अथर्ववेदः/काण्डं २०/सूक्तम् ००१

अथर्ववेदः - काण्डं २०
सूक्तं २०.००१
१ विश्वामित्रः, २ गोतमः, ३ विरूपः।
सूक्तं २०.००२ →
दे. १ इन्द्रः, २ मरुतः, ३ अग्निः। गायत्री।

इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
स पाहि मध्वो अन्धसः ॥१॥
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥२॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर्विधेमाग्नये ॥३॥