← सूक्तं २०.०५४ | अथर्ववेदः - काण्डं २० सूक्तं २०.०५५ रेभः। |
सूक्तं २०.०५६ → |
दे. इन्द्रः। बृहती। |
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥
या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः ।
स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥
यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥