← सूक्तं २०.०५३ अथर्ववेदः - काण्डं २०
सूक्तं २०.०५४
रेभः।
सूक्तं २०.०५५ →
दे. इन्द्रः। १ अतिजगती, २-३ उपरिष्टाद्बृहती।

विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१॥
समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।
स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥२॥
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥३॥