← सूक्तं २०.०४३ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४४
इरिम्बिठिः।
सूक्तं २०.०४५ →
दे. इन्द्रः। गायत्री।

प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
नरं नृषाहं मंहिष्ठम् ॥१॥
यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।
अपामवो न समुद्रे ॥२॥
तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
महो वाजिनं सनिभ्यः ॥३॥