अथर्ववेदः/काण्डं २०/सूक्तम् ००२

← सूक्तं २०.००१ अथर्ववेदः - काण्डं २०
सूक्तं २०.००२
गृत्समदः(मेधातिथिर्वा)।
सूक्तं २०.००३ →
दे. १ मरुतः, २ अग्निः, ३ इन्द्रः, ४ द्रविणोदाः। १-२विराड् गायत्री, - - -- -

ऋतुप्रैषाः (वैता.श्रौ.सू. १९.२३ - २०.१)

20.2
मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु ॥१॥
अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥२॥
इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥३॥
देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥४॥