अथर्ववेदः/काण्डं २०/सूक्तम् ०५३

← सूक्तं २०.०५२ अथर्ववेदः - काण्डं २०
सूक्तं २०.०५३
मेध्यातिथिः।
सूक्तं २०.०५४ →
दे. इन्द्रः। बृहती।

क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥१॥
दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
नकिष्ट्वा नि यमदा सुते गमो महाश्चरस्योजसा ॥२॥
य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥३॥