← सूक्तं २०.०४४ | अथर्ववेदः - काण्डं २० सूक्तं २०.०४५ शुनःशेपो देवरातापरनामा। |
सूक्तं २०.०४६ → |
दे. इन्द्रः। गायत्री। |
अयमु ते समतसि कपोत इव गर्भधिम् ।
वचस्तच्चिन् न ओहसे ॥१॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
विभूतिरस्तु सूनृता ॥२॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन् वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥३॥