अथर्ववेदः/काण्डं २०/सूक्तम् ०५२

← सूक्तं २०.०५१ अथर्ववेदः - काण्डं २०
सूक्तं २०.०५२
मेध्यातिथिः।
सूक्तं २०.०५३ →
दे. इन्द्रः। बृहती।

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् ।
पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥