← सूक्तं २०.०८१ अथर्ववेदः - काण्डं २०
सूक्तं २०.०८२
वसिष्ठः।
सूक्तं २०.०८३ →
दे. इन्द्रः। प्रगाथः(बृहती-सतोबृहती)

यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१॥
शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे ।
नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥२॥