← सूक्तं २०.०४२ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४३
त्रिशोकः।
सूक्तं २०.०४४ →
दे. इन्द्रः। गायत्री।

भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तदा भर ॥१॥
यद्वीलाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
वसु स्पार्हं तदा भर ॥२॥
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
वसु स्पार्हं तदा भर ॥३॥