← सूक्तं २०.०६४ | अथर्ववेदः - काण्डं २० सूक्तं २०.०६५ विश्वमनाः। |
सूक्तं २०.०६६ → |
दे. इन्द्रः। उष्णिक्। |
एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
घृतात्स्वादीयो मधुनश्च वोचत ॥२॥
यस्यामितानि वीर्या न राधः पर्येतवे ।
ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥