निवारयन्तु इत्यर्थः।।


यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।

शर्म यच्छथ सप्रथाः ॥३॥

यूयम् । नः । प्रऽवतः । नपात् । मरुतः । सूर्यऽत्वचसः ।

शर्म । यच्छाथ । सऽप्रथाः ॥ ३ ॥

हे प्रवतो नपात् । प्रवतः प्रगतस्य भुवः सकाशात् प्रचण्डैः सूर्यकिरणैः उद्धृतस्य उदकस्य नपात् न पातयितः अकाले उदकं यथा अधो न पतति तथा उपरिष्टाद् मेघमण्डले धारयितः पर्जन्य 'उपसर्गाच्छन्दसि धात्वर्थे' ( पा ५, १, ११८ ) इति प्रोपसर्गाद् गमिधात्वर्थे वतिप्रत्ययः । 'वत्यन्ताश्च' इत्यव्ययत्वेपि लिङ्गसंख्याभ्यां योगः पूर्वत्र समर्थितः । नञ्पूर्वात् पातयतेः क्विप् । 'नभ्राण्नपात्' (पा ६, ३, ७५ ) इत्यादिना नञः प्रकृतिभावः । 'सुबामन्त्रिते पराङ्गवत् स्वरे' ( पा २, १, २,) इति षष्ठयन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य 'आमन्त्रितस्य च' (पा ८,१,१९) इत्याष्टमिकं सर्वानुदात्तत्वम् । हे मरुतः एतत्संज्ञकाः सप्तगणात्मका देवाः । पादादित्वाद् आष्टमिकनिघाताभावे षाष्ठिकम् 'आमन्त्रितस्य च' (पा ६, १, १९८) इत्याद्युदात्तत्वम् । तान् विशिनष्टि-सूर्यत्वचसः सूर्यस्य त्वगिव त्वग् येषां ते तथोक्ताः । सूर्यसमानतेजस्का इत्यर्थः । ते सर्वे यूयं नः अस्मभ्यं सप्रथः प्रथसा विस्तारेण सहितं शर्म । गृहनामैतत् शरणं गृहं सुखं वा यच्छात यच्छत । दाण् दाने । अस्मात् लेटि आडागमः । शपि 'पाघ्रा' (पा ७, ३, ७८ ) इत्यादिना यच्छादेशः । 'तिङ्ङतिङः' (पा ८, १, २८) इति निघातः।


सुषूदत मृडत मृडया नस्तनूभ्यो ।

मयस्तोकेभ्यस्कृधि ॥४॥

सुसूदत । मृडत । मृडय । नः । तनूभ्यः ।

मयः । तोकेभ्यः । कृधि ॥४॥

हे इन्द्रादयो देवाः यूयं सुषूदत सूदयत शत्रुमुक्तानि आयुधानि अस्मत्तोऽन्यत्र प्रेरयत । षूद क्षरणे । अस्माद् ण्यन्तात् लोटि शप् । 'छन्दस्युभयथा' (पा ३,४,११७) इति शप आर्धधातुकत्वात् ‘णेरनिटि' (पा ६,४,५१) इति णिलोपः । तथा मृडत सुखयत । मृड सुखने । सर्वापेक्षया बहुवद् उक्त्वा प्रत्येकं कर्तव्यतां दर्शयितुम् एकवद् आह--हे इन्द्रादिदेव त्वं नः अस्मान् मृडय सुखय । अनिष्टविनिबर्हणेन प्रीतिं जनयेत्यर्थः। तथा अस्माकं तनूभ्यः शरीरेभ्यः तोकेभ्यः । अपत्यनामैतत् । पुत्रेभ्यश्च मयः । सुखनामैतत् । सुखं कृधि कुरु । डुकृञ् करणे । लोटि 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा ६,४,१०२) इति हेर्धिरादेशः। अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य' (पा ८,३,४६) इति विसर्जनीयस्य सत्वम् ।।

इति पञ्चमेनुवाके पञ्चमं सूक्तम् ।