← सूक्तं २०.०६५ | अथर्ववेदः - काण्डं २० सूक्तं २०.०६६ विश्वमनाः। |
सूक्तं २०.०६७ → |
दे. इन्द्रः। उष्णिक्। |
स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
अर्यो गयं मंहमानं वि दाशुषे ॥१॥
एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥
वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम् ।
अहरहः शुन्ध्युः परिपदामिव ॥३॥