← सूक्तं २०.०८२ | अथर्ववेदः - काण्डं २० सूक्तं २०.०८३ शंयुः |
सूक्तं २०.०८४ → |
दे. इन्द्रः। प्रगाथः(बृहती-सतोबृहती) |
यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१॥
शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे ।
नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥२॥इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।
छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥
ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।
अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥