← सूक्तं २०.०४९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०५०
मेध्यातिथिः।
सूक्तं २०.०५१ →
दे. इन्द्रः। प्रगाथः(विषमा बृहती - समा सतोबृहती)

कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१॥
कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः ॥२॥