← सूक्तं २०.०४८ | अथर्ववेदः - काण्डं २० सूक्तं २०.०४९ (१-७ ) खिलम्। |
सूक्तं २०.०५० → |
दे. ४-५ नोधाः, ६-७ मेध्यातिथिः। । गायत्री। |
यच्छक्रा वाचमारुहन्न् अन्तरिक्षं सिषासथः ।
सं देवा अमदन् वृषा ॥१॥
शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि ।
मंहिष्ठ आ मदर्दिवि ॥२॥
शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति ।
विमदन् बर्हिरासरन् ॥३॥
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥४॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥५॥
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥६॥
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥७॥