← सूक्तं १.२६ अथर्ववेदः - काण्डं १
सूक्तं १.२७
अथर्वा (स्वस्त्ययनकामः)।
सूक्तं १.२८ →
दे. (चन्द्रमाः, ) इन्द्राणी (च)। अनुष्टुप्, १ पथ्यापङ्क्तिः।

अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।
तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥
विषूच्येतु कृन्तती पिनाकमिव बिभ्रती ।
विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥
न बहवः समशकन् नार्भका अभि दाधृषुः ।
वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥
प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।
इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥


सायणभाष्यम्

'अमूः पारे' इति सूक्तेन विजयार्थायुधप्रदानादीनि स्वस्त्ययनानि पूर्वसूक्तवत् कुर्यात् । सूत्रं तु पूर्वसूक्तोदाहृतं द्रष्टव्यम् ।

'प्रेतं पादौ' इति ऋचा मार्गस्वस्त्ययने पादम् अभिमन्त्र्य दद्यात् ।


अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।

तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥

अमूः। पारे । पृदाक्वः । त्रिऽसप्ताः। निःऽजरायवः ।

तासाम् । जरायुऽभिः । वयम् । अक्ष्यौ । अपि । व्ययामसि । अघऽयोः । परिऽपन्थिनः॥१॥

अमूः परिदृश्यमानाः पृदाक्वः सर्पजातयः त्रिषप्ताः त्रिगुणितसप्तसंख्याकाः 'ये त्रिषप्ताः' इत्यत्रोक्ताः निर्जरा इव जराया निर्गताः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' (पावा २,२,१८) इति गतिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । 'इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च' (पावा २,१,१४ ) इति इवशब्दस्य समासः । जरारहिता देवा इव पारे भूम्याः पारदेशे नागलोके । वर्तन्त इति शेषः । तासाम् पृदाकूनां जरायुभिः । जरायुवत् शरीरस्य वेष्टकास्त्वचो जरायवः सर्पकञ्चुकाः । तैः साधनैः अघायोः । अघं हिंसनं परेषाम् इच्छतीति अघायुः । 'छन्दसि परेच्छायामपि' (पावा ३,१,८) इति अघशब्दात् कर्मणः क्यच् । 'अश्वाघस्यात्' (पा ७,४,३७) इति आत्त्वम् । 'क्याच्छन्दसि' (पा ३,२,१७० ) इति उप्रत्ययः । प्रत्ययस्वरेण अन्तोदात्तत्वम् । तथाविधस्य परिपन्थिनः युद्धादौ प्रत्यवस्थातुः शत्रोः । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (पा ५,२,८९) इति निपात्यते । तस्य अक्ष्यौ अक्षिणी वयम् अपि व्ययामसि अपिव्ययामः अपिनह्यामः । यथा युद्धादौ शत्रुरस्मान् हिंसितुं न पश्यति तथा तस्य चक्षुषी महासर्पनिर्मोकैः आच्छादयाम इत्यर्थः। व्येञ् संवरणे । 'इदन्तो मसि' (पा ७,१,४६) इति मस इदन्तत्वम् । 'तिङ्ङतिङः' (पा ८,१,२८) इति निघातः ।।


विषूच्येतु कृन्तती पिनाकमिव बिभ्रती ।

विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥

विषूची । एतु। कृन्तती । पिनाकम्ऽइव । बिभ्रती ।

विष्वक् । पुनःऽभुवाः। मनः। असम्ऽऋद्धाः । अघऽयवः ॥२॥

पिनाकमिव । ऐश्वरं धनुः पिनाकम्, तद्वत् शत्रुनिहननक्षमम् आयुधं बिभ्रती धारयन्ती । डुभृञ् धारणपोषणयोः । अस्मात् लटः शत्रादेशः । जुहोत्यादित्वात् शपः श्लुः । 'भृञामित्' (पा ७,४,७६) इत्यभ्यासस्य इत्वम् । 'उगितश्च' (पा ४,१,६) इति ङीप् । 'अभ्यस्तानामादिः' (पा ६,१,१८९) इत्याद्युदात्तत्वम् । अत एव कृन्तती छिन्दती खड्गाद्यायुधैः शत्रून् विदारयन्ती । कृती छेदने । अस्मात् लटः शत्रादेशः। 'तुदादिभ्यः शः' (पा ३,१,७७) इति शप्रत्ययः । 'शे मुचादीनाम्' (पा ७,१,५९) इति नुम् । 'उगितश्च' (पा ४,१,६) इति ङीप् । 'अदुपदेशाल्लसार्वधातुकमनुदात्तम्' (पा ६,१,१८६) इति शतुरनुदात्तत्वे विकरणस्य प्रत्ययस्वरेण उदात्तत्वम् । 'अतो गुणे' (पा ६,१,९७) इति शत्रा सह एकादेशे 'एकादेश उदात्तेनोदात्तः' (पा ८,२,५) इति एकादेशस्य उदात्तता । 'शतुरनुमो नद्यजादी' (पा ६,१,१७३ ) इत्यन्तोदात्तात् शत्रन्ताद् उत्तरस्य ङीप उदात्तत्वम् । ईदृशी शात्रवी सेना विषूची विषु नाना अञ्चन्ती गच्छन्ती विप्रकीर्णा एतु गच्छतु । नानामुखं वित्रस्ता धावतु इत्यर्थः । विषुशब्दोपपदाद् अञ्चतेः 'ऋत्विग्' (पा ३,२,५९) इत्यादिना क्विन् । 'अनिदिताम्' (पा ६,४,२४) इति नलोपः । 'अञ्चतेश्चोपसंख्यानम् (पावा ४,१,६) इति ङीप् । भसंज्ञायाम् 'अचः' (पा ६,४,१३८ ) इत्यकारलोपे 'चौ' (पा ६,३,१३८) इति दीर्घत्वम् । तथाविधा सेना यदि पुनर्भवा पुनःसंघीभूता भवेत् तर्हि मनः तत्सेनासंबन्धि मानसं विष्वक् नानामुखम् अनवस्थितं भवतु । पुनः संघश आगतानां शत्रुसेनाभटानां मनांसि कार्याकार्यविचारशून्यानि संभ्रान्तानि भवन्तु इत्यर्थः । भू सत्तायाम् । अस्मात् 'ऋदोरप्' (पा ३,३,५७) इति अप्प्रत्ययः । ततः पुनःशब्देन बहुव्रीहिः । यद्वा कर्तरि पचाद्यच् । यद्वा पुनर्भवायाः सेनायाः संबन्धि मन इति योजना । 'सुपां सुलुक्' (पा ७,१,३९) इति षष्ठ्येकवचनस्य सुः आदेशः । एवं सेनायां संभ्रान्तायां तदधिष्ठातारः अघायवः अघं परेषाम् इच्छन्तः शत्रवः असमृद्धाः समृद्धिरहिताः राष्ट्रकोशादिभ्रष्टाः । भवन्तु इति शेषः ।


न बहवः समशकन् नार्भका अभि दाधृषुः ।

वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥

न। बहवः। सम् । अशकन् । न। अर्भकाः। अभि। दधृषुः ।

वेणोः। अद्गाःऽइव । अभितः । असम्ऽऋद्धाः। अघऽयवः ॥ ३॥

बहवः हस्त्यश्वरथपदातियुक्ता बहुलाः शत्रवः न सम् अशकन् न संशक्नुवन्तु । बहवोपि युद्धरङ्गे अस्मान् जेतुम् अशक्ताः पराजिता भवन्तु इत्यर्थः। शक्लृ शक्तौ । अस्मात् 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति प्रार्थनायां लुङ् । 'पुषादिद्युताद्य्लृदितः' (पा ३,१,५५) इति च्लेः अङादेशः । तथा अर्भकाः अल्पाः । 'दभ्रम् अर्भकम् इत्यल्पस्य' इति यास्कः (३,२० ) । परिमिताः शत्रवः न अभि ददृशुः आभिमुख्येन अस्मान् न पश्यन्तु । युद्धार्थम् अस्मान् द्रष्टुमपि असमर्था दूरत एव पलायन्ताम् इत्यर्थः । दृशिर् प्रेक्षणे । अस्मात् पूर्वोक्तसूत्रेण लिट् । तुजादित्वाद् अभ्यासदीर्घत्वम् । पराजितानां शत्रूणाम् अवस्थानप्रकारम् आह उत्तरार्धेन । वेणोः वंशकाण्डस्य परितः परितो वर्तमाना उद्गाः इव । उद्गच्छन्तीति उद्गाः शाखाः। 'डोऽन्यत्रापि दृश्यते' (पा ३,२,४८) इति उदुपसृष्टाद् गमेर्डप्रत्ययः । 'टेः' (पा ६,४,१४३) इति टिलोपः । तथाविधाः शाखा इव अघायवः शत्रवः असमृद्धाः समृद्धिरहिता भवन्तु । यथा परितो वर्तमाना वेणुशाखा असंहता कृशाश्च दृश्यन्ते तथा युद्धभूमौ पराजिताः शत्रवः सेनादिरहिता राज्यभ्रष्टास्तुच्छा भवन्तु इत्यर्थः । ऋधु वृद्धौ । 'क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' (पा ३,४,७६) इति कर्तरि क्तप्रत्ययः। 'यस्य विभाषा' (पा ७,२,१५) इति इट्प्रतिषेधः। ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।


प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।

इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥

प्र । इतम् । पादौ । प्र। स्फुरतम् । वहतम् । पृणतः। गृहान् ।

इन्द्राणी । एतु । प्रथमा । अजीता । अमुषिता । पुरः ॥ ४ ॥

हे पादौ जिगमिषतो जनस्य संबन्धिनौ युवां प्रेतम् प्रकर्षेण गच्छतम् । इण् गतौ । लोटि थसस्तम् आदेशः । तदर्थं प्र स्फुरतम् पुनःपुनः शीघ्रचलनेन गमनं निष्पादयतम् इत्यर्थः । गमनस्य अवधिम् आह -- पृणतः इष्टफलदानेन अस्मान् प्रीणयतः गन्तव्यत्वेन उद्दिष्टपुरुषस्य गृहान् वहतम् प्रापयतम् । यद्वा पृणतः पालकस्य परराष्ट्राधीशस्य शत्रोः गृहान् वहतम् अस्मदीयां सेनां प्रापयतम् । पॄ पालनपूरणयोः। अस्मात् लटः शत्रादेशः । क्र्यादित्वात् श्नाप्रत्ययः। 'प्वादीनां ह्रस्वः' (पा ७, ३, ८०) इति ह्रस्वत्वम् । 'श्नाभ्यस्तयोरातः' (पा ६,४,११२) इति आल्लोपः । 'शतुरनुमः' (६, १, १७३ ) इति विभक्तेरुदात्तत्वम् । गन्तृजनरक्षार्थं पुरः पुरस्तात् पूर्वभागे । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (पा ५,३,३९) इति असिप्रत्ययः, पूर्वशब्दस्य पुरादेशश्च । इन्द्राणी इन्द्रस्य पत्नी । 'इन्द्रवरुणभवशर्व' (पा ४,१,४९) इत्यादिना ङीष्प्रत्ययः आनुगागमश्च । प्रत्ययस्वरेण अन्तोदात्तत्वम् । ततो यणादेशे 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (पा ८,२,४) इति परोऽनुदात्तः स्वर्यते । एतु गच्छतु । तामेव विशिनष्टि--प्रथमा प्रथमभाविनी अजिता केनचिदपि अनिर्जिता। तथा अमुषिता अनपहृता । सेनाभिमानिदेवतात्वेन सर्वैरनभिभाव्येत्यर्थः । श्रूयते हि -– ‘इन्द्राणी वै सेनायै देवता' (तै २, २, ८, १) इति । पुरोगामिन्या सेनाभिमानिन्या इन्द्राण्या देवतया अनुगृहीता अस्मदीया सेना शत्रून् निर्जित्य तद्गृहानपि आक्रामतु इत्यर्थः।

इति पञ्चमेऽनुवाके षष्ठं सूक्तम् ।